अक्षर आकार:

श्रीवराहसहस्रनामस्तोत्रम्

shrIvarAhasahasranAmastotram

श्रीवराहसहस्रनामस्तोत्रम्

शङ्कर उवाच यः पूजयेत्परात्मानं श्रीमुष्णेशं महाप्रभुम् । वराहस्य सहस्रेण नाम्नां पुष्पसहस्रकैः ॥ १॥ हतकण्टकसाम्राज्यं लभाते नात्र संशयः । पार्वत्युवाच किं तन्नामसहस्रं मे येन साम्राज्यमाप्नुयात् ॥ २॥ ब्रूहि शङ्कर तत्प्रीत्या वराहस्य महात्मनः । श्रुत्वा वराहमाहाम्यं न तृप्तिर्जायते क्वचित् ॥ ३॥ को नु तृप्येत तनुभृद्गुणसारविदां वर । शङ्कर उवाच श‍ृणु देवि प्रवक्ष्यामि पवित्रं मङ्गलं परम् ॥ ४॥ धन्यं यशस्यमायुष्यं गोप्याद्गोप्यतरं महत् । इदं पुरा न कस्यापि प्रोक्तं गोप्यं तवापि च ॥ ५॥ तथाऽपि च प्रवक्ष्यामि मदङ्गार्धशरीरिणि । सदाशिव ऋषिस्तस्य वराहो देवता स्मृतः ॥ ६॥ छन्दोऽनुष्टुप् विश्वनेता कीलकं च शराग्रभृत् । ह्रीं बीजमस्त्रं क्लीङ्कारः कवचं श्रीमिहोच्यते ॥ ७॥ विश्वात्मा परमो मन्त्रो मन्त्रराजमुदीरयेत् । हुङ्कारं हृदये न्यस्य वराहायेति मुर्धनि ॥ ८॥ भूर्भुवः स्वः शिखायां च नेत्रयोर्भूपतिं न्यसेत् । सर्वज्ञाय नमोऽस्त्रं च श्रीं ह्रीं क्लिं हुं च भूमपि ॥ ९॥ हां हीं हूं हैं हौं ह इति स्वीयाङ्गुष्ठद्वयादिकः । एवं स्वाङ्गकृतन्यासो मन्त्रमेतमुदीरयेत् ॥ १०॥ नमः श्वेतवराहाय नमस्ते परमात्मने । लक्ष्मीनाथाय नाथाय श्रीमुष्ण ब्रह्मणे नमः ॥ ११॥ ॐ श्रीवराहो भूवराहः परं ज्योतिः परात्परः । परमः पुरुषः सिद्धो विभुर्व्योमचरो बली ॥ १२॥ अद्वितीयः परं ब्रह्म सच्चिदानन्दविग्रहः । निर्द्वन्द्वो निरहङ्कारो निर्मायो निश्चयलोऽमलः ॥ १३॥ विशिखो विश्वरूपश्च विश्वदृग्विश्वभावनः । विश्वात्मा विश्वनेता च विमलो वीर्यवर्धनः ॥ १४॥ विश्वकर्मा विनोदी च विश्वेशो विश्वमङ्गलः । विश्वो वसुन्धरानाथो वसुरेता विरोधहृत् ॥ १५॥ हिरण्यगर्भो हर्यश्वो दैत्यारिर्हरिसेवितः । महातपा महादर्शो मनोज्ञो नैकसाधनः ॥ १६॥ सर्वात्मा सर्वविख्यातः सर्वसाक्षी सतां पतिः । सर्वगः सर्वभूतात्मा सर्वदोषविवर्जितः ॥ १७॥ सर्वभूतहितोऽसङ्गः सत्यः सत्यव्यवस्थितः । सत्यकर्मा सत्यपतिः सर्वसत्यप्रियो मतः ॥ १८॥ आधिव्याधिभियो हर्ता मृगाङ्गो नियमप्रियः । बलवीरस्तपः श्रेष्ठो गुणकर्ता गुणी बली ॥ १९॥ अनन्तः प्रथमो मन्त्रः सर्वभावविदव्ययः । सहस्रनामा चानन्तोऽनन्तरूपो रमेश्वरः ॥ २०॥ अगाधनिलयोऽपारो निराकारो निरायुधः । अमोघदृगमेयात्मा वेदवेद्यो विशां पतिः ॥ २१॥ विहृतिर्विभवो भव्यो भवहीनो भवान्तकः । भक्तप्रियः पवित्राङ्घ्रिः सुनासः पवनार्चितः ॥ २२॥ भजनीयगुणोऽदृश्यो भद्रो भद्रयशा हरिः । वेदान्तकृद्वेदवन्द्यो वेदाध्ययनतत्परः ॥ २३॥ वेदगोप्ता धर्मगोप्ता वेदमार्गप्रवर्तकः । वेदान्तवेद्यो वेदात्मा वेदातीतो जगत्प्रियः ॥ २४॥ जनार्दनो जनाध्यक्षो जगदीशो जनेश्वरः । सहस्रबाहुः सत्यात्मा हेमाङ्गो हेमभूषणः ॥ २५॥ हरिद(ता)श्वप्रियो नित्यो हरिः पूर्णो हलायुधः । अम्बुजाक्षोऽम्बुजाधारो निर्जरश्च निरङ्कुशः ॥ २६॥ निष्ठुरो नित्यसन्तोषो नित्यानन्दपदप्रदः । निर्जरेशो निरालम्बो निर्गुणोऽपि गुणान्वितः ॥ २७॥ महामायो महावीर्यो महातेजा मदोद्धतः । मनोऽभिमानी मायावी मानदो मानल(र)क्षणः ॥ २८॥ मन्दो मानी मनः कल्पो महाकल्पो महेश्वरः । मायापतिर्मानपतिर्मनसः पतिरीश्वरः ॥ २९॥ अक्षोभ्यो बाह्य आनन्दी अनिर्देश्योऽपराजितः । अजोऽनन्तोऽप्रमेयश्च सदानन्दो जनप्रियः ॥ ३०॥ अनन्तगुणगम्भीर उग्रकृत्परिवेष्टनः । जितेन्द्रियो जितक्रोधो जितामित्रो जयोऽजयः ॥ ३१॥ सर्वारिष्टार्तिहा सर्वहृदन्तरनिवासकः । अन्तरात्मा परात्मा च सर्वात्मा सर्वकारकः ॥ ३२॥ गुरुः कविः किटिः कान्तः कञ्जाक्षः खगवाहनः । सुशर्मा वरदः शार्ङ्गी सुदासाभीष्टदः प्रभुः ॥ ३३॥ झिल्लिकातनयः प्रेषी झिल्लिकामुक्तिदायकः । गुणजित्कथितः कालः क्रोडः कोलः श्रमापहः ॥ ३४॥ किटिः कृपाकरः स्वामी सर्वदृक्सर्वगोचरः । योगाचार्यो मतो वस्तु ब्रह्मण्यो वेदसत्तमः ॥३५॥ महालम्बोष्ठकश्चैव महादेवो मनोरमः । ऊर्ध्वबाहुरिभस्थूलः श्येनः सेनापतिः खनिः ॥ ३६॥ दीर्घायुः शङ्करः केशी सुतीर्थो मेघनिःस्वनः । अहोरात्रः सूक्तवाकः सुहृन्मान्यः सुवर्चलः ॥ ३७॥ सारभृत्सर्वसारश्च सर्वग्र(ग्रा)हः सदागतिः । सूर्यश्चन्द्रः कुजो ज्ञश्च देवमन्त्री भृगुः शनिः ॥ ३८॥ राहुः केतुर्ग्रहपतिर्यज्ञभृद्यज्ञसाधनः । सहस्रपात्सहस्राक्षः सोमकान्तः सुधाकरः ॥ ३९॥ यज्ञो यज्ञपतिर्याजी यज्ञाङ्गो यज्ञवाहनः । यज्ञान्तकृद्यज्ञगुह्यो यज्ञकृद्यज्ञसाधकः ॥ ४०॥ इडागर्भः स्रवत्कर्णो यज्ञकर्मफलप्रदः । गोपतिः श्रीपतिर्घोणस्त्रिकालज्ञः शुचिश्रवाः ॥ ४१॥ शिवः शिवतरः शूरः शिवप्रेष्ठः शिवार्चितः । शुद्धसत्त्वः सुरार्तिघ्नः क्षेत्रज्ञोऽक्षर आदिकृत् ॥ ४२॥ शङ्खी चक्री गदी खड्गी पद्मी चण्डपराक्रमः चण्डः कोलाहलः शार्ङ्गी स्वयम्भूरग्र्यभुग्विभुः ॥ ४३॥ सदाचारः सदारम्भो दुराचारनिवर्तकः । ज्ञानी ज्ञानप्रियोऽवज्ञो ज्ञानदोऽज्ञानदो यमी ॥ ४४॥ लयोदकविहारी च सामगानप्रियो गतिः । यज्ञमूर्तिस्त्रिलोकेशस्त्रिधामा कौस्तुभोज्ज्वलः ॥ ४६॥ श्रीवत्सलाञ्छनः श्रीमान्श्रीधरो भूधरोऽर्भकः । वरुणो वारुणो वृक्षो वृषभो वर्धनो वरः ॥ ४७॥ युगादिकृद्युगावर्तः पक्षो मास ऋतुर्युगः । वत्सरो वत्सलो वेदः शिपिविष्टः सनातनः ॥ ४८॥ इन्द्रत्राता भयत्राता क्षुद्रकृत्क्षुद्रनाशनः । महाहनुर्महाघोरो महादीप्तिर्महाव्रतः ॥ ४९॥ महापादो महाकालो महाकायो महाबलः । गम्भीरघोषो गम्भीरो गभीरो घुर्घुरस्वनः ॥ ५०॥ ओङ्कारगर्भो न्यग्रोधो वषट्कारो हुताशनः । भूयान्बहुमतो भूमा विश्वकर्मा विशाम्पतिः ॥ ५१॥ व्यवसायोऽघमर्षश्च विदितोऽभ्युत्थितो महः । बलबिद्बलवान्दण्डी वक्रदंष्ट्रो वशो वशी ॥ ५२॥ सिद्धः सिद्धिप्रदः साध्यः सिद्धसङ्कल्प ऊर्जवान् । धृतारिरसहायश्च सुमुखो बडवामुखः ॥ ५३॥ वसुर्वसुमनाः सामशरीरो वसुधाप्रदः । पीताम्बरी वासुदेवो वामनो ज्ञानपञ्जरः ॥ ५४॥ नित्यतृप्तो निराधारो निःसङ्गो निर्जितामरः । नित्यमुक्तो नित्यवन्द्यो मुक्तवन्द्यो मुरान्तकः ॥ ५५॥ बन्धको मोचको रुद्रो युद्धसेनाविमर्दनः । प्रसारणो निषेधात्मा भिक्षुर्भिक्षुप्रियो ऋजुः ॥ ५६॥ महाहंसो भिक्षुरूपी महाकन्दो महाशनः । मनोजवः कालकालः कालमृत्युः सभाजितः ॥ ५७॥ प्रसन्नो निर्विभावश्च भूविदारी दुरासदः । वसनो वासवो विश्ववासवो वासवप्रियः ॥ ५८॥ सिद्धयोगी सिद्धकामः सिद्धिकामः शुभार्थवित् । अजेयो विजयीन्द्रश्च विशेषज्ञो विभावसुः ॥ ५९॥ ईक्षामात्रजगत्स्रष्टा भ्रूभङ्गनियताखिलः । महाध्वगो दिगीशेशो मुनिमान्यो मुनीश्वरः ॥ ६०॥ महाकायो वज्रकायो वरदो वायुवाहनः । वदान्यो वज्रभेदी च मधुहृत्कलिदोषहा ॥ ६१॥ वागीश्वरो वाजसनो वानस्पत्यो मनोरमः । सुब्रह्मण्यो ब्रह्मधनो ब्रह्मण्यो ब्रह्मवर्धनः ॥ ६२॥ विष्टम्भी विश्वहस्तश्च विश्वाहो विश्वतोमुखः । अतुलो वसुवेगोऽर्कः सम्राट् साम्राज्यदायकः ॥ ६३॥ शक्तिप्रियः शक्तिरूपो मारशक्तिविभञ्जनः । स्वतन्त्रः सर्वतन्त्रज्ञो मीमांसितगुणाकरः ॥ ६४॥ अनिर्देश्यवपुः श्रीशो नित्यश्रीर्नित्यमङ्गलः । नित्योत्सवो निजानन्दो नित्यभेदी निराश्रयः ॥ ६५॥ अन्तश्चरो भवाधीशो ब्रह्मयोगी कलाप्रियः । गोब्राह्मणहिताचारो जगद्धितमहाव्रतः ॥ ६६॥ दुर्ध्येयश्च सदाध्येयो दुर्वासादिविबोधनः । दुरापो दुर्धियां गोप्यो दूराद्दूरः समीपगः ॥ ६७॥ वृषाकपिः कपिः कार्यः कारणः कारणक्रमः । ज्योतिषां मथनज्योतिः ज्योतिश्चक्रप्रवर्तकः ॥ ६८॥ प्रथमो मध्यमस्तारः सुतीक्ष्णोदर्ककार्यवान् । सुरूपश्च सदावेत्ता सुमुखः सुजनप्रियः ॥ ६९॥ महाव्याकरणाचार्यः शिक्षाकल्पप्रवर्तकः । स्वच्छश्छन्दोमयः स्वेच्छास्वाहितार्थविनाशनः ॥ ७०॥ साहसी सर्वहन्ता च सम्मतोऽनिन्दितोऽसकृत् । कामरूपः कामपालः सुतीर्थ्योऽथ क्षपाकरः ॥ ७१॥ ज्वाली विशालश्च परो वेदकृज्जनवर्धनः । वेद्यो वैद्यो महावेदी वीरहा विषमो महः ॥ ७२॥ ईतिभानुर्ग्रहश्चैव प्रग्रहो निग्रहोऽग्निहा । उत्सर्गः सन्निषेधश्च सुप्रतापः प्रतापधृत् ॥ ७३॥ सर्वायुधधरः शालः सुरूपः सप्रमोदनः । चतुष्किष्कुः सप्तपादः सिंहस्कन्धस्त्रिमेखलः ॥ ७४॥ सुधापानरतोऽरिघ्नः सुरमेड्यः सुलोचनः । तत्त्ववित्तत्त्वगोप्ता च परतत्त्वं प्रजागरः ॥ ७५॥ ईशान ईश्वरोऽध्यक्षे महामेरुरमोघदृक् । भेदप्रभेदवादी च स्वाद्वैतपरिनिष्ठितः ॥ ७६॥ भागहारी वंशकरो निमित्तस्थो निमित्तकृत् । नियन्ता नियमो यन्ता नन्दको नन्दिवर्धनः ॥ ७७॥ षड्विंशको महाविष्णुर्ब्रह्मज्ञो ब्रह्मतत्परः । वेदकृन्नाम चानन्तनामा शब्दातिगः कृपः ॥ ७८॥ दम्भो दम्भकरो दम्भवंशो वंशकरो वरः । अजनिर्जनिकर्ता च सुराध्यक्षे युगान्तकः ॥ ७९॥ दर्भरोमा बुधाध्यक्षे मानुकूलो मदोद्धतः । शन्तनुः शङ्करः सूक्ष्मः प्रत्ययश्चण्डशासनः ॥ ८०॥ वृत्तनासो महाग्रीवः कुम्बुग्रीवो महानृणः । वेदव्यासो देवभूतिरन्तरात्मा हृदालयः ॥ ८१॥ महाभागो महास्पर्शो महामात्रो महामनाः । महोदरो महोष्ठश्च महाजिह्वो महामुखः ॥ ८२॥ पुष्करस्तुम्बुरुः खेटी स्थावरः स्थितिमत्तरः । श्वासायुधः समर्थश्च वेदार्थः सुसमाहितः ॥ ८३॥ वेदशीर्षः प्रकाशात्मा प्रमोदः सामगायनः । अन्तर्भाव्यो भावितात्मा महीदासो दिवस्पतिः ॥ ८४॥ महासुदर्शनो विद्वानुपहारप्रियोऽच्युतः । अनलो द्विशफो गुप्तः शोभनो निरवग्रहः ॥ ८५॥ भाषाकरो महाभर्गः सर्वदेशविभागकृत् । कालकण्ठो महाकेशो लोमशः कालपूजितः ॥ ८६॥ आसेवनोऽवसानात्मा बुद्ध्यात्मा रक्तलोचनः । नारङ्गो नरकोद्धर्ता क्षेत्रपालो दुरिष्टहा ॥ ८७॥ हुङ्कारगर्भो दिग्वासाः ब्रह्मेन्द्राधिपतिर्बलः । वर्चस्वी ब्रह्मवदनः क्षत्रबाहुर्विदूरगः ॥ ८८॥ चतुर्थपाच्चतुष्पाच्च चतुर्वेदप्रवर्तकः । चातुर्होत्रकृदव्यक्तः सर्ववर्णविभागकृत् ॥ ८९॥ महापतिर्गृहपतिर्विद्याधीशो विशाम्पतिः । अक्षरोऽधोक्षजोऽधूर्तो रक्षिता राक्षसान्तकृत् ॥ ९०॥ रजःसत्त्वतमोहान्ता कूटस्थः प्रकृतेः परः । तीर्थकृत्तीर्थवासी च तीर्थरूपो ह्यपां पतिः ॥ ९१॥ पुण्यबीजः पुराणर्षिः पवित्रः परमोत्सवः । शुद्धिकृच्छुद्धिदः शुद्धः शुद्धसत्त्वनिरूपकः ॥ ९२॥ सुप्रसन्नः शुभार्होऽथ शुभदित्सुः शुभप्रियः । यज्ञभागभुजां मुख्यो यक्षगानप्रियो बली ॥ ९३॥ समोऽथ मोदो मोदात्मा मोददो मोक्षदस्मृतिः । परायणः प्रसादश्च लोकबन्धुर्बृहस्पतिः ॥ ९४॥ लीलावतारो जननविहीनो जन्मनाशनः । महाभीमो महागर्तो महेष्वासो महोदयः ॥ ९५॥ अर्जुनो भासुरः प्रख्यो विदोषो विष्टरश्रवाः । सहस्रपात्सभाग्यश्च पुण्यपाको दुरव्ययः ॥ ९६॥ कृत्यहीनो महावाग्मी महापापविनिग्रहः । तेजोऽपहारी बलवान् सर्वदाऽरिविदूषकः ॥ ९७॥ कविः कण्ठगतिः कोष्ठो मणिमुक्ताजलाप्लुतः । अप्रमेयगतिः कृष्णो हंसश्चैव शुचिप्रियः ॥ ९८॥ विजयीन्द्रः सुरेन्द्रश्च वागिन्द्रो वाक्पतिः प्रभुः । तिरश्चीनगतिः शुक्लः सारग्रीवो धराधरः ॥ ९९॥ प्रभातः सर्वतोभद्रो महाजन्तुर्महौषधिः । प्राणेशो वर्धकस्तीव्रप्रवेशः पर्वतोपमः ॥ १००॥ सुधासिक्तः सदस्यस्थो राजराट् दण्डकान्तकः । ऊर्ध्वकेशोऽजमीढश्च पिप्पलादो बहुश्रवाः ॥ १०१॥ गन्धर्वोऽभ्युदितः केशी वीरपेशो विशारदः । हिरण्यवासाः स्तब्धाक्षो ब्रह्मलालितशैशवः ॥ १०२॥ पद्मगर्भो जम्बुमाली सूर्यमण्डलमध्यगः । चन्द्रमण्डलमध्यस्थः करभागग्निसंश्रयः ॥ १०३॥ अजीगर्तः शाकलाग्र्यः सन्धानः सिंहविक्रमः । प्रभावात्मा जगत्कालः कालकालो बृहद्रथः ॥ १०४॥ साराङ्गो यतमान्यश्च सत्कृतिः शुचिमण्डलः । कुमारजिद्वनेचारी सप्तकन्यामनोरमः ॥ १०५॥ धूमकेतुर्महाकेतुः पक्षिकेतुः प्रजापतिः । ऊर्ध्वरेता बलोपायो भूतावर्तः सजङ्गमः ॥ १०६॥ रविर्वायुर्विधाता च सिद्धान्तो निश्चलोऽचलः । आस्थानकृदमेयात्माऽनुकूलश्चाधिको भुवः ॥ १०७॥ ह्रस्वः पितामहोऽनर्थः कालवीर्यो वृकोदरः । सहिष्णुः सहदेवश्च सर्वजिच्छात्रुतापनः ॥ १०८॥ पाञ्चरात्रपरो हंसी पञ्चभूतप्रवर्तकः । भूरिश्रवाः शिखण्डी च सुयज्ञः सत्यघोषणः ॥ १०९॥ प्रगाढः प्रवणो हारी प्रमाणं प्रणवो निधिः । महोपनिषदो वाक् च वेदनीडः किरीटधृत् ॥ ११०॥ भवरोगभिषग्भावो भावसाढ्यो भवातिगः । षड् धर्मवर्जितः केशी कार्यवित्कर्मगोचरः ॥ १११॥ यमविध्वंसनः पाशी यमिवर्गनिषेवितः । मतङ्गो मेचको मेध्यो मेधावी सर्वमेलकः ॥ ११२॥ मनोज्ञदृष्टिर्मारारिनिग्रहः कमलाकरः । नमद्गणेशो गोपीडः सन्तानः सन्ततिप्रदः ॥ ११३॥ बहुप्रदो बलाध्यक्षे भिन्नमर्यादभेदनः । अनिर्मुक्तश्चारुदेष्णः सत्याषाढः सुराधिपः ॥ ११४॥ आवेदनीयोऽवेद्यश्च तारणस्तरुणोऽरुणः । सर्वलक्षणलक्षण्यः सर्वलोकविलक्षणः ॥ ११५॥ सर्वदक्षः सुधाधीशः शरण्यः शान्तविग्रहः । रोहिणीशो वराहश्च व्यक्ताव्यक्तस्वरूपधृत् ॥ ११६॥ स्वर्गद्वारः सुखद्वारो मोक्षद्वारस्त्रिविष्टपः । अद्वितीयः केवलश्च कैवल्यपतिरर्हणः ॥ ११७॥ तालपक्षस्तालकरो यन्त्री तन्त्रविभेदनः । षड्रसः कुसुमास्त्रश्च सत्यमूलफलोदयः ॥ ११८॥ कला काष्ठा मुहूर्तश्च मणिबिम्बो जगद्धृणिः । अभयो रुद्रगीतश्च गुणजिद्गुणभेदनः ॥११९॥ देवासुरविनिर्माता देवासुरनियामकः । प्रारम्भश्च विरामश्च साम्राज्याधिपतिः प्रभुः ॥१२०॥ पण्डितो गहनारम्भः जीवनो जीवनप्रदः । रक्तदेवो देवमूलः वेदमूलो मनःप्रियः ॥१२१॥ विराचनः सुधाजातः स्वर्गाध्यक्षो महाकपिः । विराड्रूपः प्रजारूपः सर्वदेवशिखामणिः ॥१२२॥ भगवान् सुमुखः स्वर्गः मञ्जुकेशः सुतुन्दिलः । वनमाली गन्धमाली मुक्तामाल्यचलोपमः ॥१२३॥ मुक्तोऽसृप्यः सुहृद्भ्राता पिता माता परा गतिः । सत्वध्वनिः सदाबन्धुर्ब्रह्मरुद्राधिदैवतम् ॥१२४॥ समात्मा सर्वदः साङ्ख्यः सन्मार्गध्येयसत्पदः । ससङ्कल्पो विकल्पश्च कर्ता स्वादी तपोधनः ॥१२५॥ विरजा विरजानाथः स्वच्छश‍ृङ्गो दुरिष्टहा । घोणो बन्धुर्महाचेष्टः पुराणः पुष्करेक्षणः ॥१२६॥ अहिर्बुध्न्यो मुनिर्विष्णुर्धर्मयूपस्तमोहरः । अग्राह्यश्शाश्वतः कृष्णः प्रवरः पक्षिवाहनः ॥१२७॥ कपिलः खपथिस्थश्च प्रद्युम्नोऽमितभोजनः । सङ्कर्षणो महावायुस्त्रिकालज्ञस्त्रिविक्रमः ॥१२८॥ पूर्णप्रज्ञः सुधीर्हृष्टः प्रबुद्धः शमनः सदः । ब्रह्माण्डकोटिनिर्माता माधवो मधुसूदनः ॥१२९॥ शश्वदेकप्रकारश्च कोटिब्रह्माण्डनायकः । शश्वद्भक्तपराधीनः शश्वदानन्ददायकः ॥१३०॥ सदानन्दः सदाभासः सदा सर्वफलप्रदः । ऋतुमानृतुपर्णश्च विश्वनेता विभूत्तमः ॥१३१॥ रुक्माङ्गदप्रियोऽव्यङ्गो महालिङ्गो महाकपिः । संस्थानस्थानदः स्रष्टा जाह्नवीवाहधृक्प्रभुः ॥१३२॥ माण्डुकेष्टप्रदाता च महाधन्वन्तरिः क्षितिः । सभापतिसेसिद्धमूलश्चरकादिर्महापथः ॥१३३॥ आसन्नमृत्युहन्ता च विश्वास्यः प्राणनायकः । बुधो बुधेज्यो धर्मेज्यो वैकुण्ठपतिरिष्टदः ॥१३४॥ फलश्रुतिः - इति श्वेतवराहस्य प्रोक्तं हे गिरिकन्यके । समस्तभाग्यदं पुण्यं भूपतित्वप्रदायकम् ॥१३५॥ महापातककोटिघ्नं राजसूयफलप्रदम् । य इदं प्रातरुत्थाय दिव्यं नामसहस्रकम् ॥१३६॥ पठते नियतो भूत्वा महापापैः प्रमुच्यते । सहस्रनामभिर्दिव्यैः प्रत्यहं तुलसीदलैः ॥१३७॥ पूजयेद्यो वराहं तु श्रद्धया निष्ठयान्वितः । एवं सहस्रनामभिः पुष्पैर्वाथसुगन्धिभिः ॥१३८॥ अभिजातकुले जातो राजा भवति निश्चितम् । एवं नामसहस्रेण वराहस्य महात्मनः ॥१३९॥ न दारिद्र्यमवाप्नोति न याति नरकं ध्रुवम् । त्रिकालमेककालं वा पठन् नामसहस्रकम् ॥ १४०॥ मासमेकं जपेन्मर्त्यो भविष्यति जितेन्द्रियः । महतीं श्रियमायुष्यं विद्यां चैवाधिगच्छति ॥ १४१॥ यो वा श्वेतवराहस्य दिव्यैर्नामसहस्रकैः । प्रवर्तयेन्नित्यपूजां दत्वा निर्वाहमुत्तमम् ॥ १४२॥ भवेज्जन्मसहस्रैस्तु साम्राज्याधिपतिर्ध्रुवम् । रात्रौ श्वेतवराहस्य सन्निधौ य इदं पठेत् ॥ १४३॥ क्षयापस्मारकुष्ठाद्यैर्महारोगैस्तथाऽपरैः । मासादेव विनिर्मुक्तः स जीवेच्छरदां शतम् ॥ १४४॥ सर्वेषु पुण्यकालेषु पठन्नामसहस्रकम् । सर्वपापविनिर्मुक्तो लभते शाश्वतं पदम् ॥ १४५॥ सहस्रनामपठनाद्वराहस्य महात्मनः । न ग्रहोपद्रवं याति याति शत्रुक्षयं तथा ॥ १४६॥ राजा च दासतां याति सर्वे यान्ति च मित्रताम् । श्रियश्च स्थिरतां यान्ति यान्ति सर्वेऽपि सौहृदम् ॥ १४७॥ राजदस्युग्रहादिभ्यो व्याध्याधिभ्यश्च किञ्चन । न भयं जायते क्वापि वृद्धिस्तस्य दिने दिने ॥ १४८॥ विप्रस्तु विद्यामाप्नोति क्षत्रियो विजयी भवेत् । वार्धुष्यविभवं याति वैश्यः शूद्रः सुखं व्रजेत् ॥ १४९॥ सकामः काममाप्नोति निष्कामो मोक्षमाप्नुयात् । महाराक्षसवेतालभूतप्रेतपिशाचकाः ॥ १५०॥ रोगाः सर्पविषाद्याश्च नश्यन्त्यस्य प्रभावतः । य इदं श‍ृणुयान्नित्यं यश्चापि परिकीर्तयेत् । नामङ्गलमवाप्नोति सोऽमुत्रेह च मानवः ॥ १५१॥ नमः श्वेतवराहाय नमस्ते परमात्मने । लक्ष्मीनाथाय नाथाय श्रीमुष्णब्रह्मणे नमः ॥ १५२॥ यः पठेच्छृणुयान्नित्यं इमं मन्त्रं नगात्मजे । स पापपाशनिर्मुक्तः प्रयाति परमां गतिम् ॥ १५३॥ इति श्रीवराहसहस्रनामस्तोत्रं सम्पूर्णम् ।