अक्षर आकार:

श्रीवराहसहस्रनामावलिः

shrIvarAhasahasranAmAvaliH

श्रीवराहसहस्रनामावलिः

ॐ श्रीवराहाय नमः । भूवराहाय । परस्मै ज्योतिषे । परात्पराय । परमाय पुरुषाय । सिद्धाय । विभवे । व्योमचराय । बलिने । अद्वितीयाय । परस्मै ब्रह्मणे । सच्चिदानन्दविग्रहाय । निर्द्वन्द्वाय । निरहङ्काराय । निर्मायाय । निश्चलाय । अमलाय । विशिखाय । विश्वरूपाय । विश्वदृशे नमः ॥ २० ॐ विश्वभावनाय नमः । विश्वात्मने । विश्वनेत्रे । विमलाय । वीर्यवर्धनाय । विश्वकर्मणे । विनोदिने । विश्वेशाय । विश्वमङ्गलाय । विश्वाय । वसुन्धरानाथाय । वसुरेतसे । विरोधहृदे । हिरण्यगर्भाय । हर्यश्वाय । दैत्यारये । हरसेविताय । महादर्शाय । मनोज्ञाय नमः ॥ ४० ॐ नैकसाधनाय नमः । सर्वात्मने । सर्वविख्याताय । सर्वसाक्षिणे । सतां पतये । सर्वगाय । सर्वभूतात्मने । सर्वदोषविवर्जिताय । सर्वभूतहिताय । असङ्गाय । सत्याय । सत्यव्यवस्थिताय । सत्यकर्मणे । सत्यपतये । सर्वसत्यप्रियाय । मताय । आधिव्याधिभियो हन्त्रे । मृगाङ्गाय । नियमप्रियाय । बलवीराय नमः ॥ ६० ॐ तपःश्रेष्ठाय नमः । गुणकर्त्रे । गुणाय । बलिने । अनन्ताय । प्रथमाय । मन्त्राय । सर्वभावविदे । अव्ययाय । सहस्रनाम्ने । अनन्ताय । अनन्तरूपाय । रमेश्वराय । अगाधनिलयाय । अपाराय । निराकाराय । निरायुधाय । अमोघदृशे । अमेयात्मने । वेदवेद्याय नमः ॥ ८० ॐ विशाम्पतये नमः । विहुतये । विभवाय । भव्याय । भवहीनाय । भवान्तकाय । भक्तिप्रियाय । पवित्राङ्घ्रये । सुनासाय । पवनार्चिताय । भजनीयगुणाय । अदृश्याय । भद्राय । भद्रयशसे । हरये । वेदान्तकृते । वेदवन्द्याय । वेदाध्ययनतत्पराय । वेदगोप्त्रे । धर्मगोप्त्रे नमः ॥ १०० ॐ वेदमार्गप्रवर्तकाय नमः । वेदान्तवेद्याय । वेदात्मने । वेदातीताय । जगत्प्रियाय । जनार्दनाय । जनाध्यक्षाय । जगदीशाय । जनेश्वराय । सहस्रबाहवे । सत्यात्मने । हेमाङ्गाय । हेमभूषणाय । हरिद(ता)श्वप्रियाय । नित्याय । हरये । पूर्णाय । हलायुधाय । अम्बुजाक्षाय । अम्बुजाधाराय नमः ॥ १२० ॐ निर्जराय नमः । निरङ्कुशाय । निष्ठुराय । नित्यसन्तोषाय । नित्यानन्दपदप्रदाय । निर्जरेशाय । निरालम्बाय । निर्गुणाय । गुणान्विताय । महामायाय । महावीर्याय । महातेजसे । मदोद्धताय । मनोऽभिमानिने । मायाविने । मानदाय । मानल(र)क्षणाय । मन्दाय । मानिने । मनःकल्पाय नमः ॥ १४० ॐ महाकल्पाय नमः । महेश्वराय । मायापतये । मानपतये मनसःपतये । ईश्वराय । अक्षोभ्याय । बाह्याय । आनन्दिने । अनिर्देश्याय । अपराजिताय । अजाय । अनन्ताय । अप्रमेयाय । सदानन्दाय । जनप्रियाय । अनन्तगुणगम्भीराय । उग्रकृते । परिवेष्टनाय । जितेन्दिरयाय नमः ॥ १६० ॐ जितक्रोधाय नमः । जितामित्राय । जयाय । अजयाय । सर्वारिष्टार्तिघ्ने । सर्वहृदन्तरनिवासकाय । अन्तरात्मने । परात्मने । सर्वात्मने । सर्वकारकाय । गुरवे । कवये । किटये । कान्ताय । कञ्जाक्षाय खगवाहनाय । सुशर्मणे । वरदाय । शार्ङ्गिणे । सुदासाभिष्टदाय नमः ॥ १८० ॐ प्रभवे नमः । झिल्लिकातनयाय । प्रेषिणे । झिल्लिकामुक्तिदायकाय । गुणजिते । कथिताय । कालाय । कोलाय । श्रमापहाय । किटये । कृपापराय । स्वामिने । सर्वदृशे । सर्वगोचराय । योगाचार्याय । मताय । वस्तुने । ब्रह्मण्याय । वेदसत्तमाय नमः ॥ २०० ॐ महालम्बोष्ठकाय नमः । महादेवाय । मनोरमाय । ऊर्ध्वबाहवे । इभस्थूलाय । श्येनाय । सेनापतये । खनये । दीर्घायुषे । शङ्कराय । केशिने । सुतीर्थाय । मेघनिःस्वनाय । अहोरात्राय । सूक्तवाकाय । सुहृन्मान्याय । सुवर्चलाय । सारभृते । सर्वसाराय । सर्वग्र(ग्रा)हाय नमः ॥ २२० ॐ सदागतये नमः । सूर्याय । चन्द्राय । कुजाय । ज्ञाय । देवमन्त्रिणे । भृगवे । शनये । राहवे । केतवे । ग्रहपतये । यज्ञभृते । यज्ञसाधनाय । सहस्रपदे । सहस्राक्षाय । सोमकान्ताय । सुधाकराय । यज्ञाय । यज्ञपतये । याजिने नमः ॥ २४० ॐ यज्ञाङ्गाय नमः । यज्ञवाहनाय । यज्ञान्तकृते । यज्ञगुह्याय । यज्ञकृते । यज्ञसाधकाय । इडागर्भाय । स्रवत्कर्णाय । यज्ञकर्मफलप्रदाय । गोपतये । श्रीपतये । घोणाय । त्रिकालज्ञाय । शुचिश्रवसे । शिवाय । शिवतराय । शूराय । शिवप्रेष्ठाय । शिवार्चिताय । शुद्धसत्त्वाय नमः ॥ २६० ॐ सुरार्तिघ्नाय नमः । क्षेत्रज्ञाय । अक्षराय । आदिकृते । शङ्खिने । चक्रिणे । गदिने । खड्गिने । पद्मिने । चण्डपराक्रमाय । चण्डाय । कोलाहलाय । शार्ङ्गिणे । स्वयम्भुवे । अग्र्यभुजे । विभवे । सदाचाराय । सदारम्भाय । दुराचारनिवर्तकाय । ज्ञानिने नमः ॥ २८० ॐ ज्ञानप्रियाय नमः । अवज्ञाय । ज्ञानदाय । अज्ञानदाय । यमिने । लयोदकविहारिणे । सामगानप्रियाय । गतये । यज्ञमूर्तये । ब्रह्मचारिणे । यज्वने । यज्ञप्रियाय । हरये । सूत्रकृते । लोलसूत्राय । चतुर्मूर्तये । चतुर्भुजाय । त्रयीमूर्तये । त्रिलोकेशाय । त्रिधाम्ने नमः ॥ ३०० ॐ कौस्तुभोज्ज्वलाय नमः । श्रीवत्सलाञ्छनाय । श्रीमते । श्रीधराय । भूधराय । अर्भकाय । वरुणाय । वृक्षाय । वृषभाय । वर्धनाय । वराय । युगादिकृते । युगावर्ताय । पक्षाय । मासाय । ऋतवे । युगाय । वत्सराय । वत्सलाय नमः ॥ ३२० ॐ वेदाय नमः । शिपिविष्टाय । सनातनाय । इन्द्रत्रात्रे । भयत्रात्रे । क्षुद्रकृते । क्षुद्रनाशनाय । महाहनवे । महाघोराय । महादीप्तये । महाव्रताय । महापादाय । महाकालाय । महाकायाय । महाबलाय । गम्भीरघोषाय । गम्भीराय । गभीराय । घुर्घुरस्वनाय । ओङ्कारगर्भाय नमः ॥ ३४० ओन्न्यग्रोधाय नमः । वषट्काराय । हुताशनाय । भूयसे । बहुमताय । भूम्ने । विश्वकर्मणे । विशाम्पतये । व्यवसायाय । अघमर्षाय । विदिताय । अभ्युत्थिताय । महसे । बलभिदे । बलवते । दण्डिने । वक्रदंष्ट्राय । वशाय । वशिने । सिद्धाय नमः ॥ ३६० ॐ सिद्धिप्रदाय नमः । साध्याय । सिद्धसङ्कल्पाय । ऊर्जवते । धृतारये । असहायाय । सुमुखाय । बडवामुखाय । वसवे । वसुमनसे । सामशरीराय । वसुधाप्रदाय । पीताम्बराय । वासुदेवाय । वामनाय । ज्ञानपञ्जराय । नित्यतृप्ताय । निराधाराय । निस्सङ्गाय । निर्जितामराय नमः ॥ ३८० ॐ नित्यमुक्ताय नमः । नित्यवन्द्याय । मुक्तवन्द्याय । मुरान्तकाय । बन्धकाय । मोचकाय । रुद्राय । युद्धसेनाविमर्दनाय । प्रसारणाय । निषेधात्मने । भिक्षवे । भिक्षुप्रियाय । ऋजवे । महाहंसाय । भिक्षुरूपिणे । महाकन्दाय । महाशनाय । मनोजवाय । कालकालाय । कालमृत्यवे नमः ॥ ४०० ॐ सभाजिताय नमः । प्रसन्नाय । निर्विभावाय । भूविदारिणे । दुरासदाय । वसनाय । वासवाय । विश्ववासवाय । वासवप्रियाय । सिद्धयोगिने । सिद्धकामाय । सिद्धिकामाय । शुभार्थविदे । अजेयाय । विजयिने । इन्द्राय । विशेषज्ञाय । विभावसवे । ईक्षामात्रजगत्स्रष्ट्रे । भ्रूभङ्गनियताखिलाय नमः ॥ ४२० ॐ महाध्वगाय नमः । दिगीशेशाय । मुनिमान्याय । मुनीश्वराय । महाकायाय । वज्रकायाय । वरदाय । वायुवाहनाय । वदान्याय । वज्रभेदिने । मधुहृते । कलिदोषघ्ने । वागीश्वराय । वाजसनाय । वानस्पत्याय । मनोरमाय । सुब्रह्मण्याय । ब्रह्मधनाय । ब्रह्मण्याय । ब्रह्मवर्धनाय नमः ॥ ४४० ॐ विष्टम्भिने नमः । विश्वहस्ताय । विश्वहाय । विश्वतोमुखाय । अतुलाय । वसुवेगाय । अर्काय । सम्राजे । साम्राज्यदायकाय । शक्तिप्रियाय । शक्तिरूपाय । मारशक्तिविभञ्जनाय । स्वतन्त्राय । सर्वतन्त्रज्ञाय । मीमांसितगुणाकराय । अनिर्देश्यवपुषे । श्रीशाय । नित्यश्रिये । नित्यमङ्गलाय । नित्योत्सवाय नमः ॥ ४६० ॐ निजानन्दाय नमः । नित्यभेदिने । निराश्रयाय । अन्तश्चराय । भवाधीशाय । ब्रह्मयोगिने । कलाप्रियाय । गोब्राह्मणहिताचाराय । जगद्धितमहाव्रताय । दुर्ध्येयाय । सदाध्येयाय । दुर्वासादिविबोधनाय । दुर्धियां दुरापाय । गोप्याय । दूराद्दूराय । समीपगाय । वृषाकपये । कपये । कार्याय । कारणाय नमः ॥ ४८० ॐ कारणक्रमाय नमः । ज्योतिषां मथनज्योतिषे । ज्योतिश्चक्रप्रवर्तकाय । प्रथमाय । मध्यमाय । ताराय । सुतीक्ष्णोदर्ककायवते । सुरूपाय । सदावेत्त्रे । सुमुखाय । सुजनप्रियाय । महाव्याकरणाचार्याय । शिक्षाकल्पप्रवर्तकाय । स्वच्छाय । छन्दोमयाय । स्वेच्छास्वाहितार्थविनाशनाय । साहसिने । सर्वहन्त्रे । सम्मताय । असकृदनिन्दिताय नमः ॥ ५०० ॐ कामरूपाय नमः । कामपालाय । सुतीर्थ्याय । क्षपाकराय । ज्वालिने । विशालाय । पराय । वेदकृज्जनवर्धनाय । वेद्याय । वैद्याय । महावेदिने । वीरघ्ने । विषमाय । महाय । ईतिभानवे । ग्रहाय । प्रग्रहाय । निग्रहाय । अग्निघ्ने । उत्सर्गाय नमः ॥ ५२० ॐ सन्निषेधाय नमः । सुप्रतापाय । प्रतापधृते । सर्वायुधधराय । शालाय । सुरूपाय । सप्रमोदनाय । चतुष्किष्कवे । सप्तपादाय । सिंहस्कन्धाय । त्रिमेखलाय । सुधापानरताय । अरिघ्नाय । सुरमेड्याय । सुलोचनाय । तत्त्वविदे । तत्त्वगोप्त्रे । परतत्त्वाय । प्रजागराय । ईशानाय नमः ॥ ५४० ॐ ईश्वराय नमः । अध्यक्षाय । महामेरवे । अमोघदृशे । भेदप्रभेदवादिने । स्वाद्वैतपरिनिष्ठिताय । भागहारिणे । वंशकराय । निमित्तस्थाय । निमित्तकृते । नियन्त्रे । नियमाय । यन्त्रे । नन्दकाय । नन्दिवर्धनाय । षड्विंशकाय । महाविष्णवे । ब्रह्मज्ञाय । ब्रह्मतत्पराय । वेदकृते नमः ॥ ५६० ॐ नाम्ने नमः । अनन्तनाम्ने । शब्दातिगाय । कृपाय । दम्भाय । दम्भकराय । दम्भवंशाय । वंशकराय । वराय । अजनये । जनिकर्त्रे । सुराध्यक्षाय । युगान्तकाय । दर्भरोम्णे । बुधाध्यक्षाय । मानुकूलाय । मदोद्धताय । शान्तनवे । शङ्कराय । सूक्ष्माय नमः ॥ ५८० ॐ प्रत्ययाय नमः । चण्डशासनाय । वृत्तनासाय । महाग्रीवाय । कम्बुग्रीवाय । महानृणाय । वेदव्यासाय । देवभूतये । अन्तरात्मने । हृदालयाय । महभागाय । महास्पर्शाय । महामात्राय । महामनसे । महोदराय । महोष्ठाय । महाजिह्वाय । महामुखाय । पुष्कराय । तुम्बुरवे नमः ॥ ६०० ॐ खेटिने नमः । स्थावराय । स्थितिमत्तराय । श्वासायुधाय । समर्थाय । वेदार्थाय । सुसमाहिताय । वेदशीर्षाय । प्रकाशात्मने । प्रमोदाय । सामगायनाय । अन्तर्भाव्याय । भावितात्मने । महीदासाय । दिवस्पतये । महासुदर्शनाय । विदुषे । उपहारप्रियाय । अच्युताय । अनलाय नमः ॥ ६२० ॐ द्विशफाय नमः । गुप्ताय । शोभनाय । निरवग्रहाय । भाषाकराय । महाभर्गाय । सर्वदेशविभागकृते । कालकण्ठाय । महाकेशाय । लोमशाय । कालपूजिताय । आसेवनाय । अवसानात्मने । बुद्ध्यात्मने । रक्तलोचनाय । नारङ्गाय । नरकोद्धर्त्रे । क्षेत्रपालाय । दुरिष्टघ्ने । हुङ्कारगर्भाय नमः ॥ ६४० ओं दिग्वाससे नमः । ब्रह्मेन्द्राधिपतये । बलाय । वर्चस्विने । ब्रह्मवदनाय । क्षत्रबाहवे । विदूरगाय । चतुर्थपदे । चतुष्पदे । चतुर्वेदप्रवर्तकाय । चातुर्होत्रकृते । अव्यक्ताय । सर्ववर्णविभागकृते । महापतये । गृहपतये । विद्याधीशाय । विशाम्पतये । अक्षराय । अधोक्षजाय । अधूर्ताय नमः ॥ ६६० ॐ रक्षित्रे नमः । राक्षसान्तकृते । रजस्सत्त्वतमोहन्त्रे । कूटस्थाय । प्रकृतेः पराय । तीर्थकृते । तीर्थवासिने । तीर्थरूपाय । अपाम्पतये । पुण्यबीजाय । पुराणर्षये । पवित्राय । परमोत्सवाय । शुद्धिकृते । शुद्धिदाय । शुद्धाय । शुद्धसत्त्वनिरूपकाय । सुप्रसन्नाय । शुभार्हाया । शुभदित्सवे नमः ॥ ६८० ॐ शुभप्रियाय नमः । यज्ञभागभुजां मुख्याय । यक्षगानप्रियाय । बलिने । समाय । मोदाय । मोदात्मने । मोददाय । मोक्षदस्मृतये । परायणाय । प्रसादाय । लोकबन्धवे । बृहस्पतये । लीलावताराय । जननविहीनाय । जन्मनाशनाय । महाभीमाय । महागर्ताय । महेष्वासाय । महोदयाय नमः ॥ ७०० ॐ अर्जुनाय नमः । भासुराय । प्रख्याय । विदोषाय । विष्टरश्रवसे । सहस्रपदे । सभाग्याय । पुण्यपाकाय । दुरव्ययाय । कृत्यहीनाय । महावाग्मिने । महापापविनिग्रहाय । तेजोऽपहारिणे । बलवते । सर्वदाऽरिविदूषकाय । कवये । कण्ठगतये । कोष्ठाय । मणिमुक्ताजलाप्लुताय । अप्रमेयगतये नमः ॥ ७२० ॐ कृष्णाय नमः । हंसाय । शुचिप्रियाय । विजयिने । इन्द्राय । सुरेन्द्राय । वागिन्द्राय । वाक्पतये । प्रभवे । तिरश्चीनगतये । शुक्लाय । सारग्रीवाय । धराधराय । प्रभाताय । सर्वतोभद्राय । महाजन्तवे । महौषधये । प्राणेशाय । वर्धकाय । तीव्रप्रवेशाय नमः ॥ ७४० ॐ पर्वतोपमाय नमः । सुधासिक्ताय । सदस्यस्थाय । राजराजे । दण्डकान्तकाय । ऊर्ध्वकेशाय । अजमीढाय । पिप्पलादाय । बहुश्रवसे । गन्धर्वाय । अभ्युदिताय । केशिने । वीरपेशाय । विशारदाय । हिरण्यवाससे । स्तब्धाक्षाय । ब्रह्मलालितशैशवाय । पद्मगर्भाय । जम्बुमलिने । सूर्यमण्डलमध्यगाय नमः ॥ ७६० ॐ चन्द्रमण्डलमध्यस्थाय नमः । करभाजे । अग्निसंश्रयाय । अजीगर्ताय । शाकलाग्रयाय । सन्धानाय । सिंहविक्रमाय । प्रभावात्मने । जगत्कालाय । कालकालाय । बृहद्रथाय । साराङ्गाय । यतमान्याय । सत्कृतये । शुचिमण्डलाय । कुमारजिते । वनेचारिणे । सप्तकन्यामनोरमाय । धूमकेतवे । महाकेतवे नमः ॥ ७८० ॐ पक्षिकेतवे नमः । प्रजापतये । ऊर्ध्वरेतसे । बलोपायाय । भूतावर्ताय । सजङ्गमाय । रवये । वायवे । विधात्रे । सिद्धान्ताय । निश्चलाय । अचलाय । आस्थानकृते । अमेयात्मने । अनुकूलाय । भुवोऽधिकाय । ह्रस्वाय । पितामहाय । अनर्थाय । कालवीर्याय नमः ॥ ८०० ॐ वृकोदराय नमः । सहिष्णवे । सहदेवाय । सर्वजिते । शत्रुतापनाय । पाञ्चरात्रपराय । हंसिने । पञ्चभूतप्रवर्तकाय । भूरिश्रवसे । शिखण्डिने । सुयज्ञाय । सत्यघोषणाय । प्रगाढाय । प्रवणाय । हारिणे । प्रमाणाय । प्रणवाय । निधये । महोपनिषदो वाचे । वेदनीडाय नमः ॥ ८२० ॐ किरीटधृते नमः । भवरोगभिषजे । भावाय । भावसाध्याय । भवातिगाय । षड्धर्मवर्जिताय । केशिने । कार्यविदे । कर्मगोचराय । यमविध्वंसनाय । पाशिने । यमिवर्गनिषेविताय । मतङ्गाय । मेचकाय । मेध्याय । मेधाविने । सर्वमेलकाय । मनोज्ञदृष्टये । मारारिनिग्रहाय । कमलाकराय नमः ॥ ८४० ॐ नमद्गणेशाय नमः । गोपीडाय । सन्तानाय । सन्ततिप्रदाय । बहुप्रदाय । बलाध्यक्षाय । भिन्नमर्यादभेदनाय । अनिर्मुक्ताय । चारुदेष्णाय । सत्याषाढाय । सुराधिपाय । आवेदनीयाय । अवेद्याय । तारणाय । तरुणाय । अरुणाय । सर्वलक्षणलक्षण्याय । सर्वलोकविलक्षणाय । सर्वाक्षाय । सुधाधीशाय नमः ॥ ८६० ॐ शरण्याय नमः । शान्तविग्रहाय । रोहिणीशाय । वराहाय । व्यक्ताव्यक्तस्वरूपधृते । स्वर्गद्वाराय । सुखद्वाराय । मोक्षद्वाराय । त्रिविष्टपाय । अद्वितीयाय । केवलाय । कैवल्यपतये । अर्हणाय । तालपक्षाय । तालकराय । यन्तिरणे । तन्त्रविभेदनाय । षड्रसाय । कुसुमास्त्राय । सत्यमूलफलोदयाय नमः ॥ ८८० ॐ कलायै नमः । काष्ठायै । मुहूर्ताय । मणिबिम्बाय । जगद्धृणये । अभयाय । रुद्रगीताय । गुणजिते । गुणभेदनाय । गुणभेदनाय । देवासुरविनिर्मात्रे । देवासुरनियामकाय । प्रारम्भाय । विरामाय । साम्राज्याधिपतये । प्रभवे । पण्डिताय । गहनारम्भाय । जीवनाय । जीवनप्रदाय । रक्तदेवाय नमः ॥ ९०० ॐ देवमूलाय नमः । वेदमूलाय । मनःप्रियाय । विरोचनाय । सुधाजाताय । स्वर्गाध्यक्षाय । महाकपये । विराड्रूपाय । प्रजारूपाय । सर्वदेवशिखामणये । भगवते । सुमुखाय । स्वर्गाय । मञ्जुकेशाय । सुतुन्दिलाय । वनमालिने । गन्धमालिने । मुक्तामालिने । अचलोपमाय । मुक्ताय नमः ॥ ९२० ॐ असृप्याय नमः । सुहृदे । भ्रात्रे । पित्रे । मात्रे । परायै गत्यै । सत्त्वध्वनये । सदाबन्धवे । ब्रह्मरुद्राधिदैवताय । समात्मने । सर्वदाय । साङ्ख्याय । सन्मार्गध्येयसत्पदाय । ससङ्कल्पाय । विकल्पाय । कर्त्रे । स्वादिने । तपोधनाय । विरजसे । विरजानाथाय नमः ॥ ९४० ॐ स्वच्छश‍ृङ्गाय नमः । दुरिष्टघ्ने । घोणाय । बन्धवे । महाचेष्टाय । पुराणाय । पुष्करेक्षणाय । अहये बुध्न्याय । मुनये । विष्णवे । धर्मयूपाय । तमोहराय । अग्राह्याय । शाश्वताय । कृष्णाय । प्रवराय । पक्षिवाहनाय । कपिलाय । खपथिस्थाय । प्रद्युम्नाय नमः ॥ ९६० ॐ अमितभोजनाय नमः । सङ्कर्षणाय । महावायवे । त्रिकालज्ञाय । त्रिविक्रमाय । पूर्णप्रज्ञाय । सुधिये । हृष्टाय । प्रबुद्धाय । शमनाय । सदसे । ब्रह्माण्डकोटिनिर्मात्रे । माधवाय । मधुसूदनाय । शश्वदेकप्रकाराय । कोटिब्रह्माण्डनायकाय । शश्वद्भक्तपराधीनाय । शश्वदानन्ददायकाय । सदानन्दाय । सदाभासाय नमः ॥ ९८० ॐ सदा सर्वफलप्रदाय नमः । ऋतुमते । ऋतुपर्णाय । विश्वनेत्रे । विभूत्तमाय । रुक्माङ्गदप्रियाय । अव्यङ्गाय । महालिङ्गाय । महाकपये । संस्थानस्थानदाय । स्रष्ट्रे । जाह्नवीवाहधृशे । प्रभवे । माण्डुकेष्टप्रदात्रे । महाधन्वन्तरये । क्षितये । सभापतये । सिद्धमूलाय । चरकादये । महापथाय नमः ॥ १००० ॐ आसन्नमृत्युहन्त्रे नमः । विश्वास्याय । प्राणनायकाय । बुधाय । बुधेज्याय । धर्मेज्याय । वैकुण्ठपतये । इष्टदाय नमः ॥ १००८ इति श्रीवराहसहस्रनामावलिः समाप्ता ।