अक्षर आकार:

वकारादि श्रीवामनाष्टोत्तरशतनामावलिः

vakArAdi shrI vAmanAShTottarashatanAmAvaliH

वकारादि श्रीवामनाष्टोत्तरशतनामावलिः

श्री हयग्रीवाय नमः । हरिः ॐ ॐ वामनाय नमः । ॐ वारिजाताक्षाय नमः । ॐ वर्णिने नमः । ॐ वासवसोदराय नमः । ॐ वासुदेवाय नमः । ॐ वावदूकाय नमः । ॐ वालखिल्यसमाय नमः । ॐ वराय नमः । ॐ वेदवादिने नमः । ॐ विद्युदाभाय नमः । १० ॐ वृतदण्डाय नमः । ॐ वृषाकपये नमः । ॐ वारिवाहसितच्छत्राय नमः । ॐ वारिपूर्णकमण्डलवे नमः । ॐ वलक्षयज्ञोपवीताय नमः । ॐ वरकौपीनधारकाय नमः । ॐ विशुद्धमौञ्जीरशनाय नमः । ॐ विधृतस्फाटिकस्रजाय नमः । ॐ वृतकृष्णाजिनकुशाय नमः । ॐ विभूतिच्छन्नविग्रहाय नमः । २० ॐ वरभिक्षापात्रकक्षाय नमः । ॐ वारिजारिमुखाय नमः । ॐ वशिने नमः । ॐ वारिजाङ्घ्रये नमः । ॐ वृद्धसेविने नमः । ॐ वदनस्मितचन्द्रिकाय नमः । ॐ वल्गुभाषिणे नमः । ॐ विश्वचित्तधनस्तेयिने नमः । ॐ विशिष्टधिये नमः । ॐ वसन्तसदृशाय नमः । ३० ॐ वह्निशुद्धाङ्गाय नमः । ॐ विपुलप्रभाय नमः । ॐ विशारदाय नमः । ॐ वेदमयाय नमः । ॐ विद्वदर्धिजनावृताय नमः । ॐ वितानपावनाय नमः । ॐ विश्वविस्मयाय नमः । ॐ विनयान्विताय नमः । ॐ वन्दारुजनमन्दाराय नमः । ॐ वैष्णवर्क्षविभूषणाय नमः । ४० ॐ वामाक्षिमदनाय नमः । ॐ विद्वन्नयनाम्बुज भास्कराय नमः । ॐ वारिजासनगौरीशवयस्याय नमः । ॐ वासवप्रियाय नमः । ॐ वैरोचनिमखालङ्कृते नमः । ॐ वैरोचनिवनीपकाय नमः । ॐ वैरोचनियशस्सिन्धुचन्द्रमसे नमः । ॐ वैरिबाडबाय नमः । ॐ वासवार्थस्वीकृतार्थिभावाय नमः । ॐ वासितकैतवाय नमः । ५० ॐ वैरोचनिकराम्भोजरससिक्तपदाम्बुजाय नमः । ॐ वैरोचनिकराब्धारापूरिताञ्जलिपङ्कजाय नमः । ॐ वियत्पतितमन्दाराय नमः । ॐ विन्ध्यावलिकृतोत्सवाय नमः । ॐ वैषम्यनैर्घृण्यहीनाय नमः । ॐ वैरोचनिकृतप्रियाय नमः । ॐ विदारितैककाव्याक्षाय नमः । ॐ वांछिताज्ङ्घ्रित्रयक्षितये नमः । ॐ वैरोचनिमहाभाग्य परिणामाय नमः । ॐ विषादहृते नमः । ६० ॐ वियद्दुन्दुभिनिर्घृष्टबलिवाक्यप्रहर्षिताय नमः । ॐ वैरोचनिमहापुण्याहार्यतुल्यविवर्धनाय नमः । ॐ विबुधद्वेषिसन्त्रासतुल्यवृद्धवपुषे नमः । ॐ विभवे नमः । ॐ विश्वात्मने नमः । ॐ विक्रमक्रान्तलोकाय नमः । ॐ विबुधरञ्जनाय नमः । ॐ वसुधामण्डलव्यापि दिव्यैकचरणाम्बुजाय नमः । ॐ विधात्रण्डविनिर्भेदिद्वितीयचरणाम्बुजाय नमः । ॐ विग्रहस्थितलोकौघाय नमः । ७० ॐ वियद्गङ्गोदयाङ्घ्रिकाय नमः । ॐ वरायुधधराय नमः । ॐ वन्द्याय नमः । ॐ विलसद्भूरिभूषणाय नमः । ॐ विष्वक्सेनाद्युपवृताय नमः । ॐ विश्वमोहाब्जनिस्स्वनाय नमः । ॐ वास्तोष्पत्यादिदिक्पालबाहवे नमः । ॐ विधुमयाशयाय नमः । ॐ विरोचनाक्षाय नमः । ॐ वह्न्यास्याय नमः । ८० ॐ विश्वहेत्वर्षिगुह्यकाय नमः । ॐ वार्धिकुक्षये नमः । ॐ वरिवाहकेशाय नमः । ॐ वक्षस्थ्सलेन्दिराय नमः । ॐ वायुनासाय नमः । ॐ वेदकण्ठाय नमः । ॐ वाक्छन्दसे नमः । ॐ विधिचेतनाय नमः । ॐ वरुणस्थानरसनाय नमः । ॐ विग्रहस्थचराचराय नमः । ९० ॐ विबुधर्षिगणप्राणाय नमः । ॐ विबुधारिकटिस्थलाय नमः । ॐ विधिरुद्रादिविनुताय नमः । ॐ विरोचनसुतानन्दाय नमः । ॐ वारितासुरसन्दोहाय नमः । ॐ वार्धिगम्भीरमानसाय नमः । ॐ विरोचनपितृस्तोत्र कृतशान्तये नमः । ॐ वृषप्रियाय नमः । ॐ विन्ध्यावलिप्राणनाध भिक्षादायने नमः । ॐ वरप्रदाय नमः । १०० ॐ वासवत्राकृतस्वर्गाय नमः । ॐ वैरोचनिकृतातलाय नमः । ॐ वासवश्रीलतोपघ्नाय नमः । ॐ वैरोचनिकृतादराय नमः । ॐ विबुधद्रुसुमापाङ्गवारिताश्रितकश्मलाय नमः । ॐ वारिवाहोपमाय नमः । ॐ वाणीभूषणाय नमः । ॐ वाक्पतयेनमः । १०८ ॥ इति वकारादि श्री वामनाष्टोत्तरशतनामावलि रियं पराभव श्रावण बहुल प्रतिपदि लिखिता रामेण दत्ता च श्री हयग्रीवार्पणमस्तु ॥ Source Book: shrI dashAvatArAShTottarashatanAmAvaliH savyAkhyA language: Telugu