अक्षर आकार:

श्रीवराहाष्टोत्तरशतनामावलिः

shrIvarAhAShTottarashatanAmAvaliH

श्रीवराहाष्टोत्तरशतनामावलिः

श्रीवराहपुराणतः श्रीवराहाय नमः । महीनाथाय । पूर्णानन्दाय । जगत्पतये । निर्गुणाय । निष्कलाय । अनन्ताय । दण्डकान्तकृते । अव्ययाय । हिरण्याक्षान्तकृते । देवाय । पूर्णषाड्गुण्यविग्रहाय । लयोदधिविहारिणे । सर्वप्राणहिते रताय । अनन्तरूपाय । अनन्तश्रिये । जितमन्यवे । भयापहाय । वेदान्तवेद्याय । वेदिने नमः ॥ २० वेदगर्भाय नमः । सनातनाय । सहस्राक्षाय । पुण्यगन्धाय । कल्पकृते । क्षितिभृते । हरये । पद्मनाभाय । सुराध्यक्षाय । हेमाङ्गाय । दक्षिणामुखाय । महाकोलाय । महाबाहवे । सर्वदेवनमस्कृताय । हृषीकेशाय । प्रसन्नात्मने । सर्वभक्तभयापहाय । यज्ञभृते । यज्ञकृते । साक्षिणे नमः ॥ ४० यज्ञाङ्गाय नमः । यज्ञवाहनाय । हव्यभुजे । हव्यदेवाय । सदाव्यक्ताय । कृपाकराय । देवभूमिगुरवे । कान्ताय । धर्मगुह्याय । वृषाकपये । स्रुवतुण्डाय । वक्रदंष्ट्राय । नीलकेशाय । महाबलाय । पूतात्मने । वेदनेत्रे । देहहर्तृशिरोहराय । वेदादिकृते । वेदगुह्याय । सर्ववेदप्रवर्तकाय नमः ॥ ६० गभीराक्षाय नमः । त्रिधर्मणे । गम्भीरात्मने । महेश्वराय । आनन्दवनगाय । दिव्याय । ब्रह्मनासासमुद्भवाय । सिन्धुतीरनिषेविणे । क्षेमकृते । सात्वतां पतये । इन्द्रत्रात्रे । जगत्त्रात्रे । महेन्द्रोद्दण्डगर्वघ्ने । भक्तवश्याय । सदोद्युक्ताय । निजानन्दाय । रमापतये । स्तुतिप्रियाय । शुभाङ्गाय । पुण्यश्रवणकीर्तनाय नमः ॥ ८० सत्यकृते नमः । सत्यसङ्कल्पाय । सत्यवाचे । सत्यविक्रमाय । सत्येन गूढाय । सत्यात्मने । कालातीताय । गुणाधिकाय । परस्मै ज्योतिषे । परस्मै धाम्ने । परमाय पुरुषाय । पराय । कल्याणकृते । कवये । कर्त्रे । कर्मसाक्षिणे । जितेन्द्रियाय । कर्मकृते । कर्मकाण्डस्य सम्प्रदायप्रवर्तकाय । सर्वान्तकाय नमः ॥ १०० सर्वगाय नमः । सर्वार्थाय । सर्वभक्षकाय । सर्वलोकपतये । श्रीमते श्रीमुष्णेशाय । शुभेक्षणाय । सर्वदेवप्रियाय । साक्षिणे नमः ॥ १०८ नमस्तस्मै वराहाय हेलयोद्धरते महीम् । खुरमध्यगतो यस्य मेरुः खुरखुरायते ॥ इति श्रीवराहाष्टोत्तरशतनामावलिः समाप्ता ।