अक्षर आकार:

वरदराजपञ्चाशत्

Varadarajapanchashat

वरदराजपञ्चाशत्

वेदान्तदेशिककृत (काञ्च्याम्) द्विरदशिखरिसीम्ना सद्मवान् पद्मयोनेः तुरगसवनवेद्यां श्यामलो हव्यवाहः । कलशजलधिकन्या वल्लरी कल्पशाखी कलयतु कुशलं नः कोऽपि कारुण्यराशिः ॥ १॥ यस्यानुभावमधिगन्तुमशक्नुवन्तो मुह्यन्त्यभङ्गुरधियो मुनिसार्वभौमाः । तस्यैव ते स्तुतिषु साहसमश्नुवानः क्षन्तव्य एष भवता करिशैलनाथ ॥ २॥ जानन्ननादिविहितानपराधवर्गान् स्वामिन् भयात्किमपि वक्तुमहं न शक्तः । अव्याजवत्सल तथापि निरङ्कुशं मां वात्सल्यमेव भवतो मुखरीकरोति ॥ ३॥ किं व्याहरामि वरद स्तुतये कथं वा खद्योतवत्प्रलघु सङ्कुचितप्रकाशः । तन्मे समर्पय मतिं च सरस्वतीं च त्वामञ्जसा स्तुतिपदैर्यदहं धिनोमि ॥ ४॥ मच्छक्तिमात्रगणने किमिहास्ति शक्यं शक्येन वा तव करीश किमस्ति साध्यम् । यद्यस्ति साधय मया तदपि त्वया वा किं वा भवेद्भवति किञ्चिदनीहमाने ॥ ५॥ स्तोत्रं मया विरचितं त्वदधीनवाचा त्वत्प्रीतये वरद यत्तदिदं न चित्रम् । आवर्जयन्ति हृदयं खलु शिक्षकाणां मञ्जूनि पञ्जरशकुन्तविजल्पतानि ॥ ६॥ यं चक्षुषामविषयं हयमेधयज्वा द्राघीयसा सुचरितेन ददर्श वेधाः । तं त्वां करीश करुणापरिणामतस्ते भूतानि हन्त निखिलानि निशामयन्ति ॥ ७॥ तत्तत्पदैरुपहितेऽपि तुरङ्गमेधे शक्रादयो वरद पूर्वमलब्धभागाः । अध्यक्षिते मखपतौ त्वयि चक्षुषैव हैरण्यगर्भ हविषां रसमन्वभूवन् ॥ ८॥ सर्गस्थितिप्रलयविभ्रमनाटिकायां शैलूषवद्विविधवेषपरिग्रहं त्वाम् । सम्भावयन्ति हृदयेन करीश धन्याः संसारवारिनिधिसन्तरणैकपोतम् ॥ ९॥ प्राप्तोदयेषु वरद त्वदनुप्रवेशात् पद्मासनादिषु शिवादिषु कञ्चुकेषु । तन्मात्रदर्शनविलोभितशेमुषीकाः तादात्म्यमूढमतयो निपतन्त्यधीराः ॥ १०॥ मध्ये विरिञ्चिशिवयोर्विहितावतारः ख्यातोऽपि तत्समतया तदिदं न चित्रम् । मायावशेन मकरादि शरीरिणं त्वां तानेव पश्यति करीश यदेष लोकः ॥ ११॥ ब्रह्मेति शङ्कर इतीन्द्र इति स्वराडि- त्यात्मेति सर्वमिति सर्वचराचरात्मन् । हस्तीश सर्ववचसामवसानसीमां त्वां सर्वकारणमुशन्त्यनपाय वाचः ॥ १२॥ आशाधिपेषु गिरिशेषु चतुर्मुखेष्व- प्यव्याहता विधि निषेधमयी तवाज्ञा । हस्तीश नित्यमनुपालनलङ्घनाभ्यां पुंसां शुभाशुभमयानि फलानि सूते ॥ १३॥ त्रातापदि स्थितिपदं भरणं प्ररोहः छाया करीश सरसानि फलानि च त्वम् । शाखागतत्रिदशवृन्दशकुन्तकानां किं नाम नासि महतां निगमद्रुमाणाम् ॥ १४॥ सामान्यबुद्धिजनकाश्च सदादिशब्दाः तत्त्वान्तरभ्रमकृतश्च शिवादि वाचः । नारायणे त्वयि करीश वहन्त्यनन्यम् अन्वर्थवृत्तिपरिकल्पितमैककण्ठ्यम् ॥ १५॥ सञ्चिन्तयन्त्यखिलहेयविपक्षभूतं शान्तोदितं शमवता हृदयेन धन्याः । नित्यं परं वरद सर्वगतं सुसूक्ष्मं निष्पन्दनन्दथुमयं भवतः स्वरूपम् ॥ १६॥ विश्वातिशायि सुखरूप यदात्मकस्त्वं व्यक्तिं करीश कथयन्ति तदात्मकां ते । येनाधिरोहति मतिस्त्वदुपासकानां सा किं त्वमेव तव वेति वितर्कडोलाम् ॥ १७॥ मोहान्धकारविनिवर्तनजागरूके दोषा दिवापि निरवग्रहमेधमाने । त्वत्तेजसि द्विरदशैलपते विमृष्टे श्लाघ्येत सन्तमसपर्वसहस्रभानोः ॥ १८॥ रूढस्य चिन्मयतया हृदये करीश स्तम्बानुकारि परिणामविशेषभाजः । स्थानेषु जाग्रति चतुर्ष्वपि सत्त्ववन्तः शाखाविभागचतुरे तव चातुरात्म्ये ॥ १९॥ नागाचलेश निखिलोपनिषन्मनीषा मञ्जूषिकामरकतं परिचिन्वतां त्वाम् । तन्वी हृदि स्फुरति कापि शिखा मुनीनां सौदामिनीव निभृता नव मेघगर्भा ॥ २०॥ औदन्वते महति सद्मनि भासमाने श्लाघ्ये च दिव्यसदने तमसः परस्तात् । अन्तःकलेवरमिदं सुषिरं सुसूक्ष्मं जातं करीश कथमादरणास्पदं ते ॥ २१॥ बालाकृतेर्वटपलाशमितस्य यस्य ब्रह्माण्डमण्डलमभूदुदरैकदेशे । तस्यैव तद्वरद हन्त कथं प्रभूतं वाराहमास्थितवतो वपुरद्भुतं ते ॥ २२॥ भक्तस्य दानवशिशोः परिपालनाय भद्रां नृसिंह कुहनामधिजग्मुषस्ते । स्तम्भैकवर्जमधुनापि करीश नूनं त्रैलोक्यमेतदखिलं नरसिंहगर्भम् ॥ २३॥ क्रामन् जगत्कपटवामनतामुपेतः त्रेधा करीश स भवान् निदधे पदानि । अद्यापि जन्तव इमे विमलेन यस्य पादोदकेन विधृतेन शिवा भवन्ति ॥ २४॥ येनाचलप्रकृतिना रिपुसङ्क्षयार्थी वारां निधिं वरद पूर्वमलङ्घयस्त्वम् । तं वीक्ष्य सेतुमधुनापि शरीरवन्तः सर्वे षडूर्मिबहुलं जलधिं तरन्ति ॥ २५॥ इत्थं करीश दुरपह्नवदिव्यभव्य- रूपान्वितस्य विबुधादि विभूतिसाम्यात् । केचिद्विचित्रचरितान् भवतोऽवतारान् सत्यान् दयापरवशस्य वदन्ति सन्तः ॥ २६॥ सौशील्यभावितधिया भवता कथञ्चित् सञ्छादितानपि गुणान् वरद त्वदीयान् । प्रत्यक्षयन्त्यविकलं तव सन्निकृष्टाः पत्युस्त्विषामिव पयोदवृतान् मयूखान् ॥ २७॥ नित्यं करीश तिमिराविलदृष्टयोऽपि सिद्धाञ्जनेन भवतैव विभूषिताक्षाः । पश्यन्त्युपर्युपरि सञ्चरतामदृश्यं मायानिगूढमनपाय महानिधिं त्वाम् ॥ २८॥ सद्यस्त्यजन्ति वरद त्वयि बद्धभावाः पैतामहादिषु पदेष्वपि भावबन्धम् । कस्मै स्वदेत सुखसञ्चरणोत्सुकाय कारागृहे कनकश‍ृङ्खलयाऽपि बन्धः ॥ २९॥ हस्तीश दुःखविषदिग्धफलानुबन्धि- न्याब्रह्मकीटमपराहतसम्प्रयोगे । दुष्कर्मसञ्चयवशाद्दुरतिक्रमे नः प्रत्यस्त्रमञ्जलिरसौ तव निग्रहास्त्रे ॥ ३०॥ त्वद्भक्तिपोतमवलम्बितुमक्षमाणां पारं परं वरद गन्तुमनीश्वराणाम् । स्वैरं लिलङ्घयिषतां भववारिराशिं त्वामेव गन्तुमसि सेतुरभङ्गुरस्त्वम् ॥ ३१॥ अश्रान्तसंसरणधर्मनिपीडितस्य भ्रान्तस्य मे वरद भोगमरीचिकासु । जीवातुरस्तु निरवग्रहमेधमानो देव त्वदीयकरुणामृतदृष्टिपातः ॥ ३२॥ अन्तःप्रविश्य भगवन्नखिलस्य जन्तोः आसेदुषस्तव करीश भृशं दवीयान् । सत्यं भवेयमधुनापि स एव भूयः स्वाभाविकी तव दया यदि नान्तरायः ॥ ३३॥ अज्ञातनिर्गममनागमवेदिनं मां अन्धं न किञ्चिदवलम्बनमश्नुवानम् । एतावतीं गमयितुः पदवीं दयालोः शेषाध्वलेश नयने क इवातिभारः ॥ ३४॥ भूयोऽपि हन्त वसतिर्यदि मे भवित्री याम्यासु दुर्विषहवृत्तिषु यातनासु । सम्यग्भविष्यति ततः शरणागतानां संरक्षितेति बिरुदं वरद त्वदीयम् ॥ ३५॥ पर्याकुलं महति दुःखपयोनिधौ मां पश्यन् करीश यदि जोषमवस्थितस्त्वम् । स्फारेक्षणेऽपि मिषति त्वयि निर्निमेषं पारे करिष्यति दया तव दुर्निवारा ॥ ३६॥ किं वा करीश कृपणे मयि रक्षणीये धर्मादि बाह्यसहकारिगवेषणेन । नन्वस्ति विश्वपरिपालनजागरूकः सङ्कल्प एव भवतो निपुणः सहायः ॥ ३७॥ निर्यन्त्रणं परिणमन्ति न यावदेते नीरन्ध्रदुष्कृतभवा दुरितप्ररोहाः । तावन्न चेत्त्वमुपगच्छसि शार्ङ्गधन्वा शक्यं त्वयापि न हि वारयितुं करीश ॥ ३८॥ यावन्न पश्यति निकामममर्षणो मां भ्रूभङ्गभीषणकरालमुखः कृतान्तः । तावत्पतन्तु मयि ते भगवन् दयालोः उन्निद्रपद्मकलिका मधुराः कटाक्षाः ॥ ३९॥ स त्वं स एव रभसो भवदौपवाह्यः चक्रं तदेव शितधारमहं च पाल्यः । साधारणे त्वयि करीश समस्तजन्तोः मातङ्गमानुषभिदा न विशेषहेतुः ॥ ४०॥ निर्वापयिष्यति कदा करिशैलधामन् दुर्वारकर्मपरिपाकमहादवाग्निम् । प्राचीनदुःखमपि मे सुखयन्निव त्वत् पादारविन्दपरिचाररसप्रवाहः ॥ ४१॥ मुक्तः स्वयं सुकृतदुष्कृतश‍ृङ्खलाभ्यां अर्चिर्मुखैरधिकृतैरतिवाहिताध्वा । स्वच्छन्दकिङ्करतया भवतः करीश स्वाभाविकं प्रतिलभेय महाधिकारम् ॥ ४२॥ त्वं चेत्प्रसीदसि तवास्मि समीपतश्चेत् त्वय्यस्तभक्तिरनघा करिशैलनाथ । संसृज्यते यदि च दासजनस्त्वदीयः संसार एष भगवन्नपवर्ग एव ॥ ४३॥ आहूयमानमनपायविभूतिकामैः आलोकलुप्तजगदान्ध्यमनुस्मरेयम् । आलोहितांशुकमनाकुलहेतिजालं हैरण्यगर्भहयमेधहविर्भुजं त्वाम् ॥ ४४॥ भूयो भूयः पुलकनिचितैरङ्गकैरेधमानाः स्थूलस्थूलान् नयनमुकुलैर्बिभ्रतो बाष्पबिन्दून् । धन्याः केचिद्वरद भवतः संसदं भूषयन्तः स्वान्तैरन्तर्विनयनिभृतैः स्वादयन्ते पदं ते ॥ ४५॥ वरद तव विलोकयन्ति धन्याः मरकतभूधर मातृकायमाणम् । व्यपगतपरिकर्मवारवाणं मृगमदपङ्कविशेषनीलमङ्गम् ॥ ४६॥ अनिभृतपरिरम्भैराहितामिन्दिरायाः कनकवलयमुद्रां कण्ठदेशे दधानः । फणिपतिशयनीयादुत्थितस्त्वं प्रभाते वरद सततमन्तर्मानसं सन्निधेयाः ॥ ४७॥ तुरगविहगराजस्यन्दनान्दोलिकादि- ष्वधिकमधिकमन्यामात्मशोभां दधानम् । अनवधिकविभूतिं हस्तशैलेश्वरं त्वां अनुदिनमनिमेषैर्लोचनैर्निर्विशेयम् ॥ ४८॥ निरन्तरं निर्विशतस्त्वदीयमस्पृष्टचिन्तापदमाभिरूप्यम् । सत्यं शपे वारणशैलनाथ वैकुण्ठवासेऽपि न मेऽभिलाषः ॥ ४९॥ व्यातन्वाना तरुणतुलसीदामभिः स्वामभिख्यां मातङ्गाद्रौ मरकतरुचिं पुष्णती मानसे नः । भोगैश्वर्यप्रियसहचरैः कापि लक्ष्मीकटाक्षैः भूयः श्यामा भुवनजननी देवता सन्निधत्ताम् ॥ ५०॥ इति विहितमुदारं वेङ्कटेशेन भक्त्या श्रुतिसुभगमिदं यः स्तोत्रमङ्गीकरोति । करिशिखरि विटङ्कस्थायिनः कल्पवृक्षात् भवति फलमशेषं तस्य हस्तापचेयम् ॥ ५१॥ इति वेदान्तदेशिककृत वरदराजपञ्चाशत् समाप्ता ।