अक्षर आकार:

श्रीवेङ्कटेशनिध्यानम्

Venkateshanidhyanam

श्रीवेङ्कटेशनिध्यानम्

ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णोः परां प्रेयसीं तद्वक्षस्स्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम् । पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥ १॥ श्रीवेङ्कटेशदयितां श्रियं घटकभावतः । समाश्रित्य वृषाद्रीशचरणौ शरणं श्रये ॥ २॥ श्रीमन् शेषगिरीश ते पदयुगे मञ्जीरसंराजिते सक्तं मानसमस्तु मे तव शुभे जङ्घे सुजान्वञ्चिते । रम्भाकान्तिहरोरुकाण्डयुगलीं प्राप्तं कटीं सेवते काञ्चीनूपुरकिङ्किणीपरिचितां पीताम्बरालङ्कृताम् ॥ ३॥ नाभीपङ्कजतुन्दबन्धनलसद्दिव्योदरापाश्रयं पद्माकौस्तुभहारमाल्यसुभगां वक्षस्स्थलीं गाहते । सर्वाभीष्टवरप्रदानकटिबन्धाब्जाग्र्यचक्रोज्ज्वलैः हस्तैः श्लिष्टमनल्पभूषणयुतैः कण्ठं समालम्बते ॥ ४॥ मुक्तारत्नविराजिकुण्डललसद्गण्डं सुबिम्बाधरं नासाशोभि दयार्द्रलोचनयुगं सुभ्रूर्ध्वपुण्ड्रोज्ज्वलम् । वक्त्रं रत्नललाटिकापरिलसत्फालं सतृष्णं पिबत् मौलौ रज्जति माल्यशोभिनि महारत्नाभिषेकोज्ज्वले ॥ ५॥ भूयो वक्त्रमनुप्रसर्पति ततः कण्ठावसक्तं भुजैः श्लिष्टं वक्षसि पद्मया परिचिते लग्नं पुनर्मध्यमम् । कट्यूरुद्वयजानुषु प्रविततं जङ्घावसक्तं पदोः । प्राप्तं तिष्टति तत्र गात्रसुषमासक्तं वृषाद्रीश ते ॥ ६॥ ॥ इति श्रीवेङ्कटेशनिध्यानम् ॥ From a telugu book veNkaTeshakAvyakalApa