अक्षर आकार:

श्रीवेङ्कटेशाष्टकम् २

ShrI Venkateshashtakam 2

श्रीवेङ्कटेशाष्टकम् २

ॐतत्सदिति निर्देश्यं जगज्जन्मादिकारणम् । अनन्तकल्याणगुणं वन्दे श्रीवेङ्कटेश्वरम् ॥ १॥ नतामरशिरोरत्न श्रीयुतम् श्रीपदाम्बुजम् । प्रावृषेण्यघनश्यामं वन्दे श्रीवेङ्कटेश्वरम् ॥ २॥ मोहादिषडरिव्यूहग्रहाकुलमहार्णवे । मज्जतां तरणीं नॄणां वन्दे श्रीवेङ्कटेश्वरम् ॥ ३॥ नाथं त्रिजगतां एकं साधुरक्षणदीक्षितम् । श्रीशेषशैलमध्यस्थं वन्दे श्रीवेङ्कटेश्वरम् ॥ ४॥ राजद्राजीवपत्रश्रीमदमोचनलोचनम् । मन्दहासलसद् वक्त्रं वन्दे श्रीवेङ्कटेश्वरम् ॥ ५॥ यन्मुखेन्दुस्मितज्योत्स्ना भूयसीं तमसां ततिम् । विधुनोति प्रपन्नानां वन्दे श्रीवेङ्कटेश्वरम्॥ ६॥ नान्तस्य कस्यचिद् वाक्यं शब्दस्यानन्य वाचिनः । ब्रह्मारुद्रेन्द्रजनकं वन्दे श्रीवेङ्कटेश्वरम् ॥ ७॥ यद्वक्षःस्थलमध्यास्य भाति श्रीरनपायिनी । तडिल्लेखेवाभ्रमध्ये वन्दे श्रीवेङ्कटेश्वरम् ॥ ८॥ वेङ्कटेशाष्टकमिदं नरकण्ठीरवोदितम् । यः पठेत् सततं भक्त्या तस्मै विष्णुः प्रसीदति ॥ ॥ इति श्री वट्टेपल्ले नरकण्ठीरव शास्त्रि विरचितम् श्री वेङ्कटेशाष्टकं समाप्तम् ॥ From the book `Tirupati Sri Venkatesvara' by Sri Sadhu Subrahmanya Sastry at pages 371 and 372