अक्षर आकार:

वरदराजस्तवः

Varadaraja Stavah

वरदराजस्तवः

पञ्चस्तव्यां ४ वरदराजस्तवः श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गल सूत्रताम् ॥ स्वस्ति हस्तिगिरिमस्तशेखरस्सन्तनोतु मयि सन्ततं हरिः । निस्समाभ्यधिकमभ्यधत्त यं देवमौपनिषदी सरस्वती ॥ १॥ श्रीनिधिं निधिमपारमर्थिनामर्थितार्थपरिदानदीक्षितम् । सर्वभूतसुहृदं दयानिधिं देवराजमधिराजमाश्रये ॥ २॥ नित्यमिन्द्रियपथातिगं महो योगिनामपि सुदूरगं धियः । अप्यनुश्रवशिरस्सु दुर्ग्रहं प्रादुरस्ति करिशैलमस्तके ॥ ३॥ वल्लिका श्रुतिमतमल्लिकामयी येन पल्लवितविश्वशाखया । स्वश्रिया करिगिरेरनुक्रियां वष्टि मृष्टवरदं तमाश्रये ॥ ४॥ यं परोक्षमुपदेशतस्त्रयी नेति नेति परपर्युदासतः । वक्ति यस्तमपरोक्षमीक्षयत्येष तं करिगिरिं समाश्रये ॥ ५॥ एष ईश इति निर्णयं त्रयी भागधेयरहितेषु नो दिशेत् । हस्तिधामनि न निर्णयेत को देवराजमयमीश्वरस्त्विति ॥ ६॥ है! कुदृष्ट्यभिनिविष्टचेतसां निर्विशेषसविशेषताश्रयम् । संशयं करिगिरिर्नुदत्यसौ तुङ्गमङ्गलगुणास्पदे हरौ ॥ ७॥ न्यायतर्कमुनिमुख्यभाषितैश्शोधितैस्सह कथञ्चन त्रयी । जोषयेद्धरिमनंहसो जनान् हस्तिधाम सकलं जनं स्वयम् ॥ ८॥ अद्भुतं महदसीमभूमकं किञ्चिदस्ति किल वस्तु निस्तुलम् । इत्यघोषि यदिदं तदग्रतस्तथ्यमेव करिधाम्नि दृश्यते ॥ ९॥ संवदेत किल यत्प्रमान्तैरस्तप्रमाणमिति ये हि मेनिरे । तन्मतेऽपि किल मानतां गता हस्तिनाऽद्य परवस्तुनि त्रयी ॥ १०॥ गुणायत्तं लोके गुणिषु हि मतं मङ्गलपदं विपर्यस्तं हस्तिक्षितिधरपते ! तत्त्वयि पुनः । गुणास्सत्यज्ञानप्रभृतय उत त्वद्गततया शुभीभूयं याता इति हि निरणैष्म श्रुतिवशात् ॥ ११॥ निराबाधं नित्यं निरवधि निरंहो निरुपमं सदा शान्तं शुद्धं प्रतिभटमवद्यस्य सततम् । परं ब्रह्माम्नातं श्रुतिशिरसि यत् तद्वरद ! ते परं रूपं साक्षात्तदिदमपदं वाङ्मनसयोः ॥ १२॥ प्रशान्तानन्तात्मानुभवजमहानन्दमहिम- प्रसक्तस्तैमित्यानुकृतवितरङ्गार्णवदशम् । परं यत्ते रूपं स्वसदृशदरिद्रं वरद ! तत् त्रयी पिस्प्रक्षन्ती परनिरसने श्राम्यति परम् ॥ १३॥ न वक्तुं न श्रोतुं न मनितुमथोपासिसिषितुं न च द्रष्टुं स्प्रष्टुं तदनु न च भोक्तुं हि सूशकम् । परं यद्वस्तूक्तं ननु वरद ! साक्षात्तदसि भोः ! कथं विश्वस्मै त्वं करिगिरिपुरस्तिष्ठस इह ॥ १४॥ प्रकृष्टं विज्ञानं बलमतुलमैश्वर्यमखिलं विमर्यादं वीर्यं वरद ! परमा शक्तिरपि च । परं तेजश्चेति प्रवरगुणषट्कं प्रथमजं गुणानां निस्सीम्नां गणनविगुणानां प्रसवभूः ॥ १५॥ गुणैः षड्भिस्त्वेतैः प्रथमतरमूर्तिस्तव बभौ ततस्तिस्रस्तेषां त्रियुग ! युगलैर्हि त्रिभिरभुः । व्यवस्था या चैषा ननु वरद ! साऽऽविष्कृतिवशात् भवान् सर्वत्रैव त्वगणितमहामङ्गलगुणः ॥ १६॥ इयं वैयूही वै स्थितिरथ किलेच्छाविहृतये विभूतीनां मध्ये सुरनरतिरश्चामवतरन् । सजातीयस्तेषामिति तु विभवाख्यामपि भजन् करीश ! त्वं पूर्णो वरगुणगणैस्तान् स्थगयसि ॥ १७॥ परो वा व्यूहो वा विभव उत वाऽर्चावितरणो भवन् वाऽन्तर्यामी वरवरद ! यो यो भवसि वै । स स त्वं सन्नैशान् वरगुणगणान् बिभ्रदखिलान् भजद्भ्यो भास्येवं सततमितरेभ्यस्त्वितरथा ॥ १८॥ दयाक्षान्त्यौदार्यम्रदिमसमतासौहृदधृति प्रसादप्रेमाज्ञाश्रितसुलभताद्या वरगुणाः । तथा सौन्दर्याद्यास्तव वरदराजोत्तमगुणाः विसीमानोऽसङ्ख्याः प्रणतजनभोगं प्रसुवते ॥ १९॥ अनन्याधीनत्वं तव किल जगुर्वैदिकगिरः पराधीनं त्वां तु प्रणतपरतन्त्रं मनुमहे । उपालम्भोऽयं भोः ! श्रयति बत सार्वज्ञ्यमपि ते यतो दोषं भक्तेष्विह वरद ! नैवाकलयसि ॥ २०॥ पाणिपादवदनेक्षणशब्दैः अम्बुजान्यपदिशन् वरद ! त्वम् । बाहुभिस्त्वतिविशालतमालान् आञ्जनं करिगिरेरसि श‍ृङ्गम् ॥ २१॥ त्वामुदारभुजमुन्नसमायत्कर्णपाशपरिकर्मसदंसम् । आयताक्षमभिजातकपोलं पारणीयति वरप्रद ! दृङ्मे ॥ २२॥ नीलमेघनिभमञ्जनपुञ्जश्यामकुन्तलमनन्तशयं त्वाम् । अब्जपाणिपदमम्बुजनेत्रं नेत्रसात्कुरु करीश ! सदा मे ॥ २३॥ त्वक्च दृक्च निपिपासति जिह्वा विह्वला श्रवणवत्परवृत्तौ । नासिका त्वयि करीश ! तथेति प्राप्नुयां कथमिमां स्विदवस्थाम् ॥ २४॥ आधिराज्यमधिकं भुवनानां ईश ! ते पिशुनयन् किल मौलिः । चूलिकामणिसहस्रमरीचेः हस्तिभूषण ! भवत्युदयाद्रिः ॥ २५॥ उद्धरत्युपरि भक्तजनानित्यूर्ध्वताश्रयणसूचितशक्तिम् । ऊर्ध्वपुण्ड्रतिलकं बहुमानात् किं बिभर्षि वरद ! स्वललाटे ॥ २६॥ कर्णिका तव करीश ! किमेषा कर्णभूषणमुतांसविभूषा । अंसलम्ब्यलकभूषणमाहो ! मानसस्य मम वा परिकर्म ॥ २७॥ पारिजातविटपानभितो या पुष्पसम्पदुदियात् करिनाथ । तां विडम्बयति तावकबाहुषु आतता तु कटकाङ्गदलक्ष्मीः ॥ २८॥ मथ्यमानचलफेनिलसिन्धु प्रोत्थितिक्षणदशां गमितौ ते । वक्षसि स्फुरितमौक्तिकहारे कौस्तुभश्च कमला च करीश ! ॥ २९॥ अञ्जनक्षितिभृतो यदि नाम उपत्यका वरद ! हेममयी स्यात् । तादृशी तव विभाति तु लक्ष्मीः आम्बरी बत विडम्बितविद्युत् ॥ ३०॥ परभागमियाद्रवेस्तमिस्रा वरदाद्य त्वयि तन्निशामयामः । गमिता तव वक्त्रचित्रभानोः परभागं ननु कौन्तली तमिस्रा ॥ ३१॥ उभयोरपि पक्षयोस्तिथिर्या विषमीभावनिरासदाऽष्टमीति । उपमानजसम्पदे हि सेन्दोः वरदाभूद्भवतो ललाटलक्ष्म्या ॥ ३२॥ अलकालिचिकीर्षया किलात्ता सुपरीचिक्षिषया ललाटपट्टे । सुमषी निकषीकृता भ्रुवौ ते वरद ! स्यादकृतत्वतस्तु नैवम् ॥ ३३॥ श्रवसश्च दृशश्च शब्दरूपग्रहणे ते न हि जीववद्व्यवस्था । उभयोरखिलेक्षणक्षमत्वाद्वरदातः ! श्रवणाश्रये दृशौ ते ॥ ३४॥ करुणारसवाहिवीक्षणोर्मेर्वरद ! प्रेममयप्रवाहभाजः । तततीरवनावली भ्रुवौ दृक्चलसिन्धोस्तव नासिकेव सेतुः ॥ ३५॥ विभवं विवृणोति विस्तृणीते रुचमाविष्कुरुते कृपामपाराम् । अभिवर्षति हर्षमार्द्रभावं तनुते ते वरदैष दृष्टिपातः ॥ ३६॥ अरुणाधरपल्लवे लसन्ती वरदासौ द्विजचन्द्रचन्द्रिका ते । अधिविद्रुममस्तनिस्तलाली रुचमाविष्कुरुते हि पुष्कराक्ष ! ॥ ३७॥ स्मितनिर्झरिका विनिष्पतन्ती तव वक्षःस्थलभूतले विकीर्णा । वरद ! प्रबिभर्ति हारलक्ष्मीं अपि मुक्तावलिका नदीव तज्जा ॥ ३८॥ परिमण्डितरासमण्डलाभिर्वरदाघ्रातं अभीष्टगोपिकाभिः । अनुवर्तितदातनप्रहर्षादिव फुल्लं हि कपोलयोर्युगं ते ॥ ३९॥ मुखमुन्नसमायताक्षमुद्यत्स्मितदन्तं रुचिराधरं नतभ्रु । लसदंसविलम्बिकर्णपाशं मयि ते निश्चलमस्तु हस्तिनाथ ! ॥ ४०॥ पद्मायाः प्रणयरसात्समासजन्त्याः स्वं बाहुं सुबहुमतो भुजेन तेन । कां नामान्वभवदहो ! दशां तदात्वे कण्ठस्ते करिगिरिनाथ ! कम्बुकान्तः ॥ ४१॥ सायामा धृतपरिणद्धयोऽब्धयो वा तादृश्यः स्फुटमथवा दिशश्चतस्रः । चत्वारो वरद ! वरप्रदास्त्वदीयाः भासन्ते भुजपरिघास्तमालनीलाः ॥ ४२॥ आश्लेषे वरद ! भुजास्तवेन्दिरायाः गोपीनामभिमतरासबन्धने वा । बन्धे वा मुदमधिकां यशोदयाऽहो ! संप्राप्तास्तव नवनीतमोषदोषात् ॥ ४३॥ सालीया इव विटपास्सपल्लवाग्राः कल्लोला इव जलधेस्सविद्रुमाग्राः । भोगीद्रा इव च फणामणीद्धवक्त्राः भासन्ते वरद ! भुजास्तवारुणाग्राः ॥ ४४॥ अम्भोधेस्स्वयमभिमन्थनं चकर्थ क्षोणीध्रं पुनरबिभश्च सप्तरात्रम् । सप्तानां विवलयसि स्म कण्ठमुक्ष्णामम्लाना वरद ! तथाऽपि पाणयस्ते ॥ ४५॥ रिङ्खातो व्रजसदनाङ्गणेषु किं ते गोयष्टिग्रहणवशान्नु गोपगोष्ठ्याम् । आलम्बाद्धयनयसूत्रतोत्त्रयोर्वा पाणीनां वरद ! तवारुणत्वमासीत् ॥ ४६॥ सर्वज्ञास्समुचितशक्तयस्सदैव त्वत्सेवानियमजुषस्त्वदेकभोगाः । हेतीनामधिपतयस्सदा किमेतान् शोभार्थं वरद ! बिभर्षि हर्षतो वा ॥ ४७॥ किं धातुर्गगनविधानमातृकाऽभूत् वक्षस्ते वरद ! वरेण्य ! यत्र नाम । पद्माया मुखमथ कौस्तुभश्च जातौ चन्द्रार्कावुडुनिकरायते तु हारः ॥ ४८॥ अण्डानां त्वदुदरमामनन्ति सन्तः स्थानं तद्वरद ! कथं नु कार्श्यमस्य । माहात्म्यं स्वस इह येषु नूनमेषां ऋद्धिस्स्यान्महिमकरी न हीतरेषाम् ॥ ४९॥ सौन्दर्यामृतरसवाहवेगजस्स्यात् आवर्तस्तव किल पद्मनाभ ! नाभिः । तत्पद्मं वरद ! विभाति कान्तिमय्याः लक्ष्म्यास्ते सकलवपुर्जुषो नु सद्म ॥ ५०॥ या दामोदर इति नामदा तवासीत् सा दामा किल किणकारिणी बभूव । तन्नूनं वरद ! वलित्रयच्छलेन त्वन्मध्यप्रथमविभूषणी बभूव ॥ ५१॥ यादृग्बीजाध्युषितभुवि यद्वस्तु हस्तीश ! जातं तत्तादृक्षं फलति हि फलं त्वय्यपीक्षामहे तत् । यस्मादण्डाध्युषित उदरे तावके जायमानं पद्मं पद्मानन ! किल फलत्यण्डषण्डानखण्डान् ॥ ५२॥ अज्ञे यज्ञेश्वर ! किल जने क्वाप्यदर्शं विमर्शं विश्वाधीशः कतम इति तन्निर्णयं वर्णयामः । व्यावक्रोशी नृषु समुदिता यानुपाश्रित्य तेऽपि ब्रह्माद्यास्ते वरद ! जनितास्तुन्दकन्दारविन्दे ॥ ५३॥ मुष्णन् कृष्णः प्रियनिजजनैर्जय्यहैयङ्गवीनं दाम्ना भूम्ना वरद ! हि यया त्वं यशोदाकराभ्याम् । बद्धो बन्धक्षपणकरणीं तां किलाद्यापि मातुः प्रेम्णा गात्राभरणमुदराबन्धनाख्यं बिभर्षि ॥ ५४॥ सौन्दर्याख्या सरिदुरसि विस्तीर्य मध्यावरुद्धा स्थानाल्पत्वाद्विषमगतिजावर्तगर्ताभनाभिः । प्राप्य प्राप्तप्रथिम जघनं विस्तृता हस्तिनाथ ! स्रोतोभेदं भजति भवतः पाददेशापदेशात् ॥ ५५॥ रम्भास्तम्भाः करिवरकराः कारभास्सारभाजो वेषाश्लेषा अपि मरतकस्तम्भमुख्यास्तुलाख्याः । साम्यं सम्यग्वरद ! न दधुस्सर्वमुर्वोस्त्वदूर्वोः न ह्यैश्वर्यं दधति न तथा यौवनारम्भजृम्भाः ॥ ५६॥ या ते गात्रे वरद ! जनिता कान्तिमय्यापगाऽभूत् तस्यास्स्रोतोयुगलमिह यद्याति पादप्रवादम् । तज्जातोर्ध्वभ्रमियुगमिवोद्भानुनी जानुनी ते स्यादुक्ष्णोर्वा ककुदयुगलं यौवनैश्वर्यनाम्नोः ॥ ५७॥ प्रेम्णाऽऽघ्रातुं करिगिरिशिरोऽधोमुखीभावभाजोः अङ्घ्रिद्वन्द्वाह्वयकमलयोर्दण्डकाण्डायमाने । अद्रिस्पर्शोद्भवसुखत उत्कण्टके रोमहर्षात् द्रष्टुर्दृष्टिर्वरद ! किमलं लङ्घितुं जङ्घिके ते ॥ ५८॥ भक्तानां यद्वपुषि दहरं पण्डितं पुण्डरीकं यच्चाम्लानं वरद ! सतताध्यासनादासनाब्जम् । आम्नायानां यदपि च शिरो यश्च मूर्धा शठारेः हस्त्यद्रेर्वा किमतिसुखदं तेषु पादाब्जयोस्ते ॥ ५९॥ पद्यास्वद्याङ्गुलिषु वरद ! प्रान्ततः कान्तिसिन्धोः वीचीवीथीविभवमुभयीष्वम्भसो लम्भितासु । विन्दन्निन्दुः प्रतिफलनजां सम्पदं किं पदं ते छायाच्छद्मा नखविततितां लम्भितश्शुम्भितस्सन् ॥ ६०॥ शम्भोरम्भोरुहमुख ! सखा सन् सहाङ्कश्शशाङ्कः कुर्वन् सेवां वरद ! विकलो वृत्तहीनस्सुवक्रः । त्वत्पादाब्जे प्रियमख ! नखच्छद्मनाऽऽश्रित्य नित्यं सद्वृत्तोऽभूत्स च दशगुणः पुष्कलो निष्कलङ्कः ॥ ६१॥ त्वत्पादाब्जे प्रजाता सुरसरिदभवत्प्राक् चतुर्धा ततस्तासु एकां धत्ते ध्रुवस्सा त्रिभुवनमपुनात्त्रीन्पथो भावयन्ती । तत्रैका खं व्रजन्ती शिवयति तु शिवं सा पुनस्सप्तधाऽभूत् तास्वेका गां पुनाना वरद ! सगरजस्वर्गसर्गं चकार ॥ ६२॥ परिजनपरिबर्हा भूषणान्यायुधानि प्रवरगुणगणाश्च ज्ञानशक्त्यादयस्ते । परमपदमथाण्डान्यात्मदेहस्तथाऽऽत्मा वरद ! सकलमेतत् संश्रितार्थ चकर्थ ॥ ६३॥ अनाप्तं ह्याप्तव्यं न तव किल किञ्चिद्वरद ! ते जगज्जन्मस्थेमप्रलयविधयो धीविलसितम् । तथाऽपि क्षोदीयस्सुरनरकुलेष्वाश्रितजनान् समाश्लेष्टुं पेष्टुं तदसुखकृतां चावतरसि ॥ ६४॥ विवेकधियमेकतो ह्यभिनिवेशलेशो हरेत् महत्त्वभिनिवेशनं किमुत तन्महिम्नस्तव । अहो ! विसदृशे जगत्यवततर्थ पार्थादिकं निजं जनमुदञ्चयन् वरद ! तं समाश्लेषकः ॥ ६५॥ संश्लेषे भजतां त्वरापरवशः कालेन संशोध्य तान् आनीय स्वपदे स्वसङ्गमकृतं सोढुं विलम्बं बत ! । अक्षाम्यन् क्षमिणां वरो वरद ! सन्नत्रावतीर्णो भवेः किं नाम त्वमसंश्रितेषु वितरन् वेषं वृणीषे तु तान् ॥ ६६॥ वरद ! यदि न भुव्यवातरिष्यः श्रुतिविहितास्त्वदुपासनार्चनाद्याः । करणपथविदूरगे सति त्वयि अविषयतानिकृताः किलाभविष्यन् ॥ ६७॥ यदपराधसहस्रमजस्रजं त्वयि शरण्य ! हिरण्य उपावहत् । वरद ! तेन चिरं त्वमविक्रियो विकृतिमर्भकनिर्भजनादगाः ॥ ६८॥ त्वामामनन्ति कवयः करुणामृताब्धे ! ज्ञानक्रियाभजनलभ्यमलभ्यमन्यैः । एतेषु केन वरदोत्तरकोसलस्थाः पूर्वं सदूर्वमभजन्त हि जन्तवस्त्वाम् ॥ ६९॥ भजत्सु वात्सल्यवशात् समुत्सुकः प्रकाममत्रावतरेर्वरप्रद ! । भवेश्च तेषां सुलभोऽथ किन्न्विदं यदङ्ग दाम्ना नियतः पुराऽरुदः ॥ ७०॥ नरसिंहतनुरगौणी समसमयसमुद्भवश्च भक्तगिरः । स्तम्मे च सम्भवस्ते पिशुनयति परेशतां वरद ! ॥ ७१॥ तापत्रयीमयदवानलदह्यमानं मुह्यन्तमन्तमवयन्तमनन्त ! नैव । स्थातुं प्रयातुमुपयातुमनीशमीश ! हस्तीश ! दृष्ट्यमृतवृष्टिभिराभजेथाः ॥ ७२॥ नानाविरुद्धविदिशासु दिशासु चाहो वन्ध्यैर्मनोरथशतैर्युगपद्विकृष्टः । त्वत्पादयोरनुदितस्पृह एष सोऽहं न स्वस्ति हस्तिगिरिनाथ ! निशामयामि ॥ ७३॥ है ! निर्भयोऽस्म्यविनयोऽस्मि यतस्त्वदङ्घ्रौ लिप्सामलब्धवति चेतसि दुर्विनीते । दुष्कर्मवर्मपरिकर्मित एष सोऽहं अग्रे वरप्रद ! तव प्रलपामि किञ्चित् ॥ ७४॥ सव्याधिराधिरवितुष्टिरनिष्टयोगः स्वाभीष्टभञ्जनममर्षकरो निकर्षः । कृन्तन्ति सन्ततमिमानि मनो मदीयं हस्तीश ! न त्वदभिलाषनिधिप्रहाणिः ॥ ७५॥ विद्वेषमानमदरागविलोभमोहादि आजानभूमिरहमत्र भवे निमज्जन् । निर्द्वन्द्व ! नित्यनिरवद्यमहागुणं त्वां हस्तीश ! कश्श्रयितुमीक्षितुमीप्सितुं वा ॥ ७६॥ पुत्रादयः कथममी मयि संस्थिते स्युः इत्यप्रतिक्रियनिरर्थकचिन्तनेन । दूये न तु स्वयमहं भविताऽस्मि कीदृक् इत्यस्ति हस्तिगिरिनाथ ! विमर्शलेशः ॥ ७७॥ शम्पाचलं बहुलदुःखमनर्थहेतुः अल्पीय इत्यपि विमृष्टिषु दृष्टदोषम् । दुर्वासनाद्रढिमतस्सुखमिन्द्रियोत्थं हातुं न मे मतिरलं वरदाधिराज ! ॥ ७८॥ बुद्ध्वा च नो च विहिताकरणैर्निषिद्ध- संसेवनैस्त्वदपचारशतैरसह्यैः । भक्तागसामपि शतैर्भवताऽप्यगण्यैः हस्तीश ! वाक्तनुमनोजनितैर्हतोऽस्मि ॥ ७९॥ त्वद्दास्यमस्य हि मम स्वरसप्रसक्तं तच्चोरयन्नयमहं किल चस्खल प्राक् । त्वं मामकीन इति मामभिमन्यसे स्म हस्तीश ! संशयथ नस्तमिमं विवादम् ॥ ८०॥ भोगा इमे विधिशिवादिपदं च किञ्च स्वात्मानुभूतिरिति या किल मुक्तिरुक्ता । सर्वं तदूषजलजोषमहं जुषेय हस्त्यद्रिनाथ ! तव दास्यमहारसज्ञः ॥ ८१॥ विषयविषधरव्रजव्याकुले जननमरणनक्रचक्रास्पदे । अगतिरशरणो भवाब्धौ लुठन् वरद ! शरणमित्यहं त्वां वृणे ॥ ८२॥ अकृतसुकृतकस्सुदुष्कृत्तरः शुभगुणलवलेशदेशातिगः । अशुभगुणपरस्सहस्रावृतो वरदमुरुदयं गतिं त्वां वृणे ॥ ८३॥ शरणवरणवागियं योदिता न भवति बत ! साऽपि धीपूर्विका । इति यदि दयनीयता मय्यहो ! वरद ! तव भवेत्ततः प्राणिमि ॥ ८४॥ निरवधिषु कृतेषु चागस्स्वहो ! मतिरनुशयिनी यदि स्यात्ततः । वरद ! हि दयसे न संशेमहे निरनुशयधियो हता है ! वयम् ॥ ८५॥ शरणवरणवागियं याऽद्य मे वरद ! तदधिकं न किञ्चिन्मम । सुलभमभिमतार्थदं साधनं तदयमवसरो दयायास्तव ॥ ८६॥ विषयविषययिणी स्पृहा भूयसी तव तु चरणयोर्न साऽल्पापि मे । वरद ! ननु भरस्तवैव त्वयं यदुत तव पदस्पृहाजन्म मे ॥ ८७॥ इयमिह मतिरस्मदुज्जीवनी वरद ! तव खलु प्रसादादृते । शरणमिति वचोऽपि मे नोदियात् त्वमसि मयि ततः प्रसादोन्मुखः ॥ ८८॥ वरद ! यदिह वस्तु वाञ्छाम्यहं तव चरणलभाविरोधस्ततः । यदि न भवति तश्च देहि प्रभो ! झटिति वितर पादमेवान्यथा ॥ ८९॥ तदपि किमपि हन्त ! दुर्वासना- शतविवशतया यदभ्यर्थये । तदतुलदय ! सार्व ! सर्वप्रद ! प्रवितर वरद ! क्षमाम्भोनिधे ॥ ९०॥ प्रियमितरदथापि वा यद्यथा वितरसि वरद ! प्रभो ! त्वं हि मे । तदनुभवनमेव युक्तं तु मे त्वयि निहितभरोऽस्मि सोऽहं यतः ॥ ९१॥ यथाऽसि यावानसि योऽसि यद्गुणः करीश ! यादृग्विभवो यदिङ्गितः । तथाविधं त्वाऽहमभक्तदुर्ग्रहं प्रपत्तिवाचैव निरीक्षितुं वृणे ॥ ९२॥ अये ! दयालो ! वरद ! क्षमानिधे ! विशेषतो विश्वजनीन ! विश्वद ! । हितज्ञ ! सर्वज्ञ ! समग्रशक्तिक ! प्रसह्य मां प्रापय दास्यमेव ते ॥ ९३॥ स्वकैर्गुणैः स्वैश्चरितैः स्ववेदनात् भजन्ति ये त्वां त्वयि भक्तितोऽथवा । करीश ! तेषामपि तावकी दया तथात्वकृत्सैव तु मे बलं मतम् ॥ ९४॥ यदि त्वभक्तोऽप्यगुणोऽपि निष्क्रियो निरुद्यमो निष्कृतदुष्कृतो न च । लभेय पादौ वरद ! स्फुटास्ततः क्षमादयाद्यास्तव मङ्गला गुणाः ॥ ९५॥ विलोकनैर्विभ्रमणैरपि भ्रुवोः स्मितामृतैरिङ्गितमङ्गलैरपि । प्रचोदितस्ते वरद ! प्रहृष्टधीः कदा विधास्ये वरिवस्यनं तव ॥ ९६॥ विविश्य विश्वेन्द्रियतर्षकर्षणीः मनस्स्थले नित्यनिखातनिश्चलाः । सुधासखीर्हस्तिपते ! सुशीतलाः गिरः श्रवस्याश्श‍ृणुयाम तावकीः ॥ ९७॥ अशेषदेशाखिलकालयोगिनीषु अहं त्ववस्थास्वखिलास्वनन्यधीः । अशेषदास्यैकरतिस्तदाचरन् करीश ! वर्तेय सदा त्वदन्तिके ॥ ९८॥ इमं जनं हन्त ! कदाऽभिषेक्ष्यति त्वदक्षिणद्योर्वरद ! श्रमापहा । अकृत्रिमप्रेमरसप्रवाहजा विसृत्वरी वीक्षणवीचिसन्ततिः ॥ ९९॥ सदातनत्वेऽपि तदातनत्वत् नवीभवत्प्रेमरसप्रवाहया । निषेवितं त्वां सततोत्कया श्रिया करीश ! पश्येम परश्शतं समाः ॥ १००॥ समाहितैस्साधु सनन्दनाभिः सुदुर्लभं भक्तजनैरदुर्लभम् । अचिन्त्यमत्यद्भुतमप्रतर्कणं वरप्रद त्वत्पदमाप्नुयां कथम् ? ॥ १०१॥ रामानुजाङ्घ्रिशरणोऽस्मि कुलप्रदीपः त्वासीत्स यामुनमुनेस्स च नाथवंश्यः । वंश्यः पराङ्कुशमुनेस्स च सोऽपि देव्याः दासस्तवेति वरदास्मि तवेक्षणीयः ॥ ॥ इति पञ्चस्तव्यां चतुर्थो वरदराजस्तवः समाप्तः ॥