अक्षर आकार:

वकारादि श्रीवराहाष्टोत्तरशतनामस्तोत्रम्

vakArAdi shrI varAhAShTottarashatanAmastotram

वकारादि श्रीवराहाष्टोत्तरशतनामस्तोत्रम्

श्री हयग्रीवाय नमः । हरिः ॐ वराहो वरदो वन्द्यो वरेण्यो वसुदेवभाः । वषट्कारो वसुनिधिर्वसुधोद्धरणो वसुः ॥ १॥ वसुदेवो वसुमतीदंष्ट्रो वसुमतीप्रियः । वनधिस्तोमरोमान्धुर्वज्ररोमा वदावदः ॥ २॥ वलक्षाङ्गो वश्यविश्वो वसुधाधरसन्निभः । वनजोदरदुर्वारविषादध्वंसनोदयः ॥ ३॥ वल्गत्सटाजातवातधूतजीमूतसंहतिः । वज्रदंष्ट्राग्रविच्छिन्न हिरण्याक्षधराधरः ॥ ४॥ वशिष्टाद्यर्षिनिकरस्तूयमानो वनायनः । वनजासनरुद्रेन्द्रप्रसादित महाशयः ॥ ५॥ वरदानविनिर्धूतब्रह्मब्राह्मणसंशयः । वल्लभो वसुधाहारिरक्षोबलनिषूदनः ॥ ६॥ वज्रसारखुराघातदलिताब्धिरसाहिवः । वलाद्वालोत्कटाटोपध्वस्तब्रह्माण्डकर्परः ॥ ७॥ वदनान्तर्गतायात ब्रह्माण्डश्वासपद्धतिः । वर्चस्वी वरदंष्ट्राग्रसमुन्मीलितदिक्तटः ॥ ८॥ वनजासननासान्तर्हंसवाहावरोहितः । वनजासनदृक्पद्मविकासाद्भुतभास्करः ॥ ९॥ वसुधाभ्रमरारूढदंष्ट्रापद्माग्रकेसरः । वसुधाधूममषिका रम्यदंष्ट्राप्रदीपकः ॥ १०॥ वसुधासहस्रपत्रमृणालायित दंष्ट्रिकः । वसुधेन्दीवराक्रान्तदंष्ट्राचन्द्रकलाञ्चितः ॥ ११॥ वसुधाभाजनालम्बदंष्ट्रारजतयष्टिकः । वसुधाभूधरावेधि दंष्ट्रासूचीकृताद्भुतः ॥ १२॥ वसुधासागराहार्यलोकलोकपधृद्रदः । वसुधावसुधाहारिरक्षोधृच्छृङ्गयुग्मकः ॥ १३॥ वसुधाधस्समालम्बिनालस्तम्भ प्रकम्पनः । वसुधाच्छत्ररजतदण्डच्छृङ्गमनोरमः ॥ १४॥ वतंसीकृतमन्दारो वलक्षीकृतभूतलः । वरदीकृतवृत्तान्तो वसुधीकृतसागरः ॥ १५॥ वश्यमायो वरगुणक्रियाकारो वराभिधः । वरुणालयवास्तव्यजन्तुविद्राविघुर्घुरः ॥ १६॥ वरुणालयविच्छेत्ता वरुणादिदुरासदः । वनजासनसन्तानावनजात महाकृपः ॥ १७॥ वत्सलो वह्निवदनो वराहवमयो वसुः । वनमाली वन्दिवेदो वयस्थो वनजोदरः ॥ १८॥ वेदत्वचे वेदविदे वेदिने वेदवादिने । वेदवेदाङ्गतत्त्वज्ञ नमस्ते वेदमूर्तये ॥ १९॥ वेदविद्वेद्य विभवो वेदेशो वेदरक्षणः । वेदान्तसिन्धुसञ्चारी वेददूरः पुनातु माम् ॥ २०॥ वेदान्तसिन्धुमध्यस्थाचलोद्धर्ता वितानकृत् । वितानेशो वितानाङ्गो वितानफलदो विभुः ॥ २१॥ वितानभावनो विश्वभावनो विश्वरूपधृत् । विश्वदंष्ट्रो विश्वगर्भो विश्वगो विश्वसम्मतः ॥ २२॥ वेदारण्यचरो वामदेवादिमृगसंवृतः । विश्वातिक्रान्तमहिमा पातु मां वन्यभूपतिः ॥ २३॥ वैकुण्ठकोलो विकुण्ठलीलो विलयसिन्धुगः । वप्तःकबलिताजाण्डो वेगवान् विश्वपावनः ॥ २४॥ विपश्चिदाशयारण्यपुण्यस्फूर्तिर्विश‍ृङ्खलः । विश्वद्रोहिक्षयकरो विश्वाधिकमहाबलः ॥ २५॥ वीर्यसिन्धुर्विवद्बन्धुर्वियत्सिन्धुतरङ्गितः । व्यादत्तविद्वेषिसत्त्वमुस्तो विश्वगुणाम्बुधिः ॥ २६॥ विश्वमङ्गलकान्तार कृतलीलाविहार ते । विश्वमङ्गलदोत्तुङ्ग करुणापाङ्ग सन्नतिः ॥ २७॥ ॥ इति वकारादि श्री वराहाष्टोत्तरशतम् पराभव श्रावणशुद्ध त्रयोदश्यां लिखितं रामेण समर्पितं च श्रीमद्धयवदन चरणारविन्दयोर्विजयतां तराम् ॥ Source Book: shrI dashAvatArAShTottarashatanAmAvaliH savyAkhyA language: Telugu