अक्षर आकार:

वेदान्तपरभागवतं

vedAntaparabhAgavataM

वेदान्तपरभागवतं

वसुदेवः शुद्धसत्त्वं तद्वृत्तिर्देवकी मता । कृष्ण आत्माऽऽगतस्तत्र पितृबन्धविमोचकः ॥ १॥ गोकुलं प्रापितोऽथापि दैवात्पित्रेन्द्रियाभिधम् । सवृत्तिसात्त्विकात्माख्ययशोदानन्दतातभाक् ॥ २॥ दुर्वासनापूतनाघ्नो रेमे गोप्याख्यवृत्तिभिः । विलीय तत्सञ्चितगोरसाद्गोगोपपालकः ॥ ३॥ नानाकौतुककृद्दुर्हृद्वृत्तिवृन्दावने स्थितः । गोप्याशापूरकोऽविद्यानिशायां चित्ररासकृत् ॥ ४॥ गोप्योर्द्वयोर्द्वयोर्मध्ये वशस्तदनुरूपवत् । रेमे दैवात्तद्वियुक्तो दुर्हृत्प्राक्पितृसङ्गतः ॥ ५॥ भवाब्धिमध्ये देहाख्यां कृत्वा द्वारवतीं पुरीम् । सोऽनुप्रविष्टस्तां तत्र वृत्त्याख्या विविधाः स्त्रियः ॥ ६॥ सर्वाः पतिव्रताः कान्तं मेनिरे तं वशीकृतम् । आत्मारामोऽप्यसङ्गोऽपि ततो दीन इवाबभौ ॥ ७॥ षोडशस्त्रीसहस्रेशः संसारं समवर्धयत् । परोपदेशकृत्पञ्चप्राणपाण्डवपालकः ॥ ८॥ उरीकृत्य ब्रह्मशापं विनाश्य स्वजनान् क्षणात् । पुरीं द्वारवतीं चापि कृष्ण एकस्ततः स्वयम् ॥ ९॥ हृतपाण्डवसारोऽगाद्वैकुण्ठं पूर्वधाम तत् । भक्तः सुभक्त्या भगवत्सम्बन्धीदं सदा पठेत् । भवार्तिहृद् भागवतं स नूनं भवभर्जकः ॥ १०॥ इति श्री परमपूजनीय श्रीवासुदेवानन्दसरस्वतीविरचितं वेदान्तपरभागवतं सम्पूर्णम् ॥