अक्षर आकार:

श्रीवेणुगोपालस्वामिनः मङ्गलाष्टकम्

Shri Venugopalasvaminah Mangalashtakam

श्रीवेणुगोपालस्वामिनः मङ्गलाष्टकम्

ॐ गं गणपतये नमः । ॐ श्री वागीश्वर्यै नमः ॥ अथ श्रीमद्धर्मपुरीवासिनः श्री वेणुगोपालस्वामिनः मङ्गळाष्टकम् । दक्षिणे सत्यभामा च वामे ते रुक्मिणी विभो! धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ १॥ वेणुभूषितहस्ताय वेणुगानप्रियात्मने । धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ २॥ पीताम्बराञ्चितायास्मै प्रणतः क्लेशनशिने । धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ ३॥ भास्वत्कौस्तुभवत्साय भक्ताभीष्टप्रदायिने । धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ ४॥ धृतचक्रगदायास्मै हृतकंसादिरक्षसे । धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ ५॥ आदिमध्यान्तहीनाय त्रिगुणात्मकरूपिणे । धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ ६॥ परब्रह्मस्वरूपाय सच्चिदानन्दरूपिणे । धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ ७॥ विश्वनाथनुतायास्मै विश्वरक्षणहेतवे । धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ ८॥ इति कोरिडे विश्वनाथ शर्मणाविरचितं श्री वेणुगोपालस्वामिनः मङ्गळाष्टकं सम्पूर्णम् । भगवदाशीर्वादाभिलाषी कोरिडे विश्वनाथ शर्मा, धर्मपुरी