अक्षर आकार:

वरदराजस्तोत्रम्

Varadarajastotram

वरदराजस्तोत्रम्

(काञ्च्याम्) श्रीमद्वरदराजेन्द्रः श्रीवत्साङ्कः शुभप्रदः । तुण्डीरमण्डलोल्लासी तापत्रयनिवारकः ॥ १॥ सत्यव्रतक्षेत्रवासी सत्यवज्जनपोषकः । सर्गस्थित्युपसंहारकारी सुगुणवारिधिः ॥ २॥ हरिर्हस्तगिरीशानो हृतप्रणतदुष्कृतः । तत्त्वरूपत्वष्टृकृतकाञ्चीपुरवराश्रितः ॥ ३॥ ब्रह्मारब्धाश्वमेधाख्यमहामखसुपूजितः । वेदवेद्यो वेगवतीवेगभीतात्मभूस्तुतः ॥ ४॥ विश्वसेतुर्वेगवतीसेतुर्विश्वार्तिकोऽनघः । यथोक्तकारिनामाढ्यो यज्ञभृद्यज्ञरक्षकः ॥ ५॥ ब्रह्मकुण्डोत्पन्नदिव्यपुण्यकोटिविमानगः । वाणीपत्यर्पितहयवपासुरभिलाधरः ॥ ६॥ वरदाभयहस्ताब्जो वनमालाविराजितः । शङ्खचक्रलसत्पाणिश्शरणागतरक्षकः ॥ ७॥ इमं स्तवं तु पापघ्नं पुरुषार्थप्रदायकम् । पठतां श‍ृण्वतां भक्त्या सर्वसिद्धिर्भवेद्ध्रुवम् ॥ ८॥ इति श्रीनारदपुराणान्तर्गतं वरदराजस्तोत्रं सम्पूर्णम् ।