अक्षर आकार:

श्रीवेङ्कटेशस्तोत्रम्

shrIvenkaTeshastotram

श्रीवेङ्कटेशस्तोत्रम्

श्रिया परिष्कृतोरस्कं दयामय शुभाकृतिम् । श्रीवेङ्कटशिखारत्नं श्रीनिवासं भजामहे ॥ १॥ सते वैकुण्ठखण्डेऽस्मिन्ननन्ताश्चर्यवैभवे । सुलभाय नमः पुंसे दुर्लभात्मसमाय नः ॥ २॥ अञ्जनाद्रिशिरस्यात्तव्यञ्जनायाञ्जनच्छिदे । अञ्जनाभाय शुद्धाय रञ्जनायात्मने नमः ॥ ३॥ अव्यक्ताय सुसूक्ष्माय स्वयंव्यक्ताय भास्वते । वृषभाद्रिविनोदाय विशुद्धज्योतिषे नमः ॥ ४॥ तस्मै परस्मै कस्मैचित्पुंसे संसेविताङ्घ्रये । सुरासुरनरैर्मुक्तैरिव नित्यश्रिये नमः ॥ ५॥ अद्रीकृतमहातल्पमविकल्पदयानिधिम् । आश्रितप्रार्थनाकल्पमाकल्पयतु मे मनः ॥ ६॥ अखर्वपूर्वदेवादिगर्वसर्वङ्कषौजसे । नमः श्रीशाय शर्वादिसुपर्वस्तुतपर्वणे ॥ ७॥ उत्तुङ्गाचलश‍ृङ्गस्थो दयारङ्गैरपाङ्गितैः । समानपि समान्पश्यन् जन्तून् मन्तून्क्षिपेत्स नः ॥ ८॥ आकृष्य भविनो व्याजैः आधिव्याध्येकभेषजम् । अनुभावयते रूपं निधये श्रीश्रियै नमः ॥ ९॥ नित्यश्रीवासनिर्दुष्टहृदयाय दयात्मने । निखिलानुग्रहैकार्थविग्रहाय नमोऽस्तु नः ॥ १०॥ अर्चिताय नमो दिव्यैस्सुमनोभिस्सुगन्धये । विबुधामृतदायास्तु वृषभाद्रिविशोभिने ॥ ११॥ घनपत्रलसिम्हाद्रिवनच्छायेन वर्प्भणा । घनाघनसमानेन जनतापच्छिदे नमः ॥ १२॥ नानाशाखोपपन्नाय सुपर्णोद्भासितात्मने । निश्शेषफलदायास्तु नमः कल्पद्रुमाय नः ॥ १३॥ यामुनाध्वगतोद्बोधसुमनस्संस्तुतात्मने । नित्यगोपजनेष्टाय गोविन्दाय नमोऽस्तु नः ॥ १४॥ बालोपच्छन्दनन्यायकृतविश्वहितं परम् । अवतीर्णं प्रभुं तीर्णक्लेशं कारणमाश्रये ॥ १५॥ कप्यासकञ्जनेत्राय नमः कल्मषहारिणे । मनःप्रग्रहरूद्वाक्षवशीकार्याय विष्णवे ॥ १६॥ प्रशस्तनागपृष्टेऽस्मिन्नाकपृष्ठ इव स्थितम् । नित्यसूर्याश्रयं धाम जगत्सवितृ तन्नुमः ॥ १७॥ अपारविभवानेकतीर्थे दिव्ये वृषाचले । मध्यलोकमहारत्ने वसते विष्णवे नमः ॥ १८॥ आनन्दनिलयख्यातविमानान्तर्विभूषणम् । अशेषेश्वरमानन्दमयं ब्रह्म परं स्तुमः ॥ १९॥ सेवे तौ दम्पती दिव्यौ यावेनांसि भवार्दितान् । हरावः प्रणिपात्येति वराहक्षेत्रमाश्रितौ ॥ २०॥ प्रणिपात्यानुगृह्यापि पद्मया प्रेषितान् जनान् । प्रपाद्य परमानन्दे मज्जयित्रे नमो नमः ॥ २१॥ सप्तपर्वतसोपानसमारोहश्रमैर्भवान् । अघानि फलयन् श्रीश स्वात्मसात्कुरुते श्रितान् ॥ २२॥ आरुह्य पर्वतानुच्चैः अधःस्थान् वीक्ष्य साधवः । भक्ताभक्तान्तरं श्रीमन्नेतावदिति मन्वते ॥ २३॥ यं त्वां मुक्तामयाकल्पं सदा मुक्तामयाः श्रिताः । मुक्ता मयापि पाप्मानः येन श्रीनाथ ते नमः ॥ २४॥ अदृष्टश्रीनिवासानामश्रिताहीन्द्रभूभृताम् । परो दूरेऽस्ति वैकुण्ठः इति धीरस्त्यपवित्रमा ॥ २५॥ अमृतस्यन्दिभिर्मुक्तैर्नित्यमुक्तैस्सभक्तिकम् । सुमैस्सुवर्णैस्त्वं नित्यमुक्तैश्च श्रीनिधेऽर्च्यसे ॥ २६॥ चित्रभूरमृतं तेजः प्राणः खं ब्रह्म माधव । मूलं फलं रसो वै स सुखं तत् सर्वमप्यसि ॥ २७॥ घनाघनप्रभं शेषधराधरशिरःस्थितम् । रमारमणमाहुस्त्वां परापरविदो गतिम् ॥ २८॥ वन्दे वैकुण्ठशैलेशं वैकुण्ठं कुण्ठितांहसम् । एककण्ठ्यं प्रमाणानां यत्र, यस्यापि च श्रिया ॥ २९॥ निहत्यान्तस्तमो लोकानवते नवतेजसे । सर्वगन्धरसाय स्याद्विचित्र श्रीश ते नमः ॥ ३०॥ अस्तदोषं समस्ताढ्यं शस्तं कस्तं स्तवैस्स्तुवन् । पारं द्रक्ष्यत्यतो नैष परीहासाय मे श्रमः ॥ ३१॥ sएच्तिओन्‍ श्रीवेङ्कटेशाय नमः । ज्ञानशीलनिधिं नौमि मुनिं श्रीरङ्गलक्षणम् । गुरुं, गुरोर्मुखाद्यस्य श्रीवासो भरमग्रहीत् ॥ ३२॥ प्रपद्ये पञ्चसंस्कारगुरुं त्रव्यन्तलक्ष्मणम् । नित्यश्रीवासनिध्यानपूर्णेज्यं प्राज्ञयोगिनम् ॥ ३३॥ नानाकृतिकृतक्षेमं नारायणगिरिस्थितम् । प्रपत्तिदर्शनं वन्दे देशिकं वेङ्कटेश्वरम् ॥ ३४॥ श्रुतिचक्षुर्बलद्योऽसौ श्रीनिधिं देवतोत्तमम् । स्थापयामास योगीन्द्रश्शेष एतं श्रयेऽनिशम् ॥ ३५॥ बद्धाञ्जलिपुटो नित्यं प्रपद्ये सप्त पर्वतान् । श्रिया विहरते सार्धं येषु नः पुरुषोत्तमः ॥ ३६॥ अहीन्द्रशैलवास्तव्यमद्भुतं धाम तन्मयि । अपाङ्गरिङ्गणं किञ्चिदातनोत्वनुकम्पया ॥ ३७॥ आनन्दात्म यदाश्रित्य सुखमिन्धे जगत्त्रयम् । शेषशैलशिरोरत्नं प्रत्नं तद्दयतां मयि ॥ ३८॥ महिमाऽनन्यसामान्यो मान्यं सौलभ्यमीश्वरे श्रूयतेऽस्तीति यत्तस्य देव एष निदर्शनम् ॥ ३९॥ कटाक्षाय नमस्तस्मै वेङ्कटब्रह्मणो विभो । अनुकम्पामुपाश्लिष्य जाग्रद्यः कुरुते जगत् ॥ ४०॥ निःश्रेयसस्थलमिवैष फणिन्द्रशैलो । नाथ त्वया भवति मङ्गलविग्रहेण तन्मादृशाननुगृहाण तथा यथा त्वाम् । आराधयेयुरपि तामनपेक्ष्य मुक्तिम् ॥ ४१॥ नूनं वसन्नपि भवानमृते विभूतौ आत्मप्रभाभिरतसीसुममेचकाभिः । व्याप्नोति वेङ्कटविभो भुवनान्यथापि भाग्याय नस्तव तु मङ्गलविग्रहोऽयम् ॥ ४२॥ पित्रोरनुग्रहपदं न परं सुपुत्राः दुष्टास्सुता अपि तदस्तु रमानिवास । बाढं तु विश्वसिमि हानपदं न चाहं क्केवोपयोक्ष्यत इयं करुणा विना माम् ॥ ४३॥ याचे भवन्तमिह काङ्क्षितमर्पयेति नो चेद्विभो क्क तव गच्छतु शेष एषः । त्रायस्व वा वृषगिरीश दयाप्रभावात् आहो त्यज ध्रुवमिदं शरणं त्वमेव ॥ ४४॥ द्विदशशतरसज्ञो नायमीष्टेऽपराधान् मम गणयितुमेषा निष्कृतिस्सा क्क कोणे । अतिविमलधियो यां यां मुनीन्द्रास्स्मरन्ति त्वयि शमयतु तत्तान् साञ्जलिर्मे प्रणामः ॥ ४५॥ सकृदपि यदि शेषश्शेषशैलेश्वर त्वां नमति निहितबुद्धिः तत्प्रभृत्येष धन्यः । मम तु किमिह कुर्यां चञ्चलं मानसं यत् क्षणमपि न पुनस्त्वद्व्युग्रतामेति कृच्छात् ॥ ४६॥ त्वयि विनिहितबुद्धिर्नाथ जात्वेष भूयात् भवतु मयि दया ते मा प्रतीक्षस्व किञ्चित् । तृणमपि न चलेत्त्वामन्तरेणेति सत्ये मम कथमिह यत्नस्सिध्यतु त्वां विनैव ॥ ४७॥ अनुदिनमतिभाग्यादाश्रयन्ते भवन्तं य इह विमलचित्ताः द्विष्टसंसारदुःखाः । न न भवति तदा नः तैस्सह त्वत्स्तवेच्छा वृषगिरिभुवि विष्णो मां यदि त्वं दयेथाः ॥ ४८॥ पुनन्तु पादाम्बुजयुग्मरेणवः फणीन्द्रशैलेश्वर ते प्रतिक्षणम् । स्मरन् ध्रुवं यान् समयेषु सादरं प्रगल्भते प्रार्थितलम्भने जनः ॥ ४९॥ वृषाद्रिश‍ृङ्गे विभवं श्रियःपते विभाव्य ते विस्मरतात् कथं जनः । मुहुर्मुहुर्यः क्रमशोऽनुसंहितो विधास्यति त्वय्यतुलां दृढां मतिम् ॥ ५०॥ श्रियःपते वैभवमेव ते महत् यदाश्रितस्सप्त गिरीनहो जनः । अखिन्नपादस्सुखमेव लङ्घयन् सिसेविषुस्त्वामभिवन्द्य मोदते ॥ ५१॥ जगन्नियन्ता न भवेद्भवेद्वा नास्ते यतो जातु न दृश्यतेऽपि यद्यस्ति दृश्येत तदेति पक्षः त्वया वृषाद्रीश विलीयते स्म ॥ ५२॥ आम्नायबाह्ये जगति प्रभूते न कश्चन त्वां ध्रुवमभ्युपैष्यत् । नचेद्भवान् शेषमहीध्रभूमौ अद्योतयिष्यत्स्वमनन्यवेद्यः ॥ ५३॥ मन्ये य एतादृशमीश्वरं त्वां प्रवर्तते हन्त जनो निरोद्धुम् । कलेस्स कोऽपि प्रभवः प्रमूढः कथञ्च केनापि न शिक्षणीयः ॥ ५४॥ भोक्तव्यं कृतमिति निश्चिता मतिर्मे खेदस्तु प्रतिदिनमप्यसह्य एषः । याचेऽहं वृषगिरिनाथ दीनदीनः पापानि प्रशमय मे कटाक्षितैस्ते ॥ ५५॥ धन्यास्ते फणधरभूधरे तु वृक्षाः धन्यास्ते प्रतिदिवसं तु किङ्करास्ते । धन्यास्ते विमलधियः स्तुवन्ति ये त्वां धन्यस्स्यामहमिह ते कटाक्षितेन ॥ ५६॥ ब्रह्माद्याः प्रणिहितमानसास्सुरास्ते सन्तीति श्रितदय मा भवानुदास्ताम् । सत्यं यत्तव न सुदुर्लभाः स्तवास्ते दिष्ठ्या तु क्षणमिह दत्तदृष्टिरस्मि ॥ ५७॥ इष्टं यद्भवति तदाप्तये जगत्यां सुस्पष्टं वदति जनो ह्युपायभेदान् सन्त्वेते, यदि न भवान् दयेत किं स्यात् त्तद्याचे द्रुतमिह मे फलं प्रयच्छ ॥ ५८॥ यस्यादरेण भवतो ननु वेङ्कटाख्यः पापापनोदनविधौ पटुरेष शैलः यस्यानुभावमनुमाय महर्षयस्ते वाञ्छन्ति तत्र तृणतां तमहं भजामि ॥ ५९॥ श्रीश त्वया किमिति वाऽऽद्रियते वृषाद्रिः तस्याथवा फलमिदं तपसस्तु कस्य । ज्ञानेन वा किमथ तस्य वृषाद्रिनाथ चित्ते तु मे वस न किञ्चन कर्तुमीशे ॥ ६०॥ लज्जे न कर्तुमिह किञ्चन यन्निषिद्धम् बद्धाञ्जलेस्त्वयि नतिस्तु न बुद्धिपूर्वा । भव्यं तथापि भवितेति वृषाद्रिनाथ मन्ये दयार्द्रभवदीयकटाक्षलाभात् ॥ ६१॥ कदाचिदासाद्य वृषाद्रिश‍ृङ्गं विलोक्य ते वैभवमाश्रितस्त्वाम् । सत्यं हरे वेङ्कटशैलनाथ विहातुमिच्छेन्न कदापि तु त्वाम् ॥ ६२२॥ अहमहमिकया सिसेविषूणां यदि निचयं प्रतिवासरं जनानाम् । वृषगिरिशिखरे विलोक्य ऋध्नो- त्यथ किमु ते पदसेविनां विचारः ॥ ६३॥ विसृत्वरो यस्य कटाक्ष एष विनम्रमिष्टैरभिषिञ्चति द्राक् । भजे तमेतं वृषशैलदेवं श्रियःपतिं शेखरमागमानाम् ॥ ६४॥ निरत्ययं खेलतु भावना मे यथा च ते मङ्गलविग्रहेऽस्मिन् । तथा दयेथाः वृषशैलनाथ यथा च नान्यत्र गतिर्ममास्तु ॥ ६५॥ यस्यानुभावं स्वयमैकमत्यात् उच्चैर्वदन्ति श्रुतयो विभिन्नाः । अहीन्द्रशैलस्य शिरोमणिं तम् आश्रित्य नारायणमस्मि तुष्टः ॥ ६६॥ हृदयेषु सतां वृषाद्रिश‍ृङ्गे निगमान्तेषु च नित्यमुल्लसन्तम् । कमपि श्रितवत्सलञ्च लक्ष्मी- पदलाक्षाङ्कितवक्षसं स्मरामि ॥ ६७॥ अस्माकमार्तिशमनाय वृषाचलेऽस्मिन् अध्यक्षितः कलशवारिधिकन्यकेशः । कारुण्यसारकलितेन कटाक्षितेन श्रेयस्तनोतु शरणम् जगतां त्रयाणाम् ॥ ६८॥ निरीक्षमाणः कृपयाऽर्थिनं जनं परीक्षमाणश्च वृषाचलेश तम् । यथा न खेदोऽस्य भवेत्तथा भवान् हितं वितन्नन्नखिलञ्च रक्षति ॥ ६९॥ रमामुखाम्बुजोल्लासवीक्षणस्मेरचक्षुषः प्रसीदन्तु कटाक्षास्ते वृषशैलेशितुर्मयि ॥ ७०॥ अर्थादौ प्रौढिमाभावेप्यपरित्याज्यतां विदन् श्रीनिवासस्तुतिं वेगाद्व्यतानीद्वीरराघवः ॥ ७१॥ sएच्तिओन्‍ श्रीनिवासाय नमः सम्यग् विभाव्य सकलं पुनरैहिकाद्यं मायावशेन भवता कमलेश सृष्टम् । सर्वात्मकं सुखमयञ्च भवन्तमीहे दृष्ट्वा गुरोश्च भवति स्वयमैकतान्यम् ॥ ७२॥ अत्यन्तसुन्दरमुखाम्बुजमन्दहासात् नेत्रोत्पलप्रहितनिस्तुलवीक्षितैश्च । क्षेमं दधत्सकललोकनिदानमेष शेषाद्रिशेखरमणिश्शरणं ममास्तु ॥ ७३॥ कलशपयोधिजाकमलसोदरनेत्रयुग- प्रहितकटाक्षवर्षकृतनीलिममूर्तिरसौ । निगमशिरोभिराकलितनैजगुणांशकलः कलयतु मङ्गलं सततमेष वृषाद्रिपतिः ॥ ७४॥ पद्मयाऽलङ्कृतोरस्स्थलं प्रार्थये पूरुषञ्चोत्तमं शेषशैलेश्चरम् । दुःखमागन्तु मे दूरतः प्रक्षिपत् भूरिकल्याणकृद्वीक्षितं प्रेष्यताम् ॥ ७५॥ सुरमौलिमकुटमण्डनमन्दारस्रङ्मरन्दमेदुरितम् । संवाहितं श्रिया नः श्रियं समेधयतु शौरिपदपद्मम् ॥ ७६॥ कलशाम्बुराशिकन्याकौस्तुभवनमालिकादिकलितं तत् वक्षस्स्थलं विधत्तां वेङ्कटनाथस्य मङ्गलानि मम ॥ ७७॥ दिवि तिष्ठति वृक्ष इव स्तब्ध इति त्वां धरेऽत्र तिष्ठन्तम् । सकलफलकल्पवृक्षं पुरुषं श्रीमन् श्रुतिस्स्तौति ॥ ७८॥ कलयामि सन्ततमिमं कमपि कृपावारिशेवधिं देवम् । विनतजनजातरक्षादीक्षं श्रीभूमिवल्लभं शरणम् ॥ ७९॥ वेङ्कटभूधरशिखरद्योति परं किमपि धाम निर्हेतु । निखिलजगदेकहेतुर्नैसर्गिकगुणगभीरमस्तु हृदि ॥ ८०॥ आश्रितरक्षणसूचकहस्ताम्बुजमुद्रमखिलदेवमिमम् । शेषमहीधरभूषणमेष जनः श्रीनिधिं नमति ॥ ८१॥ अनिदम्प्रथमानि वचांस्यशेषतो बोधयन्ति यं देवम् । विनतातनयमहीधरशिखरपरिष्कारमाश्रये श्रीशम् ॥ ८२॥ सर्वत्र जगति तिष्ठन् सर्वस्याप्यश्रयः श्रियःकान्तः । नारायणशिखरिशिरःपरिष्कृतिश्शरणमस्तु देवो नः ॥ ८३॥ विद्युदुदञ्चितदीप्तिस्तरुणो धाराधरो यथा देवः । अञ्जनगिरिमधितिष्ठन्नञ्जनमखिलं व्यपोहतु श्रीशः ॥ ८४॥ जगतस्सुखमेधयते मेधां भक्तिञ्च सम्पदं ददते । वृषपर्वतशिखरजुषे श्रीमण्डितवक्षसे नमम्सततम् ॥ ८५॥ प्रह्लादमन्वगृह्णात्कृपानिधिः श्रीनृसिंहमूर्तिर्यः । सिंहाचलशिखरगतो देवः श्रीवल्लभस्स एष गतिः ॥ ८६॥ सप्ताचलाधिनाथो द्विसप्तलोकाधिराज एष हरिः । सङ्ख्यातीतै रूपैस्समुल्लसन् श्रीपतिः परं शरणम् ॥ ८७॥ सप्तशैलस्वामिने नमः । ॥ श्रीमते हयवदनपरब्रह्मणे नमः ॥

॥ वर्णमालास्तवः ॥

अस्तु वस्त्विदमनन्तभूधरे निस्तुलद्युति समस्तदैवतम् । शस्तदं श्रितवतामुरस्तलन्यस्तमानितरमं परं हृदि ॥ ८८॥ आदरेण वृषभूधरेशितुर्मेदुरेण भयधैर्यनिश्चयैः । पङ्कजातसदृशे पदे नतिः पङ्कजातशमनीयमस्तु नः ॥ ८९॥ इज्ययाऽहमहिराजभूभृतः प्राज्यया परिबृढं प्रहर्षयन् । नित्यमस्य पदपद्मचिन्तया कृत्यकृद्भवितुमस्मि कामनः ॥ ९०॥ ईडितुं श्रुतिगणैस्सदोद्यतैः व्रीडितं हि यमनन्तभूमकम् । तस्य शेषगिरिश‍ृङ्गवासिनः न्यस्य पद्यधिमुदस्मि मे भरम् ॥ ९१॥ उच्चनीचपदभेदचिन्तनां व्युच्चरन्त्यविकलं विना यतः । पद्मवासरसिकापतेर्दयासद्मनो दृश इमं श्रयेऽनिशम् ॥ ९२॥ ऊर्जितं किमपि धाम संश्रये वर्जितं स्वयमशेषहेयतः । शेषशैलशिखराग्र्यभूषणं शेषभूतनिखिलं श्रियःपतिम् ॥ ९३॥ ऋद्धिरत्र च परत्र चार्थ्यते सिद्धिरात्मशुभकर्मणो यतः । व्यक्तिमेत्य वृषपर्वते स्थितं सक्तिमेति तमवेक्षितुं मनः ॥ ९४॥ नॄनसावनुजिघृक्षुरादरादेनसा दिवमुपैतुमक्षमान् । अञ्जनाचलशिरः श्रितो रमारञ्जनो य इममाश्रयेमहि ॥ ९५॥ क्लप्तचेतसमदुष्टरक्षणे दृप्तदुष्टदमने च माधवम् । अंहसां निधिरयं जनो हरिं रंहसा शरणमेति विश्वसन् ॥ ९६॥ एति यो गिरिमुपैति ते पदं हेतिभूषणलसद्विभूतिक । स श्रयत्यभिमतानि सत्पदान्यश्रमेण भुवनेष्वपि त्रिषु ॥ ९७॥ ऐन्द्रमुख्यपदचिन्तनं वृथा चन्द्रकोटिजयिनो वृषेश्वर । व्याकृतानवधिनामरूप ते ह्याकृतेः पदमिदं परं पदम् ॥ ९८॥ ओजसैष विदधद्भुवं वशे भो जनाः नस्यति शेषभूभृति । विप्रतीपविधिभिः किमस्ति वः क्षिप्रमेष शरणं चिकीर्ष्यताम् ॥ ९९॥ औदरैकनिरतान् धनार्थिनोप्यादरेण हरिरेप मुक्तिदः । पश्यतीह वृपवल्लभो जनाः नश्यथ स्वयमुपेत्य किं परान् ॥ १००॥ अम्बुजाक्ष इह शेषभूधरे कम्बुचक्रलसदंसकुण्डलः । प्रत्ननव्यबहुभव्यभूषणो रत्नराशिरिव राजति स्थिरः ॥ १०१॥ अः परो यदिह तत्परः स्थितः, कः परश्शुभकरश्श्रयेम तम् । शेषवासरसिकेऽत्र शेषिता शेषतापि यदशेषतस्स्थिरा ॥ १०२॥ कमलदळविमलशीतळकर्णान्तविशाललोचनोदारम् । कमपि कमलासनाथं कलये वृषशैलविहरणं कृष्णम् ॥ १०३॥ खरशठकठोरहृदयस्वभावभेदिप्रभावभूमानम् । खरकिरणकोटिभास्वरमखरकराह्लादमच्युतं वन्दे ॥ १०४॥ गतिमन्येष्वात्मनि वा फलार्थिनामप्यनर्थिनाञ्च परम् । सर्वान्तरं समेतं समया रमया दयानिधिं नौमि ॥ १०५॥ घनसुकृतजनसमर्चित घनाघनप्रार्थ्यदिव्यभव्याभ । अघनोदन जीवघनात् परं श्रियस्त्वां पतिं समीक्षेय ॥ १०६॥ ङ्सङ्सिनित्यविचारो द्रव्यगुणस्पन्दसततघोषश्च । व्यर्थो वृषशैलपतेस्सन्तश्चिन्तयत सन्ततं रूपम् ॥ १०७॥ चरणं वृषशैलमणेस्तरणं जगतस्समाश्रये शरणम् । अरुणाम्बुजदळसुन्दर करुणारसनिर्भरायताक्ष तव ॥ १०८॥ छविभिस्सकलं तेजश्छादयते यस्स्वयम्प्रभः प्रभवः । तमहं तरुणपयोधरवर्णं वृषशैलविहरणं प्रणतः ॥ १०९॥ जगदवन-हरण-भवनाद्याश्चर्यक्रीडमञ्जनापीडम् । रमया सनाथममलं हृदये मे प्रार्थये स्थितये ॥ ११०॥ झटिति त्यजति भवन्तं सन्ततमभ्यस्तलोलुपं चित्तम् । वृषशैलशिखरविहरण विवरीतुं त्वां कदा नु ते कामः ॥ १११॥ ञाव् ञाविति कलहपरो भक्षे मार्जार इव जनो यत्र । परहानि-स्वात्मसुखप्रवणस्तस्माद्रमेश रक्ष भवात् ॥ ११२॥ टीकाश्शतं विधत्तां व्याचष्टां श‍ृतिषु काममर्थशतम् । किं तेन यदि विरज्य न भृङ्क्तेन ध्यायतीह विष्णो त्वाम् ॥ ११३॥ ठक्किति यावत्प्राणाः न तनोर्निर्यान्ति तावदस्त्वेषः । परिपोषितभक्तिरसो भुवि भवति ध्यानपूजनैश्श्रीश ॥ ११४॥ डयत इति विहगमात्रं न कथञ्चन ते रथो यथा विष्णो । अहमपि तथा न विधिरिव तथापि नाथ स्तुतिप्रियेक्षस्व ॥ ११५॥ ढक्कादिवादनोल्बणनाट्यरसेन स्तवेन भव्येन । अनुभूय राधयति यं शम्भुस्तं सिंहशैलगं स्तौमि ॥ ११६॥ ण इति हि वर्णो वार्णासिद्धेर्विष्णोश्च वर्णने हेतुः । नारायणसंज्ञां त्वयि नियमयति श्रीवृषाद्रीश ॥ ११७॥ तटिदुज्ज्वलो घनो यो वनमालाशोभनो वृषाधीनः तद्दृष्टौ न भवेयुः केकाः कथमत्र पक्षिणां मध्ये ॥ ११८॥ स्थिरकृष्ण पक्षरम्या हंसाः प्राप्ता अहं स इति यागम् । स्वपरभिदैकपरा इह चित्रं शुद्धाश्चरन्ति वृषे ॥ ११९॥ दक्षास्सन्ति गिरीशास्तदैव ते सर्वमङ्गलाकाराः । सद्गणपतयस्सुगुहाश्शेषगिरीशान भक्तौघाः ॥ १२०॥ धावन्ति च धोरन्ति च धयन्ति च त्वां स्तवैश्च धिन्वन्ति । लब्धञ्च धारयन्ति श्रीशेत्थं पञ्चधा भक्ताः ॥ १२१॥ नागेन्द्रनगवरं यो न गतो नगतो नरस्य नास्य भिदा । फलदं नगस्य जन्म स्यादस्य तु निष्फलं जन्म ॥ १२२॥ पाणिपयोजगतस्ते शङ्खो हंसस्सुदर्शनश्लिष्टः । श्रीमन् पदपद्मगतैर्हंसैर्दृष्टोऽथ मानसे लसति ॥ १२३॥ फलमिदमेवेति सतां फलदं त्वरयेति संसृतिं वहताम् । यत्र परा प्रतिपत्तिः तत् त्वद्रूपं वृषाद्रीश ॥ १२४॥ बेरैः पञ्चभिरेतैस्सव्यूहः पर इव त्वमुल्लससि । वृक्ष इवैकस्स्तब्धो दिवि तिष्ठ्न् शेषशैलशिखरे त्वम् ॥ १२५॥ भवतु भगवन्मुकुन्द श्रीवल्लभ वेङ्कटाद्रिश‍ृङ्गमणे । कुलदैव कल्पवृक्षन्त्येवं त्वयि मे वचोऽजस्रम् ॥ १२६॥ मदनकदनैर्धंनायावेताल्या पारलौकिकैर्धर्मैः । भृशमत्र कर्शितानां परायणं त्वं रसायनं भगवन् ॥ १२७॥ यस्याः कणास्सरन्तो भाग्यवशात्संहतास्सुखाय भुवः । विलसन्ति तत्रतत्र श्रीमन् वात्सल्यदीर्धिका सा त्वम् ॥ १२८॥ रमयितुमेव रमां त्वं भूमिमविन्दः प्रजाश्च पासीति । गमयति घोषो नाम्नोः कथां रमारमण गोविन्द ॥ १२९॥ लक्ष्मीं शुकपुरि तपसा प्राप्य श्रीशैलश‍ृङ्गश‍ृङ्गारः । तपसो विदूरभविनस्तपस्विनो वीक्षसे दयया ॥ १३०॥ वन्दारुनन्दथुवहं बृन्दावनचारि वारिजाऽऽताम्रम् । शुभशेषभोगवासं श्रीवास त्वत्पदं विभातु हृदि ॥ १३१॥ शक्तो दिवि स्थितस्त्वं सर्वत्र तथापि शेषमायातः । असमर्थबद्धभक्तव्रातसमाश्लेषविरहसन्तप्तः ॥ १३२॥ षड्गुणमन्नं दिव्यं त्रिगुणरतान् सादरं समास्वाद्य । अक्लेशतो विरक्तिं वर्धयसे वृषगिरीश त्वम् ॥ १३३॥ सद्यः फलं प्रयच्छति कल्पतरौ सत्पशैलशिखरस्थे । अनुकल्पभूतमल्पदमन्यद्दैन्येन किं सेव्यम् ॥ १३४॥ हयवदनाद्यवतारैराब्रह्ममनुष्यमान्ध्यहर्तारम् । वेदगिरिशिखरशेखरमिमं नुमो भक्तिधीवृद्व्यै ॥ १३५॥ ॥ इति वर्णमालास्तवः ॥ sएच्तिओन्‍ कुण्डलिराजगिरिस्थः खण्डितसकलान्तराय एष हरिः । कल्याणं कलयतु नः कलशाकूपारकन्यकानिलयः ॥ १३६॥ वृषगिरिशिखरविहारी वृषमुखविबुधाभिवन्द्यपदपद्मः । वृषमस्मासु विधत्तां वीक्षावलितैर्विशिष्टकारुण्यैः ॥ १३७॥ पुष्णासि भोगमखिलं क्लिश्नाति न किञ्चिदाश्रित इह त्वाम् । तमिमं मुकुन्द वन्दे देवं त्वां वृषगिरीशानम् ॥ १३८॥ अञ्जनाचलविभूषणं भजे कञ्जलोचनमशेषदैवतम् । आदरेण निगमान्तदेशिको यो बभूव जगदुद्दिधीर्षया ॥ १३९॥ श्रीनिधानमनपायि वत्सलं तन्निधानमधिशेषभूधरम् । सावधानमनुभोक्तुमादरात्संविधानपरमस्तु मे मनः ॥ १४०॥ आश्रये श्रितजनावने स्थितं धाम दिव्यमनघं दयानिधिम् । वेङ्कटाचलविहारि वारिदश्यामसुन्दरमघापनुत्तये ॥ १४१॥ कामये कमलकोमलं तव क्षान्तिसागर पदं परायणम् । काम एष मम कापथे बत प्रस्थितिं न पुनरेतु किञ्चन ॥ १४२॥ खेदवर्षकरकाभिराहते मोदहेतुरिह नो मनागपि । कापथे पुनरिदं प्रवर्तते कष्टमीश्वर मनो रुणत्सि नो ॥ १४३॥ इष्टमेतदिति वेङ्कटेश्वर स्वल्पमप्यमल नैव चिन्तये । पारतन्त्र्यपरिकर्मितस्य मे तन्न युज्यत इति स्थितः पुनः ॥ १४४॥ अञ्जनेश भुवि रञ्जयन्श्रितान् भञ्जनं न कुरुषे ममैनसः । कञ्जलोचन कृपानिधे कथं कल्मषक्षपणनामकीर्तन ॥ १४५॥ पापमच्युत कृतं पुनःपुनर्धीहरं खलु मयाऽनुभूयते । पुण्यमस्ति यदि मे यदृच्छया पद्मवासरसिकेश पाहि माम् ॥ १४६॥ दुष्कृतस्य करणे दृढं मनः दूयते पुनरथो मनागिव । प्रत्यहं यदिदमीदृशं हरे कीदृशी गतिरहो भविष्यति ॥ १४७॥ नास्ति मे गतिरनन्यवत्सल श्रीनिधे सकललोकरक्षक । देहि दिव्यजलदोपमद्युते तापशान्तिमभयङ्करो भव ॥ १४८॥ यावदच्युत पवित्रमानसप्राज्ञसादरसुभाषितास्पदम् । जीवितं सकललोकमानितं तावदस्तु न तु चेत् मृतिं कुरु ॥ १४९॥ देशिकैरनघदिव्यमानसैरादृते पथि भवन्मनोहरे । श्रीनिवास कृपया मनाग्गतं पार्श्वगर्तपतनाच्च पाहि माम् ॥ १५०॥ अम्बुजासनमुखैस्सुरैस्स्तुतं तुम्बुरुप्रभृतिगीतमप्यहम् । शम्बरारिविवशोच्युतं श्रये त्वं बलेन तव रक्ष माधव ॥ १५१॥ कामलेशहतचेतनो न यो माननीयविभवस्स संसृतौ । सर्वशेषिशुभदिव्यदम्पतिप्रीतिमात्रमपि किन्न काम्यते ॥ १५२॥ सर्वकामपरिपूर्णसेवया घोरकामवशता विनश्यति । अद्भुतं तमिममञ्चनाचलद्योतमाश्रय मनः परां गतिम् ॥ १५३॥ इन्द्रियाणि न वशे मनागपि श्रीनिवास तमसा वृत्तोऽस्म्यहम् । जातु हन्त भवता भवत्प्रियैश्चेक्षितं सपदि मामुपेक्षसे ॥ १५४॥ रक्ष सम्प्रति रमानिवास मां रागसम्भृतपरागपांसुलम् । कालमेघ करुणारसैश्शुभैश्शोधयन् विहितशुद्धजीवनः ॥ १५५॥ वेदपर्वतशिरस्स्थितं पदं वेद यत्तव रमानिधे जनः । वेदनाभिरनुपप्लुतस्सुखं वेद सोऽत्र च परत्र चाखिलम् ॥ १५६॥ इत्थमाश्रितजनावनप्रियं देवदेवमनघं दयानिधिम् । श्रीनिवासमिह वीरराघवो दुष्कृतोद्यमहतीप्सयाऽऽश्रितः ॥ १५७॥ उपनिषद्भिरुदीरितमादरादुदयतामुपबृंहणवर्णितम् । सुरमहर्षिमुखस्तुतमद्भुतं मनसि सिंहमहीधरणं महः ॥ १५८॥ किमिह नः कथया भवितान्यया त्वनयकल्पितया कथयानया । अवहितं भव वेङ्कटभूधरे तव हितं निहितं महितं मनः ॥ १५९॥ प्रणतलोकपरायणमानसं प्रणमत प्रणयेन परायणम् । निखिलवेदगवेषितमद्भुतं वृषमहीधरदीप्तमिदं महः ॥ १६०॥ निखिलतापनिबर्हणचुञ्चुना नियमितस्वकयुग्मविभूतिना । श्रितरमः करुणासहचारिणा दिशति वीक्षितकेन स नस्सुखम् ॥ १६१॥ सकलहंससमाश्रयणीयतां सकलहंसमिदं मणिनूपुरैः । सपदि नः प्रतिपादयतीव ते कमलकान्ति पदं कमलापते ॥ १६२॥ हितकृते कृपयेह महीतले महितमञ्जनशैलमधिश्रितम् । अनघमद्भुतमङ्गलविग्रहं कमपि यामि गतिं कमलानिधिम् ॥ १६३॥ आश्चर्यभूतनिरपायदयामयीभि- रार्द्रीकृताखिलवृषाद्यचलस्थलाभिः । बद्धादराऽऽहितनिमज्जनपावनीभि- र्धाराभिराढ्यमवनीधरमाश्रितोऽस्मि ॥ १६४॥ अभितो विशोभिगिरिकूटशेखर- द्रुमश‍ृङ्गतुङ्गतरशाखिकोज्ज्वलैः । अधिनीरजातललितैरनोकहै- र्हृदि पापनाशशुभतीर्थमस्तु नः ॥ १६५॥ इतस्ततो भिन्ननिजप्रसारया प्रभूतपापक्षयवारिधारया । अदभ्रवेगोत्थकणाऽऽहिताभ्रया मनश्शरीरञ्च ममास्तु शोधितम् ॥ १६६॥ आकाशगं गामपि सम्प्रविष्टं आकाशगङ्गासलिलं महान्तः । श्रेय प्रदं संविनियोजयन्तो भजन्ति लक्ष्मीश भवत्प्रियत्वम् ॥ १६७॥ सहस्रसूर्योज्ज्वलदिव्यतेजस- स्सरोजवासासहधर्मचारिणः । सुखैस्सुशीतैर्हरितैः प्रभाभरैः वनं मुदे तद घनपत्रचित्रितम् ॥ १६८॥ वने निवासोऽप्यवनेन जीविता जनेष्वसक्तिर्जनतापहारिता । घने स्थितिस्त्वय्यघनाशशीलता त्वदद्रिलीनेषु हरे जनेरिताः ॥ १६९॥ हरे गिरेरस्य हि सर्वतोमुख- प्रदानशुद्धान्तरभावशोभिताः । निवासिनोऽन्ते स्वयमात्तगौरवा भवन्ति मान्या मुदिरा भवत्पदे ॥ १७०॥ न श्रधा न मतिः न शक्तिरथ मे किं स्याददृष्टं शुभम् धूर्तानां मम चास्ति का खलु भिदा वेषः प्रजामोहनः । हे शेषाचलशेखरेश्वर रमानाथ प्रभो शाश्वत ज्ञानानन्दविभूतिनायक नय त्वं मां स्वयं सत्पथम् ॥ १७१॥ अन्तर्मे न हि मात्रयापि भवति प्रेम श्रियः प्रेयसि स्वामिन्यद्भुतनिस्समाधिकगुणग्रामे शुभालम्बने । कामोऽथापि भवद्विलोकनविधौ कामैकवश्यस्य मे बाष्पस्वेदसगद्गदस्वरमुखप्राप्त्यै कथं युज्यते ॥ १७२॥ भक्ताः केचन पावितन्निजगतस्त्वय्येव् पातिव्रतीं बिभ्राणास्तव पादपद्मनतये शैलं समायान्ति ये । तादृक्षाः मयि नित्यदुष्टहृदये नाथ प्रभो नीरद- श्याम श्रीधर वीक्षणं सकरुणं याचे क्षिपन्तु स्वयम् ॥ १७३॥ कामार्तन्न कथं मनो मम हरे यन्नाम नारीमयीं हा कष्टं प्रतिमामपीक्षणपदं प्राप्तां जहात्येव न । कल्याणे कमनीय उज्ज्वलतमे कालाम्बुदश्यामळे काङ्क्षाकरुपतरौ वृषाचलमणौ कुर्यात्कदैतां रतिम् ॥ १७४॥ भाग्यं भूरि वृषाचलेश कलये स्त्रीजन्महेतुं यतः । तारुण्योज्ज्वल तोयवाहसुभगे त्वय्यस्तु लीनं मनः । एतत्साम्प्रतमम्बुजेक्षण यथा गोप्योऽपि कृष्णे त्वयि प्रेमोद्गारकषायिकोमलहृदो नैवं मुनीन्द्रा यतः ॥ १७५॥ आचार्यैरुपदिष्टमस्ति सुदृढं सञ्चिन्तितञ्च स्वयं नातो बाह्यकुदृष्टिमोहनवशं मन्ये मनो यास्यति । एवन्त्वेपि यदञ्जनाद्रिशिखरप्रद्योत लक्ष्मीनिधे त्वद्रूपानुभवस्थमस्ति न मनः पापिष्ठमेतत्ततः ॥ १७६॥ आगत्यान्तरवेक्षणाय भवतश्चित्तं न यत्तं बत प्रस्थाने कृपया बहिश्च मनुते प्रान्ते समायात्विति । ईदृक्तन्द्रि महाघमेतदनघं त्वाञ्चेत् दिदृक्षेत जा- त्वेतद्वेङ्कटशैलनाथ भगवन् प्रत्यूहितं मा कुरु ॥ १७७॥ त्वामेष प्रणतोऽस्मि ते परिजनान् येऽन्ये त्वदीयाश्च तान् मा मे जातु मनः क्रुधा कलुषितं भूयाद्वृषाद्रीश्वर । सह्यं सर्वमहो विचिन्त्य बहुना यज्जन्मना स्वार्जितम् क्रोधः किन्तु महागसे पुनरतश्शान्तोऽस्मि वीक्षस्व माम् ॥ १७८॥ बुध्धा यानि कृतानि सम्प्रति कथं पापानि तानि प्रभो न स्मर्यन्त इहाञ्जनेश्वर मनो धूर्तं मदीयं ध्रुवम् । स्थातव्यन्तु यथा तथा न भवितुं यत्नो भवन्तं पुन- स्माक्षेपं स्मरयामि सर्वसमतां लक्ष्म्या सह त्वं हस ॥ १७९॥ दूरेऽपोहय दुष्कृतानि कृपया पुण्यानि चेत्सन्ति मे तानि श्रीश बलात्समूहय मयि प्रेम स्वय पोषय । हे गोपीजनबान्धव प्रणिपताम्यन्या गतिर्नास्ति मे तत् त्वं तत्त्वमनुत्तमं तव पदद्वन्द्वं सुखं दर्शय ॥ १८०॥ भ्राजत्पीतसुवर्णचित्रवसनं काञ्चीकृतालङ्क्रियं सालग्रामसुवर्णरत्नकुसुमप्रख्यातमाल्याञ्चितम् । कान्तं ते घनसारपुण्ड्रललितस्मेरारविन्दोल्लस- द्वक्त्रं दिव्यकिरीटमञ्जनपते रूपं स्वयं दर्शय ॥ १८१॥

विरक्तगृहस्थप्रार्थना

श्रीमानेष वृषाचलेन्द्रशिखरप्रान्तप्रदीपायित- स्वैरव्यक्तसमस्तमङ्गलनिधिश्रीमूर्तिराधित्सताम् । पद्मापादपयोजयुग्मविगलल्लाक्षापदेशोज्ज्वल- न्मन्दस्यन्दिमरन्दमेदुरमहोरस्को विरक्तिं मम ॥ १८२॥ कृत्याकृत्यविवेकदुर्विधमहानर्थोपनद्धोन्मद- प्राज्ञंमन्यकरत्यजद्दरदृढप्रोन्माथि मन्मानसम् । तन्मे सम्प्रति तं प्रति प्रणतयस्सन्तु प्रियो यश्श्रियः प्रेमार्द्रं प्रणिधापयेन्मन इदं कामञ्च निर्यापयेत् ॥ १८३॥ श‍ृङ्गे शेषभुङ्गपुङ्गवगिरेस्तुङ्गे परं मङ्गलं श‍ृङ्गारं तमनङ्गभङ्गविधये सोऽहं शरण्यं गतः । यो लक्ष्मीमुखपद्मलम्भितमहामोदानघापाङ्गित- श्रेणीभृङ्गपरम्परास्वरसमस्वाङ्घ्रिश्रितस्वागतः ॥ १८४॥ यत्खल्वाश्रममद्वितीयमनघं तत् सद्वितीयं श्रियः प्रेयः प्राप्तमिदं द्वितीयमिह मे धर्मः परं वर्धताम् । मा भूदञ्जनशैलशेखर हरे त्वत्पादपङ्केरुह- प्राप्तस्यास्य कदापि कामकदनस्वल्पप्रसङ्गोऽपि मे ॥ १८५॥ इज्यौपासनवैश्वदेवविधिना पूर्वं परञ्चाश्रमं प्रत्यप्यन्नसमर्पणेन सुहितां वृत्तिं सुखं प्रेप्सतः । श्रीमन्नञ्जनशैलश‍ृङ्गविलसत्सन्तान सङ्कल्पय स्वेनैव स्वककिङ्करत्वविभवस्थैर्यं सयूथस्य मे ॥ १८६॥ त्वामेवानुभवन्निरन्तरमहं त्वत्पाददास्यप्रियः त्वत्प्रीत्यै नियतं विधाय विधिवत्सर्वं गृहस्थोचितम् । कामोद्दामकदर्थनानि कमलाकान्त प्रभावेण ते दूरीकृत्य कृतार्थयेयमनिशं दीनं मदीयञ्च माम् ॥ १८७॥ यस्तु प्राथमिकाश्रमस्स भगवन् क्षिप्रं व्यतीयाय मे वानप्रस्थ इतीदमद्य जगति प्राप्तं भृशादर्शनम् । संन्यासस्तु गृहस्थधर्मवहनव्याक्षिप्तनैजस्थितिः तद्गार्हस्थ्यमिदं विधत्स्व नियतं धर्म्यं प्रियं ते मम ॥ १८८॥ इत्थं वेङ्कटशैलशेखरपदाम्भोजद्वयैकप्रियः कन्दर्पोद्भटदर्पधूननकृते देवं तमेव श्रयन् । धर्म्ये वर्त्मनि वीरराघवकविर्वाञ्छन् शुभं वर्तनं तत्तः प्रार्थितवानथास्य पठिताप्यस्त्वेतदीक्षापदम् ॥ १८९॥

अधमर्णप्रार्थना

श्रीकान्त श्रितसर्वलोकशरण श्रेयोनिधे शाश्वत स्वाधीनाखिल शान्त वत्सल शुभप्रज्ञानशक्त्युज्ज्वल । देवाधीश वृषाचलेश्वर दृढं त्वत्पादपद्मप्रियः त्वद्भृत्यस्तव किङ्करोऽस्मि किमिति प्राप्तोऽस्मि कष्टां दशाम् ॥ १९०॥ वेदो मानमशेषतस्स भगवांस्त्वं दैवतं केशवः मान्याः व्यासपराशरादिमुनयो निष्कम्पनिर्धारकाः । सत्येवं वृषशैलशेखर कथं त्वत्पादपद्मद्वयीम् आश्रित्यापि जनोऽयमित्थमधुना कष्टस्य काष्टां गतः ॥ १९१॥ उद्दिश्याङ्घ्रिमुदार ते यदि भवेदेकोऽभिनीतोऽञ्जलिः केनाप्यच्युत कृत्स्नमस्य वृजिनं मुष्णासि पुष्णासि शम् । तत्तादृक्प्रथपद्मवासरसिकालङ्कारवक्षस्स्थल प्राज्ञैरित्थमुदीरितोऽसि तदिदं काले त्वया स्मर्यताम् ॥ १९२॥ कालोऽयं कलिरत्र कल्पितमभूज्जन्म त्वयेदं तु नः तस्मादस्मदिहास्ति कर्म नतरां भूयः प्रतीक्ष्यं त्वया । कामं मोक्षपथस्स मास्तु सकलं त्वन्यत्तदेकोद्भवं तत्किं नामनि वेङ्कटेश फणितोऽप्येवं न सन्तुष्यसि ॥ १९३॥ नाहं संसृतिसागरान्तरमहावर्तभ्रमं प्रार्थये नो वा त्वामपहाय दभ्रचिदनुस्वादक्षणं कामये । नो वा सम्प्रति रङ्गलक्ष्मणमुनिन्यस्तात्मरक्षाभरः त्वत्तस्त्वत्पदपद्मसेवनमहानन्दञ्च याचे स्वयम् ॥ १९४॥ श्रीमन्नञ्जनशैलशेखर हरे स्वामिन्निदं शिष्यते यत्ते पादपयोजसेवनमिहाऽऽदेहावसानेप्सितम् । तत्तुभ्यं मयका मदीयकयुजा निर्वर्तय त्वं स्वयं दूरीकृत्य भयं दयाजलनिधे दोषैकराशेर्मम ॥ १९५॥ उत्पाद्य स्वयमुत्तमे खलु कुले विद्यासु युक्तास्वपि व्यत्पाद्याद्भुतदेशिकाङ्घ्रिकमलात्सम्पाद्य यत्साम्प्रतम् । वात्सल्येन वृषाचलेश नयतो वर्त्म स्वयं साधु माम् अन्ते हन्त कथं नु घोरवृजिनारण्ये विसर्गे मतिः ॥ १९६॥ स्थातुं युक्तमसंशयं समधिया मानावमानद्वये नैवाथापि निदेशलङ्घनकृतं सह्यं सतां गर्हणम् । आज्ञापालनतत्परस्य यदि मे कामो न सङ्कल्प्यते पद्माकान्त सुपुत्रहानिविहितश्शोको भवन्तं दहेत् ॥ १९७॥ हा हा हन्त मुकुन्द हास्यति कदा चिन्ताज्वरो मानसं सर्वोप्येष वृथैव याति समयो दास्येऽपि तिष्ठासतः । आकर्षन्ति यथायथं न च परीहारे मनाक् प्राभवं नाथ त्वां शरणं गतस्य ऋणिता श्रीकान्त नैवोचिता ॥ १९८॥ अद्य श्वस्तदनन्तरे दिवस इत्येवं मृषाभाषितैः अर्थापेक्षिणमुत्तमर्णनिवहं नित्यं हरे वञ्चयन् । सर्वं नारकमञ्जनाद्रिशिखरालङ्कार चेत्प्राप्नुयां त्वत्कीर्तिर्मम दास्यवृत्तिरपि हा नूनं लयं यास्यतः ॥ १९९॥ श्रीमन्नीदृशसाधुवर्त्मनयनप्राप्तं यशस्ते स्थिरं कर्तुं किञ्च ममापि जन्म सफलीकर्तुं व्यवस्यन्निह । दासे देव दयातरङ्गितशुभापाङ्गाल्पविक्षेपतः क्षिप्रं सर्वमृणं विधूय मम देह्यत्यन्तदास्यं त्वयि ॥ २००॥ इत्थं वेङ्कटशैलश‍ृङ्गनिलयं सर्वार्थविश्राणनं श्रीमन्तं हरिचन्दनं कुलधनं देवं परं संश्रयन् । प्रेमोद्गारकषायितेन मनसा कैङ्कर्यविघ्नक्षयं काङ्क्षन्नस्तुत वीरराघवकविः क्षेमाय देवोऽस्तु सः ॥ २०१॥

पाणिमुद्रास्तवः

पार्थं पुरा प्रणयतः पुरतो निषाद्य पद्यं यदुत्तमरहस्यमसावगासीः । संसेव्य वेङ्कटपतेऽत्र तदर्थदर्शि हस्तेङ्गितं तव किमप्यभिधित्सुरस्मि ॥ २०२॥ वाचामगोचरमनन्त पदाब्जयोस्ते वेदेषु वैभवमशक्ततमेषु वक्त्रुम् । का नाम मादृशमहाजडदुष्टवाचाम् कार्ये वृषाचलपतेऽत्र कथा प्रवृत्तौ ॥ २०३॥ आशावशेन बहुधा विरचय्य कर्मा- प्याशाधिपा मकलेषु मतङ्गजेषु । न्यस्तासना इह पतन्ति जनाः फलं तत् नित्यं लभध्वमिति वक्षि करेण किं त्वम् ॥ २०४॥ दिव्यस्समस्त्यकृतकस्तमसः परस्ता- दन्यस्स कश्चिदिति किन्नु मुधाऽभिमत्या । भक्तैः प्रपत्तृभिरपि त्वपुनर्गतीदं प्राप्यं परम् पदमिति प्रणयिन् ब्रवीषि ॥ २०५॥ क्षेत्रं महिष्ठमिदमादिवराहदेव कारुण्यकन्दलकटाक्षविनष्टकष्टम् । दत्ते त्रिवर्गमपवर्गमपीह तस्मात् । वस्तव्यमित्युपदिशस्युचितं रमेश ॥ २०६॥ आरुह्य सप्त तव सेवनकाङ्क्षयाऽद्रीन् आगच्छतः करुणया कमलेश पश्यन् । अत्रैव तिष्ठत मदद्भुतदिव्यरूप- दृष्टिप्रनष्टदुरिता इति किं ब्रवीषि ॥ २०७॥ काकासुरेण कृतघोरविचेष्टितेन काले जगत्रयपरिभ्रमणं विधाय । यस्मिन्पदे निपतितं शारणार्थिना प्राक् एतत्तदाश्रयत श्रीघ्रमिति ब्रवीषि ॥ २०८॥ सन्ति प्रलोभनपराः फलमल्पमेव दक्षाः प्रदातुमधरोत्तरमाशु देवाः । सर्वत्र तत्र भविनां न सुखावकाशः तन्मे पदं शरणमाश्रयतेति वक्षि ॥ २०९॥ ये नाम केचन भवादृशवाञ्छितार्थ- दोहप्रभावभरिताः प्रथितास्त्रिलोक्याम् । तेप्येतदङ्घ्रिसरसीरुहपूजनेन प्राप्ताः प्रभुत्वमिति किन्नु हरि ब्रवीषि ॥ २०९॥ कामं भवेद्विविधनश्वरपूरुषार्थ- लिप्साकुलं परवशं ललितं मनो वः । तत्तादृशं सकलमप्यधिकं लभेध्व- मेतत्पदाम्बुजमुपाय इति ब्रवीषि ॥ २१०॥ अर्थ्यं फलं सकलमप्यचिरेण दातुम् अर्चामिमामुपगतोऽस्मि दयैकरूपाम् । कर्तव्यमप्यतिलघु प्रणिपातरूप- मेतत्पदाब्ज इति देव हितं ब्रवीषि ॥ २११॥ व्याजेन केनचिदशेषमपीश्वर त्व- मानाध्य लोकमनुकम्पिकटाक्षितस्सन् । अन्यद्विमुञ्चत् फलं सकलं फलं वः पादाब्जमेव मम नित्यमिति ब्रवीषि ॥ २१२॥ देवी दयेव दयिता हृदयं श्रिता सा नित्याश्च केचन शुभायुधभूषणाद्यैः । रूपैर्यथोचितमवाप्तमदङ्गभागाः तद्वः कृते पदमिदन्त्विति वक्षि सद्भ्यः ॥ २१३॥ मा नाम भूद्भयमुपाश्रयतां मनाग- प्यह्नाय ते स्वयमिदं मम पादपद्मम् । यें वो भयानकमताः मम हेतिभीताः प्राप्स्यन्ति जीवितुमिति प्रथयस्यनन्त ॥ २१४॥ कामैकभोगविवशांस्त्रिदशानुपेत्य तेषां पशूभवितुमिच्छथ हन्त कस्मात् । तस्माद्वरं विविधसच्चरणार्हभूमा- वत्रैव वस्तुमिति बोधयसि प्रभो त्वम् ॥ २१५॥ आराधनेषु विविधेष्वधिवेदमुक्ते- प्वेतत्पदाब्जयजनं परमस्ति सन्तः । आराधनं परतरन्त्विदमाश्रिताना- मित्यादरेण वृषशैलमणे ब्रवीषि ॥ २१६॥ एषा विभूतिरियतीदमुपर्यसौ मे नित्या त्रिपादिति करेण परेण चोक्त्वा । बम्भ्रम्यमाणमिह भव्यजगन्मय त्वं लोकं निनीषुरवलोकयसे पदं ते ॥ २१७॥ अत्युच्छितः परित एष धराधरेन्द्रः पादेन पश्यत मयैवमधःकृतोऽत्र । इत्थं मवद्वृजिनराशिमधो विदध्या- मातः पदं प्रणमतेति वदस्यनन्त ॥ २१८॥ गृह्णन्ति येऽत्र कुसुमानि कृतेषु साक्षा- दभ्यर्चनेषु चरणैरमराः महान्तः । क्षिप्तानि तेत्विह वहन्ति शिरोभिरेता- न्यर्च्यं पदं तदिदमित्यधिदेव वक्षि ॥ २१९॥ त्रैविक्रमश्चरण एष जगद्व्यधात्प्राक् वज्रातपत्रमुखचिह्नविशिष्टशोभम् । एकातपत्रवहवज्रधरादिभाव- लिप्सा यदि प्रणमतेति वदस्यनन्त ॥ २२०॥ स्थानात्सुदूरमवतीर्णवतस्ततस्ते जङ्घान्तपादयुगलश्रमयापनाय । भक्तान्नियोजयसि यस्य तवाद्भुतस्य प्रेक्षालवप्रशमितश्रम एष लोकः ॥ २२१॥ भक्तव्रजं वृषगिरीन्द्र विमोहनं त्वां स्त्रीभावतस्त्वनुबुभूषुमनुग्रहीतुम् । प्राङ्मैथिलीपरिणयात्कृतगौतमस्त्री- रूपं दृषद्यमल लम्भयसेऽङ्घिरेणुम् ॥ २२२॥ सा पादुकापि पदपङ्कजधारनात्प्राक् साकेतराजपदमुत्तममध्यतिष्ठत् । तस्मादिदं शिरसि धारयतां करस्थः क्षेमस्सयोग इति वक्षि वृषाचलेन्द्र ॥ २२३॥ मद्दिव्यशाखचरणैकपरायणत्वा च्छाखेति वीक्ष्य चरणेत्यपि च प्रसिध्दिम् । वेदस्स मां गिरिवपुर्वहतीह भक्त्ये- त्येवं सुपर्णगिरिश‍ृङ्गमणे ब्रवीषि ॥ २२४॥ सत्यादिलोकनिलयांस्तव सेवनार्थे वैकुण्ठलोकगमनोद्यमिनस्सुरान्त्त्वम् । अत्रागतोऽस्मि वृषशैल इति ब्रवाणो वित्रासितासुर समाह्वयसीति मन्ये ॥ २२५॥ ज्ञानात्मके च भुवने जलधेश्च मध्ये मान्येषु ते निगमराजशिरस्सु नित्यम् । तुल्यम् श्रियःकमन निस्स्वपरार्थबुद्धि- ष्वप्याविभातमुपदर्शयसेंऽघ्रिपद्मम् ॥ २२६॥ संसारवारिधिरयं भवतामगाधो जङ्घामितं जलमिवास्ति सुखेन लन्ध्यः । मत्पादपद्मयुगलप्रणिपातमात्रा- दित्यादरेण वदसीव वृषाद्रिनाथ ॥ २२७॥ एवंविधानि विविधानि विबोधयंस्त्वं विश्वं जनं निजपदाम्बुजसेवनेन । धन्यं तनोषि दयया वृषशैलश‍ृङ्गे नित्यं स्थितोऽत्र निरपायरमानिवास ॥ २२८॥ इति पाणिमुद्रास्तवः sएच्तिओन्‍ नाथ श्रियो नळिनसुन्दरमाश्रयंस्ते पादं पवित्रमपनीतसमस्तखेदः । सार्वज्ञ्यरम्यसकलाद्भुतशेषवृत्ति- धन्यो बुभूषति दयाम्बुनिधे ममाऽऽत्मा ॥ २२९॥ नाथस्स एष नरकच्छिदपारशक्ति- र्नाकस्य पृष्ठ इव नः प्रकटे प्रकृष्टे । नारायणाचल इह स्वयमावरात्मा भूमा रमासहचरः स्वगुणैस्समिन्धे ॥ २३०॥ एष श्रिया सह हरिश्शुभदिव्यमूर्ति- श्श्रेयो जनस्य सकलस्य विधित्सुरस्मिन् । शेषाचले जयति वेङ्कटनाथनामा किं भो जनास्तदितरत्र भजध्वमेनम् ॥ २३१॥ ये नाम केचन रमेश समेश कर्म- वैचित्र्यतः कलितबाह्यकुदृष्टिपक्षाः । तेपि त्वदीयमनघं विभवं समीक्ष्य वश्या भवन्ति तव कस्सदृशस्ततोऽस्तु ॥ २३२॥ त्वामद्वितीयमखिलाश्श्रुतयो गृणन्ति श्रीमन् सदैव रमयापि च सद्वितीयम् । त्वद्भूमदर्शनसुखाम्बुनिधौ निमग्नाः नैवान्यदम्बुजविलोचन लोकयन्ति ॥ २३३॥ हा हा किमेतदधरोत्तरमद्य लोक- स्सञ्चेष्टमान इति सात्त्विकसङ्घवादः । सर्वज्ञ भावि परिशीलयतः कलौ ते साधुत्वबुध्दिरिह चेत न रमेश भीर्मे ॥ २३४॥ शक्तिस्तवास्त्यनवधिर्हि यथा तथैव श्रीकान्त सन्त्यनवधीनि ममप्यधानि । सर्वाधिकस्य तव साम्यमिदं न युक्तं तत्त्वं विचिन्त्य दययोचितमत्र कुर्याः ॥ २३५॥ आमञ्जुनृपुरमहामकुटं भवन्तम् आस्थापरेण मनसा च दृशा विलोक्य । आनन्दसागरनिमज्जनभाग्यधन्याः मान्याः श्रियः कमन सन्तु मयि प्रसन्नाः ॥ २३६॥ सा सर्वलोकजननी सकलार्तिहन्त्री सामादिभिस्त्वयि दयामभिवर्धयन्ती त्वय्येकतामुपगता लसतीह यैषा त्वञ्च श्रियो निलय नश्शरणं भवेतम् ॥ २३७॥ सर्वान्तरात्मभवनं सकलेषु तुल्यां वृत्तिं सदैव रमयापि च साहितीं ते । नारायणाचलनिवासरताभियुक्ताः सम्यभ्विभाव्य सममेव भवन्तमाहुः ॥ २३८॥ तद्धाम दिव्यमनघं तपसाप्यगम्यं सङ्कल्पितं हि भवता न ममात्र खेदः । यत् त्वां तथैव रमयाद्य वृषद्रिश‍ृङ्गे पश्यामि सादरमशेषसमन्वितोऽहम् ॥ २३९॥ आसेतुबन्धहिमशैलमनन्तभेदाः लोका भवन्तमनपायदयानिधानम् । आनम्रवाञ्छितविधानपरावतार- माराधयन्ति रमया सहितं स्वशक्या ॥ २४०॥ अम्भोजनेत्रमपहाय रमासहायं कं भो जनाः भजथ हन्त वृथा विमुग्धाः । सर्वेष्टदस्सकलदेवपतिस्स एष शेषाचले विहरतीह हि वो हिताय ॥ २४१॥ विश्वस्य याचतु फलं तदिहेति बुध्या विश्वस्य विश्वमिहलोकफलं दुहानः । त्वल्लब्धभूतिविधिशम्भुमुखान्यदेव- सेवारतिं शमयसीव वृषाद्रिवासिन् ॥ २४२॥ वैकुण्ठतो वृषगिरिं स्वयमच्युत त्वाम् आनीय तेऽङ्घ्रियुगमाश्रयितुं जनौघम् । या प्रेरयत्यध इतोप्यवतीर्य तस्याः प्रीत्यै श्रियो मयि निधेहि दयार्द्रदृष्टिम् ॥ २४३॥ दिव्ये प्लवे विविधवैद्युतदीपरत्न- भव्ये भवन्तमिह सम्प्रति पुष्करिण्याम् । श्रीशैलनाथ सहितं रमया च भूम्या दासस्समीक्ष्य च विनस्य च धन्य एषः ॥ २४४॥ सुस्निग्धवृत्तरुचिरस्फटिकावदात- स्थूणोपशोभिनि विचित्रविमानमान्ये । विभ्राजमानशुभवैद्युतदीपङ्क्तौ स्वज्योतिषा प्लव इहाऽद्रिपते विभासि ॥ २४५॥ श्रीमन् वृषाचलवराञ्चलवल्लभ त्वा- माश्रित्य सन्ततभवत्पदपद्मसक्तः । पापादपायनिचयान्निरयाच्च सम्य- गात्मानमात्मजनमप्यवितुं प्रयाचे ॥ २४६॥ सर्वज्ञ ते न विदितं किमिदं मनो गे सर्वेषु शक्त न कुतस्स्तवने नियोज्ये । मुक्तादिनेव किमितोऽस्ति मया फलं ते बद्धो यदस्मि भगवन् स परस्समाधिः ॥ २४७॥ आशावशाद्वृषगिरीश तथानुरूप्यात् अज्ञातशक्तिरहमीडितुमध्यवस्यन् । अन्यत्र कालमखिलं सरसं क्षिपन् यत् त्वां प्रस्मरामि तदिदं भगवन् क्षमस्व ॥ २४८॥ गीतोपदेशनिरतः पवनात्मजात- केतोः पृथातनुभुवो रणदेशमध्ये । व्याख्याङ्कशोभिकरपद्मदलस्स नूनं गोविन्दराज इह वेङ्कटवल्लभ त्वम् ॥ २४९॥ त्वय्येव मे मतिरियं नियता विभातु त्वत्पादपङ्कजधनेन च धन्यता स्यात् । त्वत्सुन्दराङ्गपरिचिन्तनलब्धभूमा त्वत्किङ्करः कमललोचन वर्तिषीय ॥ २५०॥ श्रीवेङ्कटाद्रिसदृशं न हि किञ्चिदस्ति श्रीवेङ्कटेशसदृशो न च जातु कश्चित् । तत्पादपङ्कजपरागपवित्रितेन देहेन तत्परिसरे सुकृती भवानि ॥ २५१॥ वज्रायुधादिविबुधव्रजवन्द्यमानं वज्रैकभूषणविभूषितमुज्ज्वलम् त्वाम् । वज्रात्कठोरतरमप्यतिमूर्खचित्त- माशु द्रवं रचयितुं प्रभुमाश्रितोऽस्मि ॥ २५२॥ किं नाम चिन्तयसि दासजने न जाने देहान्तकालपरमावधि कार्यमत्र । शास्त्रश्रमेण विकलः कुत एव भक्तः प्रत्यक्षितं स्वपरम्भावि कुतस्तरां स्यात् ॥ २५३॥ आलोडितानि निखिलान्यपि यैस्तु शास्त्रा- ण्याचार्यतल्लजमुखैरवधारितं त्वाम् । नारायण श्रितवृषाचलतुङ्गश‍ृङ्गं नाथं नमामि नलिनाक्षमुदारमाढ्यम् ॥ २५४॥ पादारविन्दयुगले बलवन्मनो मे निक्षिप्तमच्युत निरस्तसमस्तदोषे । तत्रैव मञ्जुलमनोहरदिव्यरुक्म- मञ्जीरशोभिनि मधुस्वदनं विधत्ते ॥ २५५॥ नाथ श्रियो नयनयोर्युगलं मदीयं निश्शेषमङ्गलनिधिं निधिमाश्रितानाम् । आपादचूडमनुभूय भवन्तमेति साहस्रनेत्रमुखसेवित नैव तृप्तिम् ॥ २५६॥ रौक्मेण भव्यमहसा मकुटेन मान्यं चक्रेण ते कमललोचन कम्बुना च । नित्यं श्रिया विहितशोभभुजान्तरालं रूपं प्रभो वृषगिरीश विभातु चित्ते ॥ २५७॥ सा मे समस्तजगतीभमाग्यभूमा कामातिशायिकमनीयगुणाभिरामा । श्यामा रमारमण दिव्यसुवर्णदामा क्षेमाय मूर्तिरियमस्तु वृषाद्रिधामा ॥ २५८॥ सिंहाचलेश्वर दिशो विदिशश्च देव- सिंहं समाश्रयितुमेत्य जना भवन्तम् । सिंहाद्भयादिव भृगैर्वृजिनैर्विमुक्ताः सिंहासनेषु महितेषु सुखं जयन्ति ॥ २५९॥ नागा हि रत्नशिरसोऽर्थपरायणास्ते नागेशपर्वतनिवास तथाऽवनिस्थाः । धर्मे रता दिविभवा अपि कायमग्नाः त्रैवर्गिकेतरदिमां गमय त्रिलोकीम् ॥ २६०॥ मध्येऽवनेरिह तथा पयसां निधाने व्योमन्यपेततमसि स्फुटरश्मिबिम्बे । नित्यं विभान्तमनघं मरुतामधीशं त्वां सर्वभूतनिलयं कलयेऽञ्जनेश ॥ २६१॥ वेङ्कटमहीध्रवरशेखरमिह त्वां याचति यदेष इदमस्ति न न युक्तम् । दीन इह निर्गतिरलब्धफल एष त्वं तु विभुरद्भुतमहागुणनिधिश्च ॥ २६२॥ वेङ्कटाधीश ते वैभवं किंविधं केन वा शक्यते ज्ञातुमत्यद्भुतम् । क्षेमभाजं जनं मां भवान् भूयसा वीक्षितेन स्वयं देव नित्यं कुरु ॥ २६३॥ दयासिन्धुः श्रीमान् दलितनिखिलारातिरधिकं श्रियं नः पुष्णन् यश्शरणमसि कृत्स्नस्य जगतः । प्रभुत्वं सौलभ्यं परमपुरुषत्वं तव हरे कदा वा को वा स्याद्गदितुमिह शक्तः कियदपि ॥ २६४॥ असामान्यं मान्यं ह्यतिवचनसौलभ्यमधुरं प्रभुत्वं श्लाघन्ते परमपुरुष ब्रह्मनिरताः । अलीकस्तोत्राणामविषयमनन्ताद्भुतगुणं तदेकस्थानं त्वां वृषगिरिपते यामि शरणम् ॥ २६५॥ अस्मादृशामयमनारतदुष्कृतानाम् अव्याजवत्सलतया शमिताञ्जनस्सन् । शेषाचलेश भगवन् भवसिन्धुपोतः पारे परत्र तनुषे परमं च साम्यम् ॥ २६६॥ प्रपद्येऽहं सद्यः पदयुगमविद्यैकनिलयो निषद्या दोषाणां निरवधिगुणग्राममनघम् । मृगेन्द्रक्षोणिभृन्महितशिखरोद्यानविहृति- प्रियश्रीवैवश्यक्षतदुरितदृष्टेस्तव हरे ॥ २६७॥ सूरीन्द्रा अपि नाथयामुनमुनिश्रीपूर्णरामानुज- श्रुत्यन्तार्यमुखास्तथा मम गुरुस्त्रय्यन्तरामानुजः । शिष्यस्तस्य च रङ्गलक्ष्मणमुनिर्यं श्रीनिधिं संश्रिताः सोऽयं सर्वगुरुस्तुतोऽस्तु नियतं श्रेयःप्रदो नः प्रभुः ॥ २६७॥ यदायत्तं विश्वं यदुपरि न किञ्चित् यत इदं निलीनं यत्रेदं यदिदमिति चाम्नायविदितम् । भजे तन्निर्दोषं निरवधिकनिस्सङ्ख्यविभवं प्रबुद्धैराराध्यं प्रपदनवशं श्रीश्रियमिह ॥ २६८॥ मनो मे मा किञ्चन्मधुमथन मृद्गातु मदनो मृडे वाऽन्यस्मिन् वा मम भवतु मा रक्षकमतिः । अशेषेशे शेषाचलनिलयिनि श्रीपरिबृढे मुकुन्दे भावो मे भवतु मुनिलोकैकसुगमः ॥ २६९॥ महत्यानन्देऽस्मिन्महितगुणसिन्धौ स्फुरति तं विहायायं लोकः किमिति विषये हन्त सजति । क्षुधश्चोदन्यायाः प्रशमनमिमं ध्यायत जनाः शरीरे जीर्णेऽस्मिन्नहि भवति तातो न जननी ॥ २७०॥ त्वयि सति खगराजक्ष्माधराधीश लक्ष्मी- परीबृढ सकलन्नः क्षेममातन्वति द्राक् । किमिति कलयतीदं मानसं त्वद्विभिन्नं भवसि च परमस्त्वं प्रापकस्सन् फलञ्च ॥ २७१॥ नियन्त्रा व्याप्तं यन्निखिलमपि लोकेषु भवता तदेष स्वाच्छन्द्यं विजहदिह जीवो नियतधीः । उपेक्ष्यैतद्बाह्यं निपुणमथ सर्वान्तरमिमं भवन्तं भुञ्जीत श्रितरम दुराशाविरहितः ॥ २७२॥ तत्तद्वर्णाश्रमसमुचितं कर्म यस्सात्विकस्सन् यावज्जीवं त्वयि भगवति श्रीश भक्तो विदध्यात् । अर्वाचीनैर्न खलु स पुमान् लिप्यते लब्धशेष- प्रख्यक्षोणीधरशिखरसंवास कारुण्यतस्ते ॥ २७३॥ पादाम्भोजयुगे प्रणम्य निहितं जङ्घागतं मानसं जानुद्वन्द्वमुपेयिवत् परिगतश्रेष्ठोरु लब्ध्वा कटिम् । वक्षः श्रीमणिशोभि संश्रितमथो लोलं भुजेषु क्रमा- द्वक्त्राब्जं समवाप्य कृत्स्नमचिरादालम्बते श्रीपते ॥ २७४॥ इत्थं निस्तुलतीर्थसप्तशिखरिप्रख्यातश‍ृङ्गाटवी- कुञ्जैकान्तरमाविहारपरमानन्दं परं पूरुषम् । श्रीवत्सान्वयवीरराघवकविः कालेषु यैर्भक्तिमान् अस्तौषीदिह तानि सङ्कलितवान्पद्यानि सोऽयं स्वयम् ॥ २७५॥ इति तर्कार्णवेन पण्डितरत्नेन शिरोमणिना उत्तमूर्ति वीरराघवाचार्येण विरचितं श्रीपद्मावतीस्तोत्रसहितं श्रीवेङ्कटेशस्तोत्रं सम्पूर्णम् ॥ ॥ शुभमस्तु ॥ From a telugu book veNkaTeshakAvyakalApa