अक्षर आकार:

वकारादि श्रीवराहाष्टोत्तरशतनामावलिः

vakArAdi shrI varAhAShTottarashatanAmAvaliH

वकारादि श्रीवराहाष्टोत्तरशतनामावलिः

श्री हयग्रीवाय नमः । हरिः ॐ ॐ वराहाय नमः । ॐ वरदाय नमः । ॐ वन्द्याय नमः । ॐ वरेण्याय नमः । ॐ वसुदेवजाय नमः । ॐ वषट्काराय नमः । ॐ वसुनिधये नमः । ॐ वसुधोद्धरणाय नमः । ॐ वसवे नमः । ॐ वसुदेवाय नमः । १० ॐ वसुमतीदंष्ट्राय नमः । ॐ वसुमतीप्रियाय नमः । ॐ वनधिस्तोमरोमान्धवे नमः । ॐ वज्ररोम्णे नमः । ॐ वदावदाय नमः । ॐ वलक्षाङ्गाय नमः । ॐ वश्यविश्वाय नमः । ॐ वसुधाधरसन्निभाय नमः । ॐ वनजोदरदुर्वारविषादध्वंसनोदयाय नमः । ॐ वल्गत्सटाजातवातधूतजीमूतसंहतये नमः । २० ॐ वज्रदंष्ट्राग्रविच्छिन्नहिरण्याक्षधराधराय नमः । ॐ वशिष्टाद्यर्षिनिकरस्तूयमानाय नमः । ॐ वनायनाय नमः । ॐ वनजासनरुद्रेन्द्रप्रसादित महाशयाय नमः । ॐ वरदानविनिर्धूतब्रह्मब्राह्मणसंशयाय नमः । ॐ वल्लभाय नमः । ॐ वसुधाहारिरक्षोबलनिषूदनाय नमः । ॐ वज्रसारखुराघातदलिताब्धिरसाहिपाय नमः । ॐ वलद्वालोत्कटाटोपध्वस्तब्रह्माण्डकर्पराय नमः । ॐ वदनान्तर्गतायातब्रह्माण्डश्वासपद्धतये नमः । ३० ॐ वर्चस्विने नमः । ॐ वरदंष्ट्राग्रसमुन्मीलितदिक्तटाय नमः । ॐ वनजासननासान्तर्हंसवाहावरोहिताय नमः । ॐ वनजासनदृक्पद्मविकासाद्भुतभास्कराय नमः । ॐ वसुधाभ्रमरारूढदंष्ट्रापद्माग्रकेसराय नमः । ॐ वसुधाधूममषिका रम्यदंष्ट्राप्रदीपकाय नमः । ॐ वसुधासहस्रपत्रमृणालायित दंष्ट्रिकाय नमः । ॐ वसुधेन्दीवराक्रान्तदंष्ट्राचन्द्रकलाञ्चिताय नमः । ॐ वसुधाभाजनालम्बदंष्ट्रारजतयष्टिकाय नमः । ॐ वसुधाभूधरावेधि दंष्ट्रासूचीकृताद्भुताय नमः । ४० ॐ वसुधासागराहार्यलोकलोकपधृद्रदाय नमः । ॐ वसुधावसुधाहारिरक्षोधृच्छृङ्गयुग्मकाय नमः । ॐ वसुधाधस्समालम्बिनालस्तम्भ प्रकम्पनाय नमः । ॐ वसुधाच्छत्ररजतदण्डच्छृङ्गमनोहराय नमः । ॐ वतंसीकृतमन्दाराय नमः । ॐ वलक्षीकृतभूतलाय नमः । ॐ वरदीकृतवृत्तान्ताय नमः । ॐ वसुधीकृतसागराय नमः । ॐ वश्यमायाय नमः । ॐ वरगुणक्रियाधाराय नमः । ॐ वराभिथाय नमः । ॐ वरुणालयवास्तव्यजन्तुविद्राविघुर्घुराय नमः । ॐ वरुणालयविच्छेत्रे नमः । ॐ वरुणादिदुरासदाय नमः । ॐ वनजासनसन्तानावनजात महाकृपाय नमः । ॐ वत्सलाय नमः । ॐ वह्निवदनाय नमः । ॐ वराहवमयाय नमः । ॐ वसवे नमः । ॐ वनमालिने नमः । ६० ॐ वन्दिवेदाय नमः । ॐ वयस्थाय नमः । ॐ वनजोदराय नमः । ॐ वेदत्वचे नमः । ॐ वेदविदे नमः । ॐ वेदिने नमः । ॐ वेदवादिने नमः । ॐ वेदवेदाङ्गतत्त्वज्ञाय नमः । ॐ वेदमूर्तये नमः । ॐ वेदविद्वेद्य विभवाय नमः । ७० ॐ वेदेशाय नमः । ॐ वेदरक्षणाय नमः । ॐ वेदान्तसिन्धुसञ्चारिणे नमः । ॐ वेददूराय नमः । ॐ वेदान्तसिन्धुमध्यस्थाचलोद्धर्त्रे नमः । ॐ वितानकृते नमः । ॐ वितानेशाय नमः । ॐ वितानाङ्गाय नमः । ॐ वितानफलदाय नमः । ॐ विभवे नमः । ८० ॐ वितानभावनाय नमः । ॐ विश्वभावनाय नमः । ॐ विश्वरूपधृते नमः । ॐ विश्वदंष्ट्राय नमः । ॐ विश्वगर्भाय नमः । ॐ विश्वगाय नमः । ॐ विश्वसम्मताय नमः । ॐ वेदारण्यचराय नमः । ॐ वामदेवादिमृगसंवृताय नमः । ॐ विश्वातिक्रान्तमहिम्ने नमः । ९० ॐ वन्यभूपतये नमः । ॐ वैकुण्ठकोलाय नमः । ॐ विकुण्ठलीलाय नमः । ॐ विलयसिन्धुगाय नमः । ॐ वप्तःकबलिताजाण्डाय नमः । ॐ वेगवते नमः । ॐ विश्वपावनाय नमः । ॐ विपश्चिदाशयारण्यपुण्यस्फूर्तये नमः । ॐ विश‍ृङ्खलाय नमः । ॐ विश्वद्रोहिक्षयकराय नमः । १०० ॐ विश्वाधिकमहाबलाय नमः । ॐ वीर्यसिन्धवे नमः । ॐ विवद्बन्धवे नमः । ॐ वियत्सिन्धुतरङ्गिताय नमः । ॐ व्यादत्तविद्वेषिसत्त्वमुस्ताय नमः । ॐ विश्वगुणाम्बुधये नमः । ॐ विश्वमङ्गलकान्तारकृत लीलाविहाराय नमः । ॐ विश्वमङ्गलदोत्तुङ्गकरुणापाङ्गाय नमः । १०८ ॥ इति वकारादि श्री वराहाष्टोत्तरशतनामावलिः पराभव श्रावणशुद्ध त्रयोदश्यां लिखिता रामेण समर्पिता च श्रीहयग्रीव चरणार विन्दयोर्विजयतां तराम् ॥ Source Book: shrI dashAvatArAShTottarashatanAmAvaliH savyAkhyA language: Telugu