अक्षर आकार:

श्रीवराहाष्टोत्तरशतनामस्तोत्रम्

shrIvarAhAShTottarashatanAmastotram

श्रीवराहाष्टोत्तरशतनामस्तोत्रम्

श्रीमुष्णमाहात्म्यतः शङ्करः नारायण मम ब्रूहि येन तुष्टो जगत्पतिः । तूर्णमेव प्रसन्नात्मा मुक्तिं यच्छति पापहा ॥ १॥ सदा चञ्चलचित्तानां मानवानां कलौ युगे । जपे च देवपूजायां मनो नैकत्र तिष्ठति ॥ २॥ तादृशा अपि वै मर्त्या येन यान्ति परां गतिम् । अन्येषां कर्मणां पुर्तिर्येन स्यात् फलितेन च ॥ ३॥ तादृक् स्तोत्रं मम ब्रूहि महापातकनाशनम् । एकैकं च वराहस्य नाम वेदाधिकं किल ॥ ४॥ तादृशानि च नामानि वराहस्य महात्मनः । सन्ति चेद्ब्रूहि विश्वात्मन् श्रेतुं कौतूहलं हि मे ॥ ५॥ श्रीनारायणः श‍ृणु शङ्कर वक्ष्यामि वराहस्तोत्रमुत्तमम् । दुष्टग्रहकुठारोऽयं महापापदवानलः ॥ ६॥ महाभयगिरीन्द्राणाम् कुलिशं मुक्तिदं शुभम् । कामधुक् कामिनामेतद्भक्तानां कल्पपादपः ॥ ७॥ वक्ष्यामि परमं स्तोत्रं यत्सुगोप्यं दुरात्मनाम् । नारायण ऋषिश्चात्र श्रीवराहश्च देवता ॥ ८॥ छन्दोऽनुष्टुप् च हुं बीजं ह्रीं शक्तिः क्लीं च कीलकम् । वराहप्रीतिमुद्दिश्य विनियोगस्तु निर्वृतौ ॥ ९॥ न्यसेद्धृदयं द्रेकारं वराहाय च मूर्धनि । नमो भगवते पश्चाच्छिखायां विन्यसेद्बुधः ॥ १०॥ ज्ञानात्मने च नेत्राभ्यां कवचाय बलात्मने । भूर्भुवः सुव इत्यस्त्राय फटित्यन्तं न्यसेद्बुधः ॥ ११॥ यज्ञाय यज्ञरूपाय यज्ञाङ्गाय महात्मने । नमो यज्ञभुजे यज्ञकृते यज्ञेश्वराय च ॥ १२॥ यज्ञस्य फलदात्रे च यज्ञगुह्याय यज्वने । एभिर्नामपदैर्दिव्यैरङ्गुलिन्यासमाचरेत् ॥ १३॥ अन्नदात्रे नम इति करपृष्ठं च मार्जयेत् । नमः श्वेतवराहाय स्वाहान्तेन महामतिः ॥ १४॥ व्यापकन्यासकृत्पश्चाद्ध्यायेद्देवमधोक्षजम् । ध्यानम्- ॐ श्वेतं सुदर्शनदराङ्कितबाहुयुग्मं दंष्ट्राकरालवदनं धराय समेतम् । ब्रह्मादिभिः सुरगणैः परिसेव्यमानं ध्यायेद्वराहवपुषं निगमैकवेद्यम् ॥ १५॥ श्रीवराहो महीनाथः पूर्णानन्दो जगत्पतिः । निर्गुणो निष्कलोऽनन्तो दण्डकान्तकृदव्ययः ॥ १६॥ हिरण्याक्षान्तकृद्देवः पूर्णषाड्गुण्यविग्रहः । लयोदधिविहारी च सर्वप्राणिहिते रतः ॥ १७॥ अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः । वेदान्तवेद्यो वेदी च वेदगर्भः सनातनः ॥ १८॥ सहस्राक्षः पुण्यगन्धः कल्पकृत् क्षितिभृद्धरिः । पद्मनाभः सुराध्यक्षो हेमाङ्गो दक्षिणामुखः ॥ १९॥ महाकोलो महाबाहुः सर्वदेवनमस्कृतः । हृषीकेशः प्रसन्नात्मा सर्वभक्तभयापहः ॥ २०॥ यज्ञभृद्यज्ञकृत्साक्षी यज्ञाङ्गो यज्ञवाहनः । हव्यभुघव्यदेवश्च सदाव्यक्तः कृपाकरः ॥ २१॥ देवभूमिगुरुः कान्तो धर्मगुह्यो वृषाकपिः । स्रुवत्तुण्डो वक्रदंष्ट्रो नीलकेशो महाबलः ॥ २२॥ पूतात्मा वेदनेता च वेदहर्तृशिरोहरः । वेदादिकृद्वेदगुह्यः सर्ववेदप्रवर्तकः ॥ २३॥ गभीराक्षस्त्रिधर्मा च गम्भीरात्मा महेश्वरः । आनन्दवनगो दिव्यो ब्रह्मनासासमुद्भवः ॥ २४॥ विन्धुतीरनिवासी च क्षेमकृत्सात्त्वतां पतिः । इन्द्रत्राता जगत्त्राता महेन्द्रोद्दण्वर्गहा ॥ २५॥ भक्तवश्यो सदोद्युक्तो निजानन्दो रमापतिः । स्तुतिप्रियः शुभाङ्गश्च पुण्यश्रवणकीर्तनः ॥ २६॥ सत्यकृत्सत्यसङ्कल्पः सत्यवाक्सत्यविक्रमः । सत्येन गूढः सत्यात्मा कालातीतो गुणाधिकः ॥ २७॥ परं ज्योतिः परं धाम परमः पुरुषः परः । कल्याणकृत्कविः कर्ता कर्मसाक्षी जितेन्द्रियः ॥ २८॥ कर्मकृत्कर्मकाण्डस्य सम्प्रदायप्रवर्तकः । सर्वान्तकः सर्वगश्च सर्वार्थः सर्वभक्षकः ॥ २९॥ सर्वलोकपतिः श्रीमान् श्रीमुष्णेशः शुभेक्षणः । सर्वदेवप्रियः साक्षीत्येतन्नामाष्टकं शतम् ॥ ३०॥ सर्ववेदाधिकं पुण्यं वराहस्य महात्मनः । सततं प्रातरुत्थाय सम्यगाचम्य वारिणा ॥ ३१॥ जितासनो जितक्रोधः पश्चान्मन्त्रमुदीरयेत् । ब्राह्मणो ब्रह्मविद्यां च क्षत्रियो राज्यमाप्नुयात् ॥ ३२॥ वैश्यो धनसमृद्धः स्यात् शूद्रः सुखमवाप्नुयात् । सद्यो रोगाद्विमुच्येत शतवारं पठेद्यदि ॥ ३३॥ सकामो लभते कामान्निष्कामो मोक्षमाप्नुयात् । सद्यो रोगाद्विमुच्येत शतवारं पठेद्यदि ॥ ३३॥ सकामो लभते कामान्निष्कामो मोक्षमाप्नुयात् । बालरोगग्रहाद्याश्च नश्यन्त्येव न संशयः ॥ ३४॥ राजद्वारे महाघोरे सङ्ग्रामे शत्रुसङ्कटे । स्तोत्रमेतन्महापुण्यं पठेत्सद्यो भयापहम् ॥ ३५॥ इत्येतद्धारयेद्यस्तु करे मूर्ध्नि हृदन्तरे । तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥ ३६॥ राजप्रसादजनकं सर्वलोकवशङ्करम् । आभिचरिककृत्यान्तं महाभयनिवारणम् ॥ ३७॥ शतवारं पठेद्यस्तु मुच्यते व्याधिबन्धनात् । यः पठेत्त्रिषु कालेषु स्तोत्रमेतज्जितेन्द्रियः ॥ ३८॥ वैकुण्ठवासमाप्नोति दशपुर्वैर्दशापरैः । अश्वत्थमूलेऽर्कवारे स्थित्वा स्तोत्रं पठेद्यदि ॥ ३९॥ अपस्मारविनाशः स्यात्क्षयरोगश्च नश्यति । मध्याह्ने तु गुरोर्वारे जलमध्ये शतं जपेत् ॥ ४०॥ कुष्ठव्याधिविनाशः स्यात् ज्ञानं चैवाधिगच्छाति । प्रातः प्रातः पठेद्यस्तु स्तोत्रमेतच्छुभावहम् ॥ ४१॥ अन्त्यकाले स्मृतिर्विष्णोर्भवेत् तस्य महात्मनः । अष्टोत्तरशतैर्दिव्यैर्नामभिः किटिरूपिणः ॥ ४२॥ तुलसीमर्पयेद्यस्तु स मुक्तो नास्ति संशयः । पूजाकाले वराहस्य नाम्नामष्टोत्तरं शतम् ॥ ४३॥ जप्त्वाऽथ जापयित्वा वा साम्राज्यमधिगच्छाति । निष्कामो मोक्षमाप्नोति नात्र कार्या विचारणा ॥ ४४॥ अष्टोत्तरसहस्रं तु यः पठेन्नियतेन्द्रियः । पायसेन तथा हुत्वा वन्ध्या पुत्रवती भवेत् ॥ ४५॥ नमः श्वेतवराहाय भूधराय महात्मने । निरञ्जनाय सत्याय सात्त्वतां पतये नमः ॥ ४६॥ इति मन्त्रं पठेन्नित्यमन्ते मोक्षमवाप्नुयात् ॥ ४७॥ इति श्रीवराहपुराणे श्रीमुष्णमाहात्म्ये नवमोऽध्यायः । नीलवराहपरब्रह्मणे नमः । इति श्रीवराहाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।