अक्षर आकार:

श्रीवराहकवचम्

Shri Varaha Kavacham

श्रीवराहकवचम्

आद्यं रङ्गमिति प्रोक्तं विमानं रङ्ग संज्ञितम् । श्रीमुष्णं वेङ्कटाद्रिं च साळग्रामं च नैमिशम् ॥ तोयाद्रिं पुष्करं चैव नरनारायणाश्रमम् । अष्टा मे मूर्तयः सन्ति स्वयं व्यक्ता महीतले ॥ श्री सूतः - श्रीरुद्रमुख निर्णीत मुरारि गुणसत्कथा । सन्तुष्टा पार्वती प्राह शङ्करं लोकशङ्करम् ॥ १॥ श्री पार्वती उवाच - श्रीमुष्णेशस्य माहात्म्यं वराहस्य महात्मनः । श्रुत्वा तृप्तिर्न मे जाता मनः कौतूहलायते । श्रोतुं तद्देव माहात्म्यं तस्मात्वर्णय मे पुनः ॥ २॥ श्री शङ्कर उवाच - श‍ृणु देवि प्रवक्ष्यामि श्रीमुष्णेशस्य वैभवम् । यस्य श्रवणमात्रेण महापापैः प्रमुच्यते । सर्वेषामेव तीर्थानां तीर्थ राजोऽभिधीयते ॥ ३॥ नित्य पुष्करिणी नाम्नी श्रीमुष्णे या च वर्तते । जाता श्रमापहा पुण्या वराह श्रम वारिणा ॥ ४॥ विष्णोरङ्गुष्ठ संस्पर्शात्पुण्यदा खलु जाह्नवी । विष्णोः सर्वाङ्गसम्भूता नित्यपुष्करिणी शुभा ॥ ५॥ महानदी सहस्त्रेण नित्यदा सङ्गता शुभा । सकृत्स्नात्वा विमुक्ताघः सद्यो याति हरेः पदम् ॥ ६॥ तस्या आग्नेय भागे तु अश्वत्थच्छाययोदके । स्नानं कृत्वा पिप्पलस्य कृत्वा चापि प्रदक्षिणम् ॥ ७॥ दृष्ट्वा श्वेतवराहं च मासमेकं नयेद्यदि । कालमृत्युं विनिर्जित्य श्रिया परमया युतः ॥ ८॥ आधिव्याधि विनिर्मुक्तो ग्रहपीडाविवर्जितः । भुक्त्वा भोगाननेकांश्च मोक्षमन्ते व्रजेत्ध्रुवम् ॥ ९॥ अश्वत्थमूलेऽर्कवारे नित्य पुष्करिणी तटे । वराहकवचं जप्त्वा शतवारं जितेन्द्रियः ॥ १०॥ क्षयापस्मारकुष्ठाद्यैः महारोगैः प्रमुच्यते । वराहकवचं यस्तु प्रत्यहं पठते यदि ॥ ११॥ शत्रु पीडाविनिर्मुक्तो भूपतित्वमवाप्नुयात् । लिखित्वा धारयेद् यस्तु बाहुमूले गलेऽथ वा ॥ १२॥ भूतप्रेतपिशाचाद्याः यक्षगन्धर्वराक्षसाः । शत्रवो घोरकर्माणो ये चान्ये विषजन्तवः । नष्ट दर्पा विनश्यन्ति विद्रवन्ति दिशो दश ॥ १३॥ श्रीपार्वती उवाच - तत्ब्रूहि कवचं मह्यं येन गुप्तो जगत्त्रये । सञ्चरेत्देववन्मर्त्यः सर्वशत्रुविभीषणः । येनाप्नोति च साम्राज्यं तन्मे ब्रूहि सदाशिव ॥ १४॥ श्रीशङ्कर उवाच - श‍ृणु कल्याणि वक्ष्यामि वाराहकवचं शुभम् । येन गुप्तो लभेत्मर्त्यो विजयं सर्वसम्पदम् ॥ १५॥ अङ्गरक्षाकरं पुण्यं महापातकनाशनम् । सर्वरोगप्रशमनं सर्वदुर्ग्रहनाशनम् ॥ १६॥ विषाभिचार कृत्यादि शत्रुपीडानिवारणम् । नोक्तं कस्यापि पूर्वं हि गोप्यात्गोप्यतरं यतः ॥ १७॥ वराहेण पुरा प्रोक्तं मह्यं च परमेष्ठिने । युद्धेषु जयदं देवि शत्रुपीडानिवारणम् ॥ १८॥ वराहकवचात्गुप्तो नाशुभं लभते नरः । वराहकवचस्यास्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥ १९॥ छन्दोऽनुष्टुप् तथा देवो वराहो भूपरिग्रहः । प्रक्षाल्य पादौ पाणी च सम्यगाचम्य वारिणा ॥ २०॥ कृत स्वाङ्ग करन्यासः सपवित्र उदङ्मुखः । ओं भर्भवःसुवरिति नमो भूपतयेऽपि च ॥ २१॥ नमो भगवते पश्चात्वराहाय नमस्तथा । एवं षडङ्गं न्यासं च न्यसेदङ्गुलिषु क्रमात् ॥ २२॥ नमः श्वेतवराहाय महाकोलाय भूपते । यज्ञाङ्गाय शुभाङ्गाय सर्वज्ञाय परात्मने ॥ २३॥ स्रव तुण्डाय धीराय परब्रह्मस्वरूपिणे । वक्रदंष्ट्राय नित्याय नमोऽन्तैर्नामभिः क्रमात् ॥ २४॥ अङ्गुलीषु न्यसेद् विद्वान् करपृष्ठ तलेष्वपि । ध्यात्वा श्वेतवराहं च पश्चात्मन्त्र मुदीरयेत् ॥ २५॥ ॐ श्वेतं वराहवपुषं क्षितिमुद्धरन्तं शङ्घारिसर्व वरदाभय युक्त बाहुम् । ध्यायेन्निजैश्च तनुभिः सकलैरुपेतं पूर्णं विभुं सकलवाञ्छितसिद्धयेऽजम् ॥ २६॥ वराहः पूर्वतः पातु दक्षिणे दण्डकान्तकः । हिरण्याक्षहरः पातु पश्चिमे गदया युतः ॥ २७॥ उत्तरे भूमिहृत्पातु अधस्ताद् वायु वाहनः । ऊर्ध्वं पातु हृषीकेशो दिग्विदिक्षु गदाधरः ॥ २८॥ प्रातः पातु प्रजानाथः कल्पकृत्सङ्गमेऽवतु । मध्याह्ने वज्रकेशस्तु सायाह्ने सर्वपूजितः ॥ २९॥ प्रदोषे पातु पद्माक्षो रात्रौ राजीवलोचनः । निशीन्द्र गर्वहा पातु पातूषः परमेश्वरः ॥ ३०॥ अटव्यामग्रजः पातु गमने गरुडासनः । स्थले पातु महातेजाः जले पात्ववनी पतिः ॥ ३१॥ गृहे पातु गृहाध्यक्षः पद्मनाभः पुरोऽवतु । झिल्लिका वरदः पातु स्वग्रामे करुणाकरः ॥ ३२॥ रणाग्रे दैत्यहा पातु विषमे पातु चक्रभृत् । रोगेषु वैद्यराजस्तु कोलो व्याधिषु रक्षतु ॥ ३३॥ तापत्रयात्तपोमूर्तिः कर्मपाशाच्च विश्वकृत् । क्लेशकालेषु सर्वेषु पातु पद्मापतिर्विभुः ॥ ३४॥ हिरण्यगर्भसंस्तुत्यः पादौ पातु निरन्तरम् । गुल्फौ गुणाकरः पातु जङ्घे पातु जनार्दनः ॥ ३५॥ जानू च जयकृत्पातु पातूरू पुरुषोत्तमः । रक्ताक्षो जघने पातु कटिं विश्वम्भरोऽवतु ॥ ३६॥ पार्श्वे पातु सुराध्यक्षः पातु कुक्षिं परात्परः । नाभिं ब्रह्मपिता पातु हृदयं हृदयेश्वरः ॥ ३७॥ महादंष्ट्रः स्तनौ पातु कण्ठं पातु विमुक्तिदः । प्रभञ्जन पतिर्बाहू करौ कामपिताऽवतु ॥ ३८॥ हस्तौ हंसपतिः पातु पातु सर्वाङ्गुलीर्हरिः । सर्वाङ्गश्चिबुकं पातु पात्वोष्ठौ कालनेमिहा ॥ ३९॥ मुखं तु मधुहा पातु दन्तान् दामोदरोऽवतु । नासिकामव्ययः पातु नेत्रे सूर्येन्दुलोचनः ॥ ४०॥ फालं कर्मफलाध्यक्षः पातु कर्णौ महारथः । शेषशायी शिरः पातु केशान् पातु निरामयः ॥ ४१॥ सर्वाङ्गं पातु सर्वेशः सदा पातु सतीश्वरः । इतीदं कवचं पुण्यं वराहस्य महात्मनः ॥ ४२॥ यः पठेत्श‍ृणुयाद्वापि तस्य मृत्युर्विनश्यति । तं नमस्यन्ति भूतानि भीताः साञ्जलिपाणयः ॥ ४३॥ राजदस्युभयं नास्ति राज्य भ्रंशो न जायते । यन्नाम स्मरणात्भीताः भूतवेताळराक्षसाः ॥ ४४॥ महारोगाश्च नश्यन्ति सत्यं सत्यं वदाम्यहम् । कण्ठे तु कवचं बद्ध्वा वन्ध्या पुत्रवती भवेत् ॥ ४५॥ शत्रुसैन्य क्षय प्राप्तिः दुःखप्रशमनं तथा । उत्पात दुर्निमित्तादि सूचितारिष्ट नाशनम् ॥ ४६॥ ब्रह्मविद्याप्रबोधं च लभते नात्र संशयः । धृत्वेदं कवचं पुण्यं मान्धाता परवीरहा ॥ ४७॥ जित्वा तु शाम्बरीं मायां दैत्येन्द्रानवधीत्क्षणात् । कवचेनावृतो भूत्वा देवेन्द्रोऽपि सुरारिहा ॥ ४८॥ भूम्योपदिष्टकवच धारणान नरकोऽपि च । सर्वावध्यो जयी भूत्वा महतीं कीर्तिमाप्तवान् ॥ ४९॥ अश्वत्थमूलेऽर्कवारे नित्य पुष्करिणीतटे । वराहकवचं जप्त्वा शतवारं पठेद्यदि ॥ ५०॥ अपूर्वराज्य संप्राप्तिं नष्टस्य पुनरागमम् । लभते नात्र सन्देहः सत्यमेतन्मयोदितम् ॥ ५१॥ जप्त्वा वराह मन्त्रं तु लक्षमेकं निरन्तरम् । दशांशं तर्पणं होमं पायसेन घृतेन च ॥ ५२॥ कुर्वन् त्रिकाल सन्ध्यासु कवचेनावृतो यदि । भूमण्डलाधिपत्यं च लभते नात्र संशयः ॥ ५३॥ इदमुक्तं मया देवि गोपनीयं दुरात्मनाम् । वराहकवचं पुण्यं संसारार्णवतारकम् ॥ ५४॥ महापातककोटिघ्नं भुक्तिमुक्तिफलप्रदम् । वाच्यं पुत्राय शिष्याय सद्वृताय सुधीमते ॥ ५५॥ श्री सूतः - इति पत्युर्वचः श्रुत्वा देवी सन्तुष्ट मानसा । विनायक गुहौ पुत्रौ प्रपेदे द्वौ सुरार्चितौ ॥ ५६॥ कवचस्य प्रभावेन लोकमाता च पार्वती । य इदं श‍ृणुयान्नित्यं यो वा पठति नित्यशः । स मुक्तः सर्व पापेभ्यो विष्णुलोके महीयते ॥ ५७॥ इति श्रीवराह कवचं सम्पूर्णम् ।