अक्षर आकार:

वकारादि श्रीवामनाष्टोत्तरशतनामस्तोत्रम्

vakArAdi shrI vAmanAShTottarashatanAmastotram

वकारादि श्रीवामनाष्टोत्तरशतनामस्तोत्रम्

श्री हयग्रीवाय नमः । हरिः ॐ वामनो वारिजाताक्षो वर्णी वासवसोदरः । वासुदेवो वावदूको वालखिल्यसमो वरः ॥ १॥ वेदवादी विद्युदाभो वृतदण्डो वृषाकपिः । वारिवाहसितच्छत्रो वारिपूर्णकमण्डलुः ॥ २॥ वलक्षयज्ञोपवीतो वरकौपीनधारकः । विशुद्धमौञ्जीरशनो विधृतस्फाटिकस्रजः ॥ ३॥ वृतकृष्णाजिनकुशो विभूतिच्छन्नविग्रहः । वरभिक्षापात्रकक्षो वारिजारिमुखो वशी ॥ ४॥ वारिजाङ्घ्रिर्वृद्धसेवी वदनस्मितचन्द्रिकः । वल्गुभाषी विश्वचित्तधनस्तेयी विशिष्टधीः ॥ ५॥ वसन्तसदृशो वह्नि शुद्धाङ्गो विपुलप्रभः । विशारदो वेदमयो विद्वदर्धिजनावृतः ॥ ६॥ वितानपावनो विश्वविस्मयो विनयान्वितः । वन्दारुजनमन्दारो वैष्णवर्क्षविभूषणः ॥ ७॥ वामाक्षीमदनो विद्वन्नयनाम्बुजभास्करः । वारिजासनगौरीशवयस्यो वासवप्रियः ॥ ८॥ वैरोचनिमखालङ्कृद्वैरोचनिवनीवकः । वैरोचनियशस्सिन्धुचन्द्रमा वैरिबाडबः ॥ ९॥ वासवार्थस्वीकृतार्थिभावो वासितकैतवः । वैरोचनिकराम्भोजरससिक्तपदाम्बुजः ॥ १०॥ वैरोचनिकराब्धारापूरिताञ्जलिपङ्कजः । वियत्पतितमन्दारो विन्ध्यावलिकृतोत्सवः ॥ ११॥ वैषम्यनैर्घृण्यहीनो वैरोचनिकृतप्रियः । विदारितैककाव्याक्षो वांछिताज्ङ्घ्रित्रयक्षितिः ॥ १२॥ वैरोचनिमहाभाग्य परिणामो विषादहृत् । वियद्दुन्दुभिनिर्घृष्टबलिवाक्यप्रहर्षितः ॥ १३॥ वैरोचनिमहापुण्याहार्यतुल्यविवर्धनः । विबुधद्वेषिसन्त्रासतुल्यवृद्धवपुर्विभुः ॥ १४॥ विश्वात्मा विक्रमक्रान्तलोको विबुधरञ्जनः । वसुधामण्डलव्यापिदिव्यैकचरणाम्बुजः ॥ १५॥ विधात्रण्डविनिर्भेदिद्वितीयचरणाम्बुजः । विग्रहस्थितलोकौघो वियद्गङ्गोदयाङ्घ्रिकः ॥ १६॥ वरायुधधरो वन्द्यो विलसद्भूरिभूषणः । विष्वक्सेनाद्युपवृतो विश्वमोहाब्जनिस्स्वनः ॥ १७॥ वास्तोष्पत्यादिदिक्पालबाहुर्विधुमयाशयः । विरोचनाक्षो वह्न्यास्यो विश्वहेत्वर्षिगुह्यकः ॥ १८॥ वार्धिकुक्षिर्वारिवाहकेशो वक्षस्थ्सलेन्दिरः । वायुनासो वेदकण्ठो वाक्छन्दा विधिचेतनः ॥ १९॥ वरुणस्थानरसनो विग्रहस्थचराचरः । विबुधर्षिगणप्राणो विबुधारिकटिस्थलः ॥ २०॥ विधिरुद्रादिविनुतो विरोचनसुतानन्दनः । वारितासुरसन्दोहो वार्धिगम्भीरमानसः ॥ २१॥ विरोचनपितृस्तोत्रकृतशान्तिर्वृषप्रियः । विन्ध्यावलिप्राणनाध भिक्षादायी वरप्रदः ॥ २२॥ वासवत्राकृतस्वर्गो वैरोचनिकृतातलः । वासवश्रीलतोपघ्नो वैरोचनिकृतादरः ॥ २३॥ विबुधद्रुसुमापाङ्गवारिताश्रितकश्मलः । वारिवाहोपमो वाणीभूषणोऽवतु वाक्पतिः ॥ २४॥ ॥ इति वकारादि श्री वामनावताराष्टोत्तरशतम् पराभव श्रावण बहुल प्रतिपदि लिखितं रामेण समर्पितं च श्री हयग्रीवायदेवाय ॥ Source Book: shrI dashAvatArAShTottarashatanAmAvaliH savyAkhyA language: Telugu