अक्षर आकार:

श्रीवेङ्कटेशद्वादशनामस्तोत्रम्

shrIvenkaTeshadvAdashanAmastotram

श्रीवेङ्कटेशद्वादशनामस्तोत्रम्

ब्रह्माण्डपुराणान्तर्गतम् अस्य श्रीवेङ्कटेशद्वादशनामस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः श्रीवेङ्कटेश्वरो देवता । इष्टार्थे विनियोगः ॥ नारायणो जगन्नाथो वारिजासनवन्दितः । स्वामिपुष्करिणीवासी शन्ङ्खचक्रगदाधरः ॥ १॥ पीताम्बरधरो देवो गरुडासनशोभितः । कन्दर्पकोटिलावण्यः कमलायतलोचनः ॥ २॥ इन्दिरापतिगोविन्दः चन्द्रसूर्यप्रभाकरः । विश्वात्मा विश्वलोकेशो जयश्रीवेङ्कटेश्वरः ॥ ३॥ एतद्द्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः । दारिद्र्यदुःखनिर्मुक्तो धनधान्यसमृद्धिमान् ॥ ४॥ जनवश्यं राजवश्य सर्वकामार्थसिद्धिदम् । दिव्यतेजः समाप्नोति दीर्घमायुश्च विन्दति ॥ ५॥ ग्रहरोगादिनाशं च कामितार्थफलप्रदम् । इह जन्मनि सौख्यं च विष्णुसायुज्यमाप्नुयात् ॥ ६॥ ॥ इति ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे वेङ्कटेशद्वादशनामस्तोत्रं सम्पूर्णम् ॥ From a telugu book veNkaTeshakAvyakalApa