अक्षर आकार:

श्रीकृष्णस्तोत्रं वसुदेवकृतं ब्रह्मवैवर्तपुराणान्तर्गतम्

Shri Krishna stotra by Vasudeva

श्रीकृष्णस्तोत्रं वसुदेवकृतं ब्रह्मवैवर्तपुराणान्तर्गतम्

श्री गणेशाय नमः । वसुदेव उवाच -- त्वामतीन्द्रियमव्यक्तमक्षरं निर्गुणं विभुम् । ध्यानासाध्यं च सर्वेषां परमात्मानमीश्वरम् ॥ १॥ स्वेच्छामयं सर्वरूपं स्वेच्छारूपधरं परम् । निर्लिप्तं परमं ब्रह्म बीजरूपं सनातनम् ॥ २॥ स्थूलात्स्थूलतरं प्राप्तमतिसूक्ष्ममदर्शनम् । स्थितं सर्वशरीरेषु साक्षिरूपमदृश्यकम् ॥ ३॥ शरीरवन्तं सगुणमशरीरं गुणोत्करं । प्रकृतिं प्रकृतीशं च प्राकृतं प्रकृतेः परम् ॥ ४॥ सर्वेशं सर्वरूपं च सर्वान्तकरमव्ययम् । सर्वाधारं निराधारं निर्व्यूहं स्तौमि किं विभुम् ॥ ५॥ अनन्तः स्तवनेऽशक्तोऽशक्ता देवी सरस्वती । यं वा स्तोतुमशक्तश्च पञ्चवक्त्रः षडाननः ॥ ६॥ चतुर्मुखो वेदकर्ता यं स्तोतुमक्षमः सदा । गणेशो न समर्थश्च योगीन्द्राणां गुरोर्गुरुः ॥ ७॥ ऋषयो देवताश्चैव मुनीन्द्रमनुमानवाः । स्वप्ने तेषामदृश्यं च त्वामेवं किं स्तुवन्ति ते ॥ ८॥ श्रुतयः स्तवनेऽशक्ताः किं स्तुवन्ति विपश्चितः । विहायैवं शरीरं च बालो भवितुमर्हसि ॥ ९॥ वसुदेवकृतं स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः । भक्तिं दास्यमवाप्नोति श्रीकृष्णचरणाम्बुजे ॥ १०॥ विशिष्टं पुत्रं लभते हरिदासं गुणान्वितम् । सङ्कटं निस्तरेत्तूर्णं शत्रुभीतेः प्रमुच्यते ॥ ११॥ ॥ इति श्री ब्रह्मवैवर्तमहापुराणे वसुदेवकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ॥