अक्षर आकार:

वेदव्यासकृतं वेङ्कटेशध्यानम्

Venkateshadhyanam by Veda Vyasa

वेदव्यासकृतं वेङ्कटेशध्यानम्

वेदव्यासध्यानम् श्रीवेंकटेशमनुवासरमिन्दिरेशं दुग्धान्नपूर्णमधुशर्करगोघृताढ्यम् । रम्भाफलेन सह षड् सयुक्तदिव्य missing letter? राजान्नसूपममृतं स्मरतां करस्थम् ॥ १॥ संपूर्णवृष्टिमिह वर्षय कालमेघैः दुर्भिक्षकालरहितं कुरु वेंकटेश । कारुण्यजीवननिधिर्जगतां त्वमद्य त्वामेव नौमि सततं वरद प्रसीद ॥ २॥ तिष्ठन् स्वामिसरोवरस्थलवरे श्रीवेंकटेश स्मयन् लक्ष्म्याऽलङ्कृतबाहुमध्यविलसत्सर्वाङ्गभूषोज्ज्वलः । वैकुण्ठाद्रिरसौ समस्तजगतामित्येव सन्दर्शयन् विश्वालिङ्गनभाग्यवान् विजयते ब्रह्मेन्द्ररुद्रेश्वरः ॥ ३॥ वेदव्यासकृतं ध्यानं निद्रान्ते स्मरतामिदम् । सर्वारोग्यं च भोगश्च नराणां तत्पदं भवेत् ॥ ॥ इति वेदव्यासध्यानम्॥ From a telugu book veNkaTeshakAvyakalApa