अक्षर आकार:

श्रीवरदराजस्तवः २

Shri Varadarajastavah 2

श्रीवरदराजस्तवः २

अप्पय्यदीक्षितेन्द्रविरचितः । (काञ्च्यां वरदराजक्षेत्रे) उद्धाट्य योगकलया हृदयाब्जकोशं धन्यैश्चिरादपि यथारुचि गृह्यमाणः । यः प्रस्फुरत्यविरतं परिपूर्णरूपः श्रेयः स मे दिशतु शाश्वतिकं मुकुन्दः ॥ १॥ जातो न वेत्ति भगवन्न जनिष्यमाणः पारं परं परमपूरुष ते महिम्नः । तस्य स्तुतौ तव तरङ्गितसाहसिक्यः किं मादृशो बुधजनस्य भवेन्न हास्यः ॥ २॥ मन्ये निजस्खलनदोषमवर्जनीय- मन्यस्य मूर्ध्नि विनिवेश्य बहिर्बुभूषुः । आविश्य देव रसनानि महाकवीनां देवी गिरामपि तव स्तवमातनोति ॥ ३॥ नेतस्तथापि तव निर्ममलोकसेव्यां मूर्तिं मदावलमहीधररत्नभूषाम् । वैकुण्ठ वर्णयितुमस्मि धृताभिलाषः त्वन्नामरूपगुणचिन्तनलाभलोभात् ॥ ४॥ मन्ये सृजन्त्वभिनुतिं कविपुङ्गवास्ते तेभ्यो रमारमण मादृश एव धन्यः । त्वद्वर्णने धृतरसः कवितातिमान्द्यात् यस्तत्तदङ्गचिरचिन्तनभाग्यमेति ॥ ५॥ काञ्ची महार्घमणिकाञ्चनधामचित्रा विश्वम्भरां विबुधनाथ विभूषयन्ती । भाता गजाद्रिशिखरे तव भक्तचिन्ता- रत्नेन राजतितरां शुभविग्रहेण ॥ ६॥ अस्यां भवन्तमभितः स्थितदुग्धसिन्धौ मध्ये त्रयीमय महारविमण्डलस्य । पश्यन्नधःकृतचतुर्मुखविष्टपायां धामत्रयेऽपि कुतुकं विजहाति विद्वान् ॥ ७॥ अस्याममेयगुणपुर्यपराजितायां अश्वत्थवर्यजुषि दिव्यसरःसमीपे । मध्ये हिरण्मयगृहं महिषीयुतं त्वां दृष्ट्वा जनो न पुनरेति भवान्तरार्तिम् ॥ ८॥ सम्प्राप्य दुग्धतटिनीविरजां विशुद्धाः सन्तो भवद्भजनदां पदमागतास्ते । त्वत्पादतोयतुलसीकुसुमेषु लग्नं गन्धं रसं च गरुडध्वज ते लभन्ते ॥ ९॥ सौवर्णसालवलयान् समनुप्रविश्य कोशानिव त्रिदशनायक कोऽपि धन्यः । आनन्दवल्ल्युदितदिव्यफलानुरूपं रूपं त्वदीयमवलोकयतेऽभिरूपम् ॥ १०॥ मातङ्गशैलमणिश‍ृङ्गमहाविमान सोपानपर्वचतुरुत्तरविंशतिर्वा । तामेव तत्त्वविततिं पुरुषो विलङ्घ्य पश्यन्भवन्तमुपयाति भवाब्धिपारम् ॥ ११॥ नापारि लब्धुमरविन्दभुवाऽपि साक्षाद्- यं पूर्वमीश्वर विना हयमेधपुण्यम् । अन्यैरनाप्य स कथं तव पुण्यकोटिं प्राप्यस्त्वदाकृतिविलोकनजः प्रमोदः ॥ १२॥ प्रत्यङ्मुखं तव गजाचलराजरूपं प्रत्यङ्मुखाश्चिरतरं नयनैर्निपीय । अस्थानमाप्तवचसामवितर्कणीय- माश्चर्यमेतदिति निश्चयमावहन्ते ॥ १३॥ यस्मिञ्जहात्यतिशयोक्तिरलङ्कृतित्वं न्यूनोपमात्वमुपमा समुपैति सर्वा । सूक्ष्मस्वभावकलनापि च न प्रतर्क्या तद्वर्णयामि भवतः कथमाभिरूप्यम् ॥ १४॥ लक्ष्म्याः प्रियोऽसि रतिकेलिकृतः पितासि विश्वैकमोहनरसस्य च देवताऽसि । आवासभूमिरसि सर्वगुणोत्तमानां वैकुण्ठ वर्णयतु कस्तव रूपरेखाम् ॥ १५॥ सर्वोत्तरोऽसि सकलत्रिदशाश्रयोऽसि ज्योतिश्छटाघटितचक्रपरिष्कृतोऽसि । श‍ृङ्गारशेवधिरसि द्विपशैलमौले कल्याणरूप इति कस्त्वयि चित्रवादः ॥ १६॥ अङ्गानि ते निखिललोकविलोचनानां सम्भावनीयगुणसंसरणानि सत्यम् । येष्वेकमाप्य न पुराऽधिगतं स्मरन्ति वाञ्छन्ति नान्यदपि लब्धुमदो विहाय ॥ १७॥ एकत्र मन्मथमजीजनदिन्दरायां पूर्वं भवानिति बुधा किमपूर्वमाहुः । अद्यापि तं न जनयस्यरविन्दनाभ कासु प्रसन्नमधुरस्मितकामिनीषु ॥ १८॥ निक्षिप्य हृत्त्वयि पुनर्लभते न कोऽपि निर्यात इत्यधिप न त्वयि चित्रमेतत् । हत्वा हठान्मृगदृशां हृदयानि यस्त्व- मेवं निलीय किल तिष्ठसि शैलश‍ृङ्गे ॥ १९॥ मोहं जगत्त्रयभुवामपनेतुमेत- दादाय रूपमखिलेश्वर देहभाजाम् । निस्सीमकान्तिरसनीरधिनाऽमुनैव मोहं विवर्धयसि मुग्धविलोचनानाम् ॥ २०॥ उच्छेदमेकविषयात्कथयन्ति बोधान् मोहस्य ये खलु कथं न मृषावदास्ते । लावण्यमीश तव यन्नयनैर्निपीय तत्रैव मोहमधिकं दधते तरुण्यः ॥ २१॥ शुभ्रांशुवक्त्र शुभगोचरलाभतोषात् सम्प्रस्थितो मृगदृशां नयनाम्बुजौघः । त्वद्भासरित्यथ बिभर्ति मोहं प्रायः फलन्ति विफलन्ति च दैवचिन्ताः ॥ २२॥ यत्प्राणसंयमजुषां यमिनां मनांसि मूर्तिं विशन्ति तव माधव कुम्भकेन । प्रत्यङ्गमूर्छदतिवेलमहाप्रवाह- लावण्यसिन्धुतरणाय तदित्यवैमि ॥ २३॥ लावण्य सागरभुवि प्रणयं विशेषाद्- दुग्धाम्बुराशिदुहितुस्तव तर्कयामि । यत्तां बिभर्षि वपुषा निखिलेन लक्ष्मी- मन्यां तु केवलमधोक्षज वक्षसैव ॥ २४॥ सारस्वतं वदनपद्मभुवं प्रवाहं त्रैस्रोतसं च तव पादभुवं निरीक्ष्य । सर्वप्रतीकनिकरात्प्रवहन्त्यजस्र- मीर्ष्यावतीश यमुना किमु कायकान्तिः ॥ २५॥ आपूरितत्रिभुवनोदरमंशुजालं मन्ये महेन्द्रमणिवृन्दमनोहरं ते । त्वद्रागदीपितहृदां त्वरितं वधूनां प्राप्ते सरित्सहचरं प्रलयेऽभिवृद्धम् ॥ २६॥ युक्त्याऽऽगमेन च भवान् शशिवर्ण एव निष्कृष्टसत्त्वगुणमात्रविवर्तभूमिः । धत्ते कृपाम्बुभरतस्त्विषमैन्द्रनीलीं शुभ्रोऽपि साम्बुरसितः खलु दृश्यतेऽब्दः ॥ २७॥ सर्वातिशायिसहजद्युतिभूषितस्य विश्वैकनायक विभूषणधारणं ते । आबद्धसौहृदमपारसुखाम्बुराशेः वीक्षे तवैव विषयादिकुतूहलेन ॥ २८॥ मध्ये स्फुरन्मकरतोरणमण्डलस्य चामीकराभरणभूषितसर्वगात्रः । आदित्यबिम्बगतमाप्रपदात्सुवर्णं भासा भवाननुकरोति भवन्तमेव ॥ २९॥ सेवारसागतसुराद्यनुबिम्बदृश्यं भूषामणिप्रकरदर्शितसर्ववर्णम् । त्वां विश्वरूपवपुषेव जनं समस्तं पश्यामि नागगिरिनाथ कृतार्थयन्तम् ॥ ३०॥ श‍ृङ्गीसुवर्णरुचिपिञ्जरितैकभागा- न्यङ्गेषु देव तव भूषणमौक्तिकानि । प्रत्यक्षयन्ति भवतः प्रतिरोमकूप- विश्रान्तिसान्द्रजगदण्डसहस्रशोभम् ॥ ३१॥ आबद्धपङ्क्तिमहितानि तव त्रिधामन् वीध्राणि हीरशकलानि विभूषणेषु । सम्मोहनानि सरसीरुहलोचनानां मन्त्राक्षराणि कलये मकरध्वजस्य ॥ ३२॥ आपादमौलिविधृतेषु विभान्ति देव स्थूलेन्द्रनीलमणयो मणिभूषणेषु । रागादुपेत्य तव सुन्दर तत्तदङ्ग- लग्नानि लोकसुदृशामिव लोचनानि ॥ ३३॥ त्वां वीक्ष्य मुक्तिद जनास्तरणिं सखायं भिन्द्युः किलेति तव भूषणपद्मरागाः । शङ्के चिरं जनदृशः स्वकरैः क्षिपन्ति तन्मात्रतोऽपि तव मुक्तिदतामबुद्ध्वा ॥ ३४॥ पादावुपेन्द्र सुकुमारतमाविमौ ते भूषाभरादरुणिमानमिवोद्वमन्तौ । इत्थं किमस्ति सुकुमारमितीव बोद्धुं लोकत्रयेऽपि च करैः स्पृशतः पदार्थान् ॥ ३५॥ मूर्तिं प्रसाधयति ते चरणांशुपुञ्जः तां जैमिनिः कथमधीश निराकरोतु । सर्वत्र योगमुपपादयताऽरुणिम्नः तेनारुणाधिकरणे हि मुनिः स भग्नः ॥ ३६॥ अन्तस्तमांसि यमिनामपसारयन्ती हृत्पङ्कजान्यपि च नाथ विकासयन्ती । भक्तप्रवेकभववारिनिधेस्तरण्योः त्वत्पादयोर्जयति काऽपि मयूखमाला ॥ ३७॥ मुष्णन्प्रभातसमयेषु मुरान्तकारिन् अङ्घ्रिद्वयश्रियमहस्करतस्करस्ते । यत्प्राप्यते न करभङ्गममुष्य बाल- मित्रत्वमेव मिषति ध्रुवमत्र हेतुः ॥ ३८॥ अङ्घ्रिद्वयस्य तव सन्ततमन्तरङ्ग- मम्भोजवर्गमिह योजयति श्रिया यत् । उत्कोचदानमिदमुष्णकरस्य बाल्यात् तत्कान्तिरत्नचयचोरणतत्परस्य ॥ ३९॥ भानुर्निशासु भवदङ्घ्रिमयूखशोभा लोभात्प्रताप्य किरणोत्करमाप्रभातम् । तत्रोद्धृते हुतवहात्क्षणलुप्तरागे तापं भजत्यनुदिनं स हि मन्दतातः ॥ ४०॥ तौल्यं वदन्तु कवयस्तरुपल्लवानां मुग्धास्त्वदीयचरणेन मुकुन्द किं तैः । तान्येव तत्तदधरोष्ठमिषात्तदानीं कम्पं भजन्ति कथयन्ति किलात्मनैच्यम् ॥ ४१॥ पद्मोपमात्पदयुगात्तव रत्नगर्भा- ज्जातेति पद्मसदृशाकृतिमाहुरेनाम् । कार्यं हि कारणगुणानतिवर्ति लोके प्रायः पतङ्गपतिवाह विलोकयामः ॥ ४२॥ कल्याणशालिकमलाकरलालनीय- मासेवकश्रुतिमनोहरनादि हंसम् । आमोदमेदुरमरुन्नमितालिकान्तं शङ्के तवेश्वर पदं शतपत्रमेव ॥ ४३॥ स्पर्शं ययोः समधिगम्य झटित्यहल्या देवी च भूरभवदुज्झितसर्वपङ्का । ताभ्यां घटेत समता भवतः पदाभ्यां आजन्मपङ्कवसतेः कथमम्बुजस्य ॥ ४४॥ मातङ्गशैलमणिशेखर ते पदाभ्यां मोहेन साम्यमनुचिन्त्य कृतापराधम् । शङ्के सरोजमनयोरुभयोरुपेत्य रेखाच्छलेन सततं विदधाति सेवाम् ॥ ४५॥ लेखाधिनाथवनपल्लवधैर्यचोरे रेखामयं पदतले कमलं यदेतत् । तत्रैव विश्रमजुषोऽच्युतरागलक्ष्म्याः क्रीडानिशान्तकमलं तदिति प्रतीमः ॥ ४६॥ यस्याः स्वमूर्त्यनुगुणाकृतिशक्तियुक्तः पादाम्बुजद्वयमिषात्कमठाधिराजः । मूले वसत्युचितमेव निगद्यते सा मूर्तिर्महापुरुष तेऽखिललोकरूपा ॥ ४७॥ किं द्वादशात्मनि रवौ भगवन्धृतेर्ष्यः चन्द्रस्ततोऽप्यधिकतामधिगन्तुमेव । एते तवेह दश भान्ति पदाङ्गुलीषु स्वात्मान इत्यजनि चित्तदृगर्णवेभ्यः ॥ ४८॥ भासा पदं तव रमाधिप भूषयन्ति संसेवकांश्च विबुधान् परितोषयन्ति । नाथ क्षिपन्ति च तमांसि नखेन्दवस्ते संशोषयन्त्यपि तु भक्तभवाम्म्बुराशिम् ॥ ४९॥ गङ्गाच्छलेन तव निःसृतमूर्ध्वगाण्ड- सङ्घट्टनात्पदनखाग्रमयूखलेशम् । आलोक्य नूनममराः पतितं पयोधा- वामथ्य तं जगृहुरीश तदिन्दुरूपम् ॥ ५०॥ पादानमत्सुरशिरोमणिपद्मरागान् सद्यः स्फुरत्सहजरुक्प्रकरान्कराग्रैः । मुक्तामयान्विदधतां प्रकटं मुरारे जैवातृकत्वमुचितं ननु ते नखानाम् ॥ ५१॥ यत्ते पदाम्बुरुहमम्बुरुहासनेड्यं धन्याः प्रपद्य सकृदीश भवन्ति मुक्ताः । नित्यं तदेव भजतामतिमुक्तलक्ष्मी- युक्तैव दिव्यमणिनूपुरमौक्तिकानाम् ॥ ५२॥ नाथ त्वदङ्घ्रिनखधावनतोयलग्नाः तत्कान्तलेशकणिकाजलधिं प्रविष्टाः । ता एव तस्य मथनेन घनीभवन्त्यो नूनं समुद्रनवनीतपदं प्रपन्नाः ॥ ५३॥ सव्यापसव्यशरमोक्षकृतीक्षुधन्वा जङ्घे तव स्वशरधी इति सन्दिहानः । आलोकतेऽङ्घ्रिकटकोद्गतरुक्छलेन न्यस्याभितो निजशराननुरूपभावम् ॥ ५४॥ जानुद्वयं तव जगत्त्रयनाथ मन्ये मारस्य केलिमणिदर्पणतामुपेतम् । आलोकयन् यदवदातमनोज्ञवृत्तं रूपं निजं कलयते विपरीतमेषः ॥ ५५॥ ऊरोः किमन्यदयतामुपमानभावं वामस्य दक्षिणममुष्य च तं विहाय । रम्भादयः सदृश इत्युचितं किमेतद्- यस्योर्वशी सुभग साऽपि विभूतिलेशः ॥ ५६॥ नाथ त्वया परिहितं वरवर्णिनीनां रागस्य यद्वसनमास्पदतां बिभर्ति । सौन्दर्यसारनिलयेन कटीतटेन तस्यैव किन्नु महिमा परिशीलनस्य ॥ ५७॥ सम्प्राप्य सारसनमध्यतलोदयाद्रिं मध्याम्बरं मसृणयन्नरुणैर्मयूखैः । संवीक्ष्यते सुकृतिभिर्मणिरेष पूषा संसाररात्र्युपरतिं गतवद्भिरेव ॥ ५८॥ नाभेरभूत्तव चतुर्भुज नान्तरिक्षं यन्नाभिरेव यदुनेतरियं ततोऽभूत् । नाभ्या इति श्रुतिविपर्ययगे विभक्ती तां जैमिनेरनुससार पशोश्च सूत्रम् ॥ ५९॥ आरोपमध्यवसितिं च विना तवास्यां नाभौ सरःपदमुपैति कथं नु वृत्तिम् । साक्षादियं सरसिजस्य समुद्रशायिन् उत्पत्तिभूरिति हि नायक नायमूहः ॥ ६०॥ कल्पान्तरेषु विततिं कमलासनानां भूयोऽपि कर्तुमिव भूरि रजो दधानम् । नाभिह्रदे समुदितं नलिनं तवैत- द्भूयात्सदैव मम भूतिकरं मुरारे ॥ ६१॥ उल्लासयत्युदरबन्धनिबद्धदिव्य- शोणाश्मरश्मिकलिकावलिरच्युतैषा । आगाम्यनेकशतकल्पविधातृगर्भ- नाभ्युद्गताम्बुरुहकुट्मलपङ्क्तिशोभाम् ॥ ६२॥ ऊर्ध्वं विरिञ्चिभवनात्तव नाभिपद्मा- द्रोमावलीपदजुषस्तमसः परस्तात् । मुक्तौघमण्डितमुरःस्थलमुन्मयूखं पश्यामि देव परमं पदमेव साक्षात् ॥ ६३॥ सालैरुदंशुचयरत्नललन्तिकाढ्यैः स्फीतोल्लसत्कुसुमया वनमालया च । विभ्राजते विपुलमेनदुरस्त्वदीय- मन्तःपुरं जलधिराजकुमारिकायाः ॥ ६४॥ प्रालम्बिकामुपगतास्तव पद्मरागाः प्रत्यग्रघर्मकरमण्डलनिर्विशेषाः । पर्यङ्कके वरद वक्षसि भान्ति लक्ष्म्याः क्रीडोपबर्हतिलका इव पार्श्वभाजः ॥ ६५॥ अस्तु त्रयीमयतनुस्तव लम्बनाली- रत्नैस्तिरस्क्रियत एव तथाऽपि भानुः । सोढः सतां बत निशान्तमुपागतानां एवं तिरस्कृदीश्वर कः समर्थः ॥ ६६॥ नष्टेऽपि भस्मनि वने गिरिशेन दग्धं स्त्रीणां हृदीश मदनं प्रतिबोधयन्तः । भस्मोच्चये कृतकचप्रतिबोधनं तं शुक्रं जयन्तु न कथं तव हारताराः ॥ ६७॥ उत्प्रेक्षयत्यधिभुजान्तरमुल्लसन्ती पार्श्वद्वये परमपूरुष हारमाला । तत्रत्यकान्तिसरितस्तरलैः प्रणुन्नां ऊर्म्युत्करैरुभयतः सितफेनपङ्क्तिम् ॥ ६८॥ त्वां सर्वभूतमयमाश्रितसर्ववर्णं यद्वैजयन्त्युपगताच्युत सर्वगन्धम् । तेनैव किं त्रिभुवनैकमहावदान्य- सारूप्यमावहति ते सकलाभिनन्द्यम् ॥ ६९॥ ताराभिरामपरिणाहलसत्सिताभ्रं तापिञ्छमेचकमुरः शरदन्तरिक्षम् । प्राप्यैव देव तव कौस्तुभपूर्णचन्द्रः पूर्णां बिभर्ति पुरुषोत्तम कान्तिरेखाम् ॥ ७०॥ नाभी सरोजकिरणैर्मणिराजभाभिः आत्मप्रभाभिरपि संवलितं विभाति । श्रीवत्सविग्रहजुषः प्रकृतेस्त्वदीयं वक्षः परीतमिव सत्त्वरजस्तमोभिः ॥ ७१॥ वक्षःस्थलं वरद नन्दनमाश्रितस्ते येषां विभाति हरिचन्दन एव मध्ये । एते चतुर्भुज भुजास्तव तस्य शाखाः शङ्के कराब्जदलकोमलिताग्रभागाः ॥ ७२॥ जात्यैव यद्वरद पल्लवराग एष यल्लाल्यते च भवता कटके निवेश्य । मन्ये मणिस्तदुपगम्य मदान्धभावं साक्षादयं सवितुरेव करोत्यवज्ञाम् ॥ ७३॥ ऐन्द्रोपलप्रभमधो भुजदण्डनालं एकत्र चक्रमपरत्र च शङ्खहंसम् । दृष्ट्वा कथं न कलयेमहि कान्तिसिन्धोः उत्फुल्लपद्मयुगमूर्ध्वकरद्वयं ते ॥ ७४॥ चन्द्रार्कचारुतरशङ्खरथाङ्गशोभा सम्भाव्यरात्रिदिवसात्मकपार्श्वयुग्मम् । नक्षत्रदृश्यनवमौक्तिकहारिरूपं मन्ये महापुरुषरूपधरं भवन्तम् ॥ ७५॥ संवर्तजृम्भितविकर्तनदुर्निरीक्षं पश्यामि दक्षिणकरे तव चक्रराजम् । दैत्यौघसिन्धुपतिमन्थमहाचलस्य बाहोः प्रतापघनमिद्धमिवोद्गतं ते ॥ ७६॥ आभाति देव विधृतस्तव सव्यपाणौ अन्तर्बहिश्च शुचिरच्युत पाञ्चजन्यः । अन्तेवसन्निव गलस्य गुरोर्गभीर ध्यानक्रियोपनिषदध्ययनार्थमेषः ॥ ७७॥ कौमोदकी स्फुरति ते करपल्लवाग्रे वैरिञ्चवाक्यविकृतेव सरस्वती सा । त्रिस्रोतसस्तव पदाब्जभुवो विशेषं आकाङ्क्ष्य पाणिकमलात्तव निस्सरन्ती ॥ ७८॥ हस्ते विराजति तवाभयमुद्रितेऽस्मिन् अव्याजकोमलरुचिप्रकराभिरामे । वज्रोर्मिकांशुनिकरः कमलाधिराज्य पट्टाभिषेकसलिलौघ इवावदातः ॥ ७९॥ नामैव ते वरद वाञ्छितदातृभावं व्याख्यानतो न वहसे वरदानमुद्राम् । न ह्यागमोदितरसः श्रुतिसिद्धमर्थं लिङ्गेन बोध्यमुररीकुरुते विपश्चित् ॥ ८०॥ आभाति मौक्तिकगुणग्रथितैरनल्पैः नीलोत्पलैर्वलयितस्तव नाथ कण्ठः । संवर्तमेघवसतिं ध्वननैस्तदन्तैः निश्चित्य तन्निकटगैरिव मेघडिम्भैः ॥ ८१॥ यद्ब्रह्मणश्च जनिभूः प्रियमिन्दरायाः सस्पर्धमोषधिपतौ च सकर्णिकं च । एतैर्गुणैर्गुणनिधे कतमस्त्वदीयं वक्त्रं मनोज्ञमवगच्छतु नारविन्दम् ॥ ८२॥ वक्त्रेण ते यदभिभूतमभूत्सरोजं तन्नाभिभूतमिति शब्दमवाच्यनूनम् । शब्दच्छलादपनिनीषु जनापवादं नाभेरभूत्तव रमाधिप विश्रुतायः ॥ ८३॥ उन्मीलयन्कुमुदमुज्ज्वलयन् गिरीशं उन्मूलयन्विषमवाहभवाभितापम् । उद्दीपयन्वरवधूजनतानुरागं उद्योतते वरद ते वदनामृतांशुः ॥ ८४॥ पक्षद्वयक्रशिमपोषविभाव्यमान- चान्द्रायणव्रतनिषेवण एष नित्यम् । कुर्वन्प्रदक्षिणमुपेन्द्र सुरालयं ते लिप्सुर्मुखाब्जरुचिमेव तपस्यतीन्दुः ॥ ८५॥ नाथ त्वदीयमकलङ्कमिमं मुखेन्दुं आपीय तृप्यति सदा वसुधा यतस्ते । तेनैव किं नवसुधारसगोचरोऽभूत् इन्दुः कलङ्कमलिनीकृतमध्यभागः ॥ ८६॥ आश्रित्य नूनममृतद्युतयः पदं ते देहक्षये विधृतदिव्यपदाभिमुख्याः । लावण्यपुण्यनिचयं सुहृदि त्वदास्ये विन्यस्य यान्ति मिहिरं प्रतिमासभिन्नाः ॥ ८७॥ त्वद्वक्त्रसाम्यमयमम्बुजकोशमुद्रा- भङ्गात्ततत्सुषममित्रकरोपक्लृप्त्या । लब्ध्वाऽपि पर्वणि विधुः क्रमहीयमानः शंसत्यनीत्युपचितां श्रियमाशुनाशाम् ॥ ८८॥ दृग्भ्यां मुकुन्द मृगलोचनकोमलाभ्यां जाताधिकद्युति विलोक्य तवाननाब्जम् । मन्ये स्वमण्डलमितोऽप्यधिकं विधित्सुः तस्मिन्बिभर्ति मृगमेव जडः सितांशुः ॥ ८९॥ मालिन्यमब्जशशिनोर्मधुलिट्कलङ्कौ धत्तो मुखे तु तव दृक्तिलकात्मनाऽऽभाम् । दोषावतः क्वचन मेलनतो गुणत्वं वक्तुर्यथेश वचसि भ्रमविप्रलम्भौ ॥ ९०॥ आमोदकान्तभृदहर्निशमेकरूपं आसेवितं द्विजगणैर्दिविषद्गणैश्च । अङ्काधिरूढसहजश्रि मुखं त्वदीयं शङ्कामहे वरद संहतमब्जयुग्मम् ॥ ९१॥ बिम्बस्तवायमधरः प्रतिबिम्बनेन युक्तं सदा युवतिमानसदर्पणेषु । बिम्बाधरः कविभिरीश्वर वर्ण्यसे त्वं एतावतैव न तु तुच्छफलोपमानात् ॥ ९२॥ विद्यामयेषु तव निःश्वसितेष्वपूर्वं विद्याविशेषमिव शिक्षितुमन्तरात्मन् । वाण्याः सदा तव मुखाम्बुरुहे वसन्त्याः कायप्रभेव लसति स्मितचन्द्रिका ते ॥ ९३॥ तापत्रयौषधवरस्य तव स्मितस्य निःश्वासमन्दमरुता निबुसीकृतस्य । एते कडङ्गरचया इव विप्रकीर्णा जैवातृकस्य किरणा जगति भ्रमन्ति ॥ ९४॥ सिद्धौषधं जयति तेऽधररत्नपात्रे तापत्रयी झटिति मुञ्चति येन सिक्तम् । मन्ये तुषारकिरणं गुणलेशयोगा- दस्यैव वारिजविलोचन कल्कपुञ्जम् ॥ ९५॥ आतन्वतामवयवेषु गतागतानि युक्तात्मनां वरद यौवतचक्षुषां च । विश्रान्तिभूर्विधुकरप्रकरावदाता मन्दस्मितच्छविरियं तव मां पुनातु ॥ ९६॥ निःश्वासमन्दमलयानिलकन्दलेन निर्हारिणा बहुतरेण च सौरभेण । नासापुटौ नलिनलोचन ते मनोज्ञौ मन्ये सदैव मधुमाधवयोर्निवासौ ॥ ९७॥ सञ्चारशालि तव निःश्वसिते समस्त- वेदेतिहासवपुषि द्विपशैलनाथ । नाभीसरोरुहनवारुणमण्डले च मन्ये मधुव्रतकुलं मधुविद्ययोक्तम् ॥ ९८॥ देहाद्वदन्ति जननं मुनयस्तिलानां देवेन्द्रवन्द्यचरणाम्बुज तावकीनात् । नारायणैतदुचितं प्रकटीकरोति नासाभिधानमिह दिव्यतिलप्रसूनम् ॥ ९९॥ नेत्रे तव क्व भगवन् क्व च पुण्डरीकं ब्रूते तयोस्तदुपमानमथापि वेदः । सर्वात्मनस्तव समाधिकवस्त्वलाभा- दाकाशवत्स खलु सर्वगतत्वमाह ॥ १००॥ साम्यभ्रमादविनयेन समुन्नतस्य सव्यं तवाक्षि हरति श्रियमम्बुजस्य । तस्यापि तां समधिकां तनुते यदन्यद्- दाक्षिण्यमेव दनुजाहित तत्र मूलम् ॥ १०१॥ पद्मानुरागजुषि लोहितशुक्लकृष्णां आसेदुषि प्रकृतिमादृतमीनरूपे । श्रुत्यन्तभासिनि मदावलशैलनाथ त्वल्लोचने त्वयि च भाति न मे विशेषः ॥ १०२॥ मुक्तः प्रजापतिरयं मम दर्शनादि- त्यन्यं विधातुमनसस्तव भालजाता । घर्माम्बुबिन्दुततिरेव किरीटमूल- प्रत्युप्तमौक्तिकततिच्छलतो विभाति ॥ १०३॥ राजन्त्यनर्घमणिसङ्घमये किरीटे राजीवलोचन न नीलमणिप्रवेकाः । आघ्राय गन्धमनिलस्तव कुन्तलानां अन्तः प्रवेष्टुमनसः परितो निलीनाः ॥ १०४॥ आपादमाचिकुरभारमशेषभङ्गं आनन्दवृन्दलसितं सुदृशामसीमम् । अन्तर्मम स्फुरतु सन्ततमन्तरात्मन् अम्भोजलोचन तव श्रितहस्तशैलम् ॥ १०५॥ इति अप्पय्यदीक्षितेन्द्रविरचितः श्रीवरदराजस्तवः सम्पूर्णः ।