अक्षर आकार:

वेङ्कटेशभुजङ्गम्

Venkatesha Bhujangaprayata stotram

वेङ्कटेशभुजङ्गम्

मुखे चारुहासं करे शङ्खचक्रं गले रत्नमालां स्वयं मेघवर्णम् । तथा दिव्यशस्त्रं प्रियं पीतवस्त्रं धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ १॥ सदाभीतिहस्तं मुदाजानुपाणिं लसन्मेखलं रत्नशोभाप्रकाशम् । जगत्पादपद्मं महत्पद्मनाभं धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ २॥ अहो निर्मलं नित्यमाकाशरूपं जगत्कारणं सर्ववेदान्तवेद्यम् । विभुं तापसं सच्चिदानन्दरूपं धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ ३॥ श्रिया विष्टितं वामपक्षप्रकाशं सुरैर्वन्दितं ब्रह्मरुद्रस्तुतं तम् । शिवं शङ्करं स्वस्तिनिर्वाणरूपं धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ ४॥ महायोगसाद्ध्यं परिभ्राजमानं चिरं विश्वरूपं सुरेशं महेशम् । अहो शान्तरूपं सदाध्यानगम्यं धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ ५॥ अहो मत्स्यरूपं तथा कूर्मरूपं महाक्रोडरूपं तथा नारसिंहम् । भजे कुब्जरूपं विभुं जामदग्न्यं धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ ६॥ अहो बुद्धरूपं तथा कल्किरूपं प्रभुं शाश्वतं लोकरक्षामहन्तम् । पृथक्काललब्धात्मलीलावतारं धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ ७॥ इति श्रीवेङ्कटेशभुजङ्गं सम्पूर्णम् । Seven stanzas are for the Lord of Seven Hills. This stotra is attributed to Shankaracharya, however is not found in the complete works.