अक्षर आकार:

श्रीवैकुण्ठस्तवः

shrIvaikuNThastavaH

श्रीवैकुण्ठस्तवः

पञ्चस्तव्यां १ श्रीवैकुण्ठस्तवः (श्रीवत्सचिह्नमिश्रैरनुगृहीतायां पञ्चस्तव्याम्) श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ यो नित्यमच्युतपदाम्बुजयुग्मरुक्म- व्यामोहतस्तदितराणि तृणाय मेने । अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः रामानुजस्य चरणौ शरणं प्रपद्ये ॥ १॥ त्रैविद्यवृद्धजनमूर्धविभूषणं यत् सम्पच्च सात्त्विकजनस्य यदेव नित्यम् । यद्वा शरण्यमशरण्यजनस्य पुण्यं तत्संश्रयेम वकुळाभरणाङ्घ्रियुग्मम् ॥ २॥ भक्तिप्रभावभवदद्भुतभावबन्ध- सन्धुक्षितप्रणयसाररसौघपूर्णः । वेदार्थरत्ननिधिरच्युत दिव्यधामा जीयात्पराङ्कुशपयोधिरसीमभूमा ॥ ३॥ यन्मङ्गलाय महते जगतामुशन्ति त्रैविष्टपान्यपि पदानि यदाश्रयाणि । वन्दामहे सरसिजेक्षणमद्धितीयं वेदान्तवेद्यमनिदम्प्रथमं महस्तत् ॥ ४॥ पीताम्बरं वरदशीतलदृष्टिपात- माजानुलम्बिभुजमायतकर्णपाशम् । तन्मेघमेचकमुदग्रविशालवक्षो लक्ष्मीधरं किमपि वस्तु ममाविरस्तु ॥ ५॥ यत्त्तत्वमक्षरमदृश्यमगोत्रवर्णं अग्राह्यमव्ययमनीदृशमद्वितीयम् । ईशानमस्य जगतो यदणोरणीयः तद्वैष्णवं पदमुदात्तमुदाहरामः ॥ ६॥ आम्नायमूर्धनि च मूर्धनि चोर्ध्वपुंसां यद्धाम वैष्णवमभीक्ष्णतरं चकास्ति । तन्मादृशामपि च गोचरमिति वाचो मन्ये तदीयमिदमाश्रितवत्सलत्वम् ॥ ७॥ जानन्नपीह किल मामनपत्रपिष्णुः विष्णोः पदप्रणयिनीं गिरमाद्रियेऽहम् । न श्वावलीढमपि तीर्थमतीर्थमाहुः नोदन्यतापि च शुना किल लज्जितव्यम् ॥ ८॥ देवस्य दैत्यमथनस्य गुणेष्वियत्ता सङ्ख्या च वाङ्मनसगोचरमत्यभूताम् । अप्येवमण्वपि च तत्र ममार्तिशान्त्यै कीटस्य तृप्यत उदन्वति विप्रुषोऽलम् ॥ ९॥ प्रेमार्द्रविह्वलगिरः पुरुषाः पुराणाः स्वां तुष्टुवुर्मधुरिपो मधुरैर्वचोभिः । वाचो विडम्बितमिदं मम नीचवाचः क्षान्तिस्तु ते सविषया मम दुर्वचोभिः ॥ १०॥ आज्ञा तवात्रभवती विदिता त्रयी सा तां हि प्रमाणमभिजग्मुरतीन्द्रियेऽर्थे । आभासभूयमभियान्त्यपराणि दोषैः एषा तु दोषरहिता महिता पुराणी ॥ ११॥ अन्तर्हितो निधिरसि त्वमशेषपुंसां लभ्योऽसि पुण्यपुरुषैरितरैर्दुरापः । तत्र त्रयीं सुकृतिनः कृतिनोऽधिजग्मुः बाह्येषु बाह्यचरितैरितरैर्निपेते ॥ १२॥ चित्रं विधेर्विलसितं त्विदमाविरस्ति दुष्टात्मनामयगहो किल दुर्विपाकः । यत्केचिदत्रभवतीं श्रुतिमाश्रयन्तो- ऽप्यर्थे कुदृष्टिविनिविष्टधियो विनष्टाः ॥ १३॥ बाह्याः कुदृष्टय इति द्वितयेऽप्यपारं घोरं तमस्समुपयान्ति न हीक्षसे तान् । जग्धस्य काननमृगैर्मृगतृष्णिकेप्सोः कासारसत्त्वनिहतस्य च को विशेषः ॥ १४॥ न्यायस्मृति प्रभृतिभिर्भवता निसृष्टैः वेदोपबृंहणविधावुचितैरुपायैः । श्रुत्यर्थमर्थमिव भानुकरैर्विभेजुः त्वद्भक्तिभावितविकल्मषशेमुषीकाः ॥ १५॥ ये तु त्वदङ्घ्रिसरसीरुहभक्तिहीनाः तेषाममीभिरपि नैव यथार्थबोधः । पित्तघ्नमञ्जनमनाप्नुषि जातु नेत्रे नैव प्रभाभिरपि शङ्खसितत्वबुद्धिः ॥ १६॥ वेदार्थधीस्त्वयि तु भक्तित एव लभ्या यावान् हि यश्च भगवन्नसि तत्त्वतस्त्वम् । ज्ञातु तथा भुवनभावन वेदवेद्यं द्रष्टुं प्रवेष्टुमपि भक्तित एव शक्यः ॥ १७॥ तत्वार्थतत्परपरश्शतवेदवाक्यैः सामर्थ्यतः स्मृतिभिरप्यथ तादृशीभिः । त्वामेव तत्त्वपरसात्त्विकसत्पुराणैः देवज्ञधीभिरपि निश्चिनुमः परेशम् ॥ १८॥ अन्यत्र तु क्वचन केचिदिहेशशब्दात् लोकप्रसिद्धिमुपगम्य तमीशमाहुः । तैश्च प्रसिद्धविभवस्य समूलतायै ग्राह्या त्रयी त्वयि तु साऽच्युत सम्भुखीना ॥ १९॥ यः खल्वणोरणुतरो महतो महीयान् आत्मा जनस्य जनको जगतश्च योऽभूत् । वेदात्मकप्रणवकारणवर्णवाच्यं तं त्वां वयन्तु परमेश्वरमामनामः ॥ २०॥ आत्मेश्वरोऽसि न परोऽस्ति तवेश्वरोऽन्यो विश्वस्य चासि पतिरस्य परायणं च । नारायणाच्युत परस्त्वमिहैक एव ब्रह्मादयोऽपि भवदीक्षणलब्धसत्ताः ॥ २१॥ नित्स्समाभ्यधिकवर्जित ऊर्जितश्रीः नित्येऽक्षरे दिवि वसन्पुरुषः पुराणः । सत्त्वप्रवर्तनकरो जगतोऽस्य मूलं नान्यस्त्वदस्ति धरणीधर वेदवेद्यः ॥ २२॥ यं भूतभव्यभवदीशमनीशमाहुः अन्तस्समुद्रनिलयं यमनन्तरूपम् । यस्य त्रिलोकजननी महिषी च लक्ष्मीः साक्षात्स एव पुरुषोऽसि सहस्रमूर्धा ॥ २३॥ सर्वं श्रुतिष्वनुगतं स्थिरमप्रकम्प्यं नारायणाह्वयधरं त्वमिवानवद्यम् । सूक्तं तु पौरुषमशेषजगत्पवित्रं त्वामुत्तमं पुरुषमीशमुदाजहार ॥ २४॥ आनन्दमैश्वरमवाङ्मनसाऽवगाह्यं आम्नासिषुश्शातगुणोत्तरितक्रमेण । सोऽयं तवैव नृषु हि त्वमिहान्तरात्मा त्वं पुण्डरीकनयनः पुरुषश्च पौष्णः ॥ २५॥ यन्मूलकारणमबुध्यत सृष्टिवाक्यैः ब्रह्मेति वा सदिति वाऽऽत्मगिराऽथवा तत् । नारायणस्त्विति महोपनिषद्ब्रवीति सौबालिकीप्रभृतयोऽप्यनुजरमुरेनाम् ॥ २६॥ ज्योतिः परं परमतत्त्वमथो परात्मा ब्रह्मेति च श्रुतिषु यत्परवस्त्वधीतम् । नारायणस्तदिति तद्विशिनष्टि काचि- द्विष्णोः पदं परममित्यपरा गृणाति ॥ २७॥ सन्तीदृशाश्श्रुतिशिरस्सु परस्सहस्रा वाचस्तव प्रथयितुं परमेशितृत्वम् । किञ्चेह न व्यजगणःकृमिधातृभेदं क्रामन् जगन्ति निगिरन् पुनरुद्गिरंश्च ॥ २८॥ रूपश्रिया परमया परमेण धाम्ना चित्रैश्च कैश्चिदुचितैः भवतश्चरित्रैः । चिह्नैरनिह्ववपरैरपरैश्च कैश्चित् निश्चिन्वते त्वयि विपश्चित ईशितृत्वम् ॥ २९॥ यस्याः कटाक्षणमनुक्षणमीश्वराणां ऐश्वर्यहेतुरिति सार्वजनीनसिद्धम् । तं श्रीरिति त्वदुपसंश्रयणान्निराहु- स्त्वां च श्रियश्श्रियमुदाहुरुदारवाचः ॥ ३०॥ माया त्वया गुणमयी किल या निसृष्टा सा ते विभो किमिव नर्म न निर्मिमीते । कौतस्कुताः स्थिरकुतर्कवशेन केचित् सत्यां श्रुतौ च बधिरास्त्वयि तन्महिम्ना ॥ ३१॥ यत्स्थावरक्रिमिपतङ्गमतङ्गजादि- ष्वन्येषु जन्तुषु सदैव विजायमानः । त्वन्नित्यनिर्मलनिरञ्जननिर्विकार- कल्याणसद्गुणनिधे स इतीरितस्तैः ॥ ३२॥ त्वद्दृष्टिजुष्टमिदमाविरभूदशेषं नोचेत्कटाक्षयसि नैव भवेत्प्रवृत्तिः । स्थातुं च वाञ्छति जगत्तव दृष्टिपातं तेन श्रुतौ जगदिषे हि जगत्त्वमेव ॥ ३३॥ एव भगो इह भवत्परतन्त्र एव शब्दोऽपि रूपवदमुष्य चराचरस्य । ऐश्वर्यमीदृशमिदं श्रुतिषूदितं ते पापीयसामयमहो त्वयि मोहहेतुः ॥ ३४॥ ये त्वत्कटाक्षलवलक्ष्यमिव क्षणं तै- रैश्वर्यमीदृशमलभ्यमलम्भि पुम्भिः । यत्केऽपि सञ्जगदिरे परमेशितृत्वं तेषामपि श्रुतिषु तन्महिमप्रसङ्गात् ॥ ३५॥ नित्येषु वस्तुषु भवन्निरपेक्षमेव तत्तस्वरूपमिति केचिदिह भ्रमन्तः । ऐश्वर्यमत्र तव सावधिकं गिरन्ते ब्रूते त्रयी तु निरुपाधिकमीशनं ते ॥ ३६॥ इच्छात एव तव विश्वपदार्थसत्ता नित्यं प्रियास्तव तु केचन ते हि नित्याः । नित्यं त्वदेकपरतन्त्र निजस्वरूपा भावत्कमङ्गळगुणा हि निदर्शनं न ॥ ३७॥ विश्वस्य विश्वविधकारणमच्युतत्वं कार्यं तदेतदखिलं चिदचित्स्वरूपम् । त्वं निर्विकार इति वेदशिरस्सु घोषो निस्सीममेव तव दर्शयतीशितृत्वम् ॥ ३८॥ किं साधनः क्व निवसन् किमुपाददानः कस्मै फलाय सृजतीश इदं समस्तम् । इत्याद्यनिष्ठितकुतर्कमतर्कयन्तः त्वद्वैभवं श्रुतिविदो विदुरप्रतर्क्यम् ॥ ३९॥ यत्संवृतं दशगुणोत्तरसप्ततत्त्वै- रण्डं चतुर्दश जगद्भवधातृधाम । अण्डानि तत्सुसदृशानि परश्शतानि क्रीडाविधेस्तव परिच्छदतामगच्छन् ॥ ४०॥ इच्छाविहारविधये विहितान्यमूनि स्यात्तद्विभूतिलवलेशकलायुतांशः । या वै न जातु परिणामपदास्पदं सा कालात्मिका तव परा महती विभूतिः ॥ ४१॥ यद्वैष्णवं हि परमं पदमामनन्ति खं वा यदेव परमं तमसः परस्तात् । तेजोमयं परमसत्त्वमयं ध्रुवं य- दानन्दकन्दमतिसुन्दरमद्भुतं यत् ॥ ४२॥ यद्ब्रह्मरुद्रपुरुहूतमुरवैर्दुरापं नित्यं निवृत्तिनिरतैस्सनकादिभिर्वा । सायुज्यमुज्ज्वलमुशन्ति यदाऽऽपरोक्ष्यं यस्मात्परं न पदमञ्जितमस्ति किश्चित् ॥ ४३॥ रूपेण सद्गुणगणैः परया समृद्ध्या भावैरुदारमधुरैरपि वा महिम्ना । तादृक्तदीदृगिदमित्युपवर्णयन्त्यो वाचो यदीयविभवस्य तिरस्क्रियायै ॥ ४४॥ यद्वृद्ध्यपक्षयविनाशमुखैर्विकारैः एतैरसंस्तृतमनस्तमितास्तिशब्दम् । यद्गौरवात् श्रुतिषु फल्गुफलं क्रियाणा- मादिष्टमन्यदसुखोत्तरमध्रुवं च ॥ ४५॥ निष्कल्मषैर्निहतजन्मजराविकारै- भूयिष्ठभक्तिविभवैरभवैरवाप्यम् । अन्यैरधन्यपुरुषैर्मनसाऽप्यनाप्यं वैकण्ठनाम तव धाम तदामनन्ति ॥ ४६॥ नित्या तवान्यनिरपेक्षमहामहिम्नो - ऽप्येतादृशी निरवधि निर्यता विभूतिः । ज्ञानादयो गुणगणास्समतीतसीमा लक्ष्मीः प्रिया परिजनाः पतगेन्द्रमुख्याः ॥ ४७॥ एकस्य येषु हि गुणस्य लवायुतांशः स्यात्कस्यचित्स खलु वाङ्मनसातिगश्रीः । ते तादृशोऽत्यवधयस्समतीतसङ्ख्याः त्वत्सद्गुणास्त्वमसि तन्निरपेक्षलक्ष्मीः ॥ ४८॥ सर्वस्य चैव गुणतो हि विलक्षणत्व- मैश्वर्यतश्च किल कश्चिदुदञ्चितस्स्यात् । तत्प्रत्युत त्वयि विभो विभवो गुणाश्च सम्बन्धतस्तव भजन्ति हि मङ्गलत्वम् ॥ ४९॥ दूरे गुणास्तव तु सत्त्वरजस्तमांसि तेन त्रयी प्रथयति त्वयि निर्गुणत्वम् । नित्यं हरे निखिलसङ्गुणसागरं हि त्वामामनन्ति परमीश्वरमीश्वराणाम् ॥ ५०॥ ज्ञानात्मनस्तव तदेव गुणं गृणन्ति तेजोमयस्य हि मणेर्गुण एव तेजः । तेनैव विश्वमपरोक्षमुदीक्षसे त्वं रक्षा त्वदीक्षणत एव यतोऽखिलस्य ॥ ५१॥ त्रय्युद्यता तव युवत्वमुखैर्गणौघै- रानन्दमेधितमियानिति सन्नियन्तुम् । ते ये शतन्त्विति परम्परया प्रवृत्ता नैवैष वाङ्मनसगोचर इत्युदाह ॥ ५२॥ एवं तया चतुरया तव यौवनाद्या- स्सर्वे गुणास्सह समस्तविभूतिभिश्च । प्रव्याहृताः स्युरवधीनवधीरयन्तो वाचामगोचरमहामहिमान एव ॥ ५३॥ सवर्तवर्ति निखिलं निरभिज्ञमज्ञं चित्रे च कर्मणि यथार्हमहो नियच्छन् । सद्यः कृमिद्रुहिणभेदमभेदमेत- दाविश्चकर्थ सकृदीक्षणदीक्षणेन ॥ ५४॥ अस्तं यदुद्यदुपचाय्यपचायि चैव- मीशं दरिद्रमथ जङ्गममप्यलिङ्गम् । विश्वं विचित्रमविलक्षणवीक्षणेन विक्षोभयस्यनवधिर्बत शक्तिरैशी ॥ ५५॥ रूपप्रकार परिणामकृतव्यवस्थं विश्वं विपर्यसितुमन्यदसच्चकर्तुम् । क्षाम्यन् स्वभावनियमं किमुदीक्षसे त्वं स्वातन्त्र्यमैश्वरमपर्यनुयोज्यमाहुः ॥ ५६॥ संवर्तसम्भृतकरस्य सहस्ररश्मे- रुस्रं तमिस्रयदजस्रविहारहारि । नित्यानुकूलमनुकूलनृणां परेषा- मुद्वेजनं च तव तेज उदाहरन्ति ॥ ५७॥ नैव ह्यवाप्यमनवाप्तमिहास्ति यस्य सत्ताऽपि तस्य तव वीक्षणतः प्रजानाम् । सम्पत्तु किं पुनरितो न वदान्यमन्यं मन्ये त्वमेव खलु मन्दिरमिन्दिरायाः ॥ ५८॥ पापै रनादिभवसम्भववासनोत्थै- र्दुःखेषु यः खलु मिमङ्क्षति हन्त जन्तुः । तं केवलं नु कृपयैव समुद्धरिष्यन् तद्दुष्कृतस्य ननु निष्कृतिमात्थ शास्त्रैः ॥ ५९॥ शास्त्रैरनादिनिधनैः स्मृतिभिस्त्वदीय- दिव्यावतारचरितैश्शुभया च दृष्ट्या । निःश्रेयसं यदुपकल्पयसि प्रजानां सा त्वत्कृपाजलधितल्लजवल्गितश्रीः ॥ ६०॥ है हन्त जन्तुषु निरन्तरसन्ततात्मा पाप्मा हि नाम वद कोऽयमचिन्त्यशक्तिः । यस्त्वत्कृपाजलधिमप्यतिवेलरवेल- मुल्लङ्घयत्यकृतभासुरभागधेयान् ॥ ६१॥ यद्ब्रह्मकल्पनियतानुभवेऽप्यनाश्यं तत्किल्बिषं सृजति जन्तुरिह क्षणार्धे । एवं सदा सकलजन्मसु सापराधं क्षाम्यस्यहो तदभिसन्धिविराममात्रात् ॥ ६२॥ क्षान्तिस्तवेयमियती महती कथन्नु मुह्येदहो त्वयि कृताञ्जलिपञ्जरेषु । इत्थं स्वतो निखिलजन्तुषु निर्विशेषं वात्सल्यमुत्सकजनेषु कथं गुणस्ते ॥ ६३॥ विश्वं धियैव विरचय्य निचाय्य भूय- स्सञ्जह्रुषस्सति समाश्रितवत्सलत्वे । आजग्मुषस्तव गजोत्तमबृंहितेन पादं पराममृशुषोऽपि च का मनीषा ॥ ६४॥ यः कश्चिदेव यदि किञ्चन हन्त जन्तु- र्भव्यो भजेत भगवन्तमनन्यचेताः । तं सोऽयमीदृश इयानिति वाप्यजानन् है वैनतेय स ममाप्युररीकरोषि ॥ ६५॥ त्वत्साम्यमेव भजतामभिवाञ्छसि त्वं त्वत्सात्कृतैर्विभवरूपगुणैस्त्वदीयैः । मुक्तिं ततोऽपि परमं तव साम्यमाहु- स्त्वद्दास्यमेव विदुषां परमं मतं तत् ॥ ६६॥ तद्वै तथाऽस्तु कतमोऽयमहो स्वभावो यावान्यथाविधगुणो भजते भवन्तम् । तावांस्तथाविधगुणस्तदधीनवृत्तिः संश्लिष्यसे त्वमिह तेन समानधर्मा ॥ ६७॥ श्रीवैकुण्ठनाथमभिष्टौति -- नीलाञ्जनाद्रिनिभमुन्नसमायताक्ष- माजानुजैत्रभुजमायतकर्णपाशम् । श्रीवत्सलक्षणमुदारगभीरनाभिं पश्येम देव शरदश्शतमीदृशं त्वाम् ॥ ६८॥ अम्भोरुहाक्षमरविन्दनिभाङ्घ्रियुग्म- माताम्रतामरसरम्यकराग्रकान्तिम् । भृङ्गालकं भ्रमरविभ्रमकायकान्तिं पीताम्बरं वपुरदस्तु वयं स्तुवाम ॥ ६९॥ भ्रूविभ्रमेण मृदुशीतविलोकितेन मन्दस्मितेन मधुराक्षरया च वाचा । प्रेमप्रकर्षपिशुनेन विकासिना च सम्भावयिष्यसि कदा मुखपङ्कजेन ॥ ७०॥ वज्राङ्कुशध्वजसरोरुहशङ्खचक्र- मत्स्यीसुधाकलशकल्पककल्पिताङ्कम् । त्वत्पादपद्मयुगळं विगळत्प्रभाभि- र्भूयोऽभिषेक्ष्यति कदा नु शिरो मदीयम् ॥ ७१॥ त्रैविक्रम क्रमकृताक्रमणत्रिलोकं उत्तंसमुत्तममनुत्तमभक्तिभाजाम् । नित्यं धनं मम कदा हि मदुत्तमाङ्ग- मङ्गीकरिष्यति चिरं तव पादपद्मम् ॥ ७२॥ उन्निद्रपत्रशतपत्रसगोत्रमन्त- र्लेखारबिन्दमभिनन्दनमिन्द्रियाणाम् । मन्मूर्ध्नि हन्त करपल्लवतल्लजं ते कुर्वन्कदा कृतमनोरथयिष्यसे माम् ॥ ७३॥ आङ्गी निसर्गनियता त्वयि हन्त कान्ति- र्नित्यं तवालमियमेव तथाऽपि चान्या । वैभूषणी भवतिं कान्तिरलन्तरां सा है पुष्कलैव निखिलाऽपि भवद्धिभूतिः ॥ ७४॥ श्रीवत्सकौस्तुभकिरीटललाटिकाभिः केह्यहारकरकोत्तमकर्णिकाभिः । उद्दामदाममणिनूपुर नीविबन्धै- र्भान्तं भवन्तमनिमेषमुदीक्षिषीय ॥ ७५॥ ऐन्दीवरी क्वचिदपि क्वचिदारविन्दी चन्द्रातपी क्वचन च क्वचनाथ हैमी । कान्तिस्तवोढपरभागपरस्परश्रीः पार्येत पारणयितुं किमु चक्षुषोर्मे ॥ ७६॥ त्वां सेवितं जलजचक्रगदासिशार्ङ्गै- स्तार्क्ष्येण सैन्यपतिनाऽनुचरैस्तथाऽन्यैः । देव्या श्रिया सह वसन्तमनन्तभोगे भुञ्जीय साञ्जलिरसङ्कुचिताक्षिपक्ष्मा ॥ ७७॥ कैङ्कर्यनित्यनिरतैर्भवदेकभोगै- र्नीत्यैरनुक्षणनवीनरसार्द्रभावैः । नित्याभिवाञ्छितपरस्परनीचभावै- र्मद्दैवतैः परिजनस्तव सङ्गमीय ॥ ७८॥ यत्किञ्चिदुज्जलमिदं यदुपाख्ययाऽऽहुः सौन्दर्यमृद्धिरिति यन्महिमांशलेशैः । नाम्नैव यां श्रियमुशन्ति यदीयधाम त्वामामनन्ति यतमायतमानसिद्धिः ॥ ७९॥ या च त्वयाप्युदधिमन्थनयत्नलभ्या यान्तर्हितेति जगदुन्मथनोद्यतोऽभूः । या च प्रतिक्षणमपूर्वरसानुबन्धै- र्भवैर्भवन्तमभिनन्दयते सदैव ॥ ८०॥ रूपश्रिया गुणगणैर्विभवेन धाम्ना भावैरुदारमधुरैश्चतुरैश्चरित्रैः । नित्यं तवैव सदृशीं श्रियमीश्वरीं त्वां त्वां चाञ्चितः परिचरेयमुदीर्णभावः ॥ ८१॥ या बिभ्रती स्थिरचरात्मकमेव विश्वं विश्वम्भरा परमया क्षमया क्षमा च । तां मातरं च पितरं च भवन्तमस्य व्युञ्छन्तु रात्रय इमा वरिवस्यतो मे ॥ ८२॥ भावैरुदारमधुरैर्विविधैर्विलासैः भ्रूविभ्रमस्मितकटाक्षनिरीक्षणैश्च । या त्वन्मयी त्वमपि यन्मय एव सा मां नीला नितान्तमुररीकुरुतामुदारा ॥ ८३॥ भावैरनुक्षणमपूर्वरसानुविद्धै- रत्यद्भुतैरभिनवैरभिनन्द्य देवीः । भृत्यान् यथोचितपरिच्छदिनो यथार्हं सम्भावयन्तमभितो भगवन् भवेयम् ॥ ८४॥ हा हन्त हन्त हतकोऽस्मि खलोऽस्मि धिङ्मां मुह्यन्नहो अहमिदं किमुवाच वाचा । त्वामङ्ग मङ्गळगुणास्पदमस्तहेय मा स्मर्तुमेव कथमर्हति मादृगंहः ॥ ८५॥ अंहः प्रसह्य विनिगृह्य विशोध्य बुद्धिं व्यापू(धू)य विश्वमशिवं जनुषाऽनुबद्धम् । आदाय सद्गुणगणानपि नाहमर्ह- स्त्वत्पादयोर्यदहमत्र चिरं निमग्नः ॥ ८६॥ जानेऽथवा किमहमङ्ग यदेव सङ्गा- दङ्गीकरोषि न हि मङ्गलमन्यदस्मात् । तेन त्वमेन मुररीकुरुषे जनं चे- न्नैवामुतो भवति युक्ततरो हि कश्चित् ॥ ८७॥ यन्नाभवाम भवदीयकटाक्षलक्षं संसारगर्तपरिवर्तमतोऽगमाम । आगांसि ये खलु सहस्रमजस्रमेव जन्मस्वतन्महि कथं त इमेऽनुकम्प्याः ॥ ८८॥ सत्कर्म नैव किल किञ्चन सञ्चिनोमि विद्याप्यवद्यरहिता च तु विद्यते मे । किञ्च त्वदञ्चितपदाम्बुजभक्तिहीनः पात्रं भवामि भगवन् भवतो दयायाः ॥ ८९॥ किं भूयसा प्रलपितेन यदेव किञ्चि- त्पापाह्वमल्पमुरु वा तदशेषमेषः । जानन्न वा शतसहस्रपरार्धकृत्वो योऽकार्षमेनमगतिं भगवन् क्षमस्व ॥ ९०॥ देव त्वदीयचरणप्रणयप्रवीण रामानुजार्य विषयीकृतमप्यहो माम् । भूयः प्रधर्षयति वैषयिको विमोहो मत्कर्मणः कतरदत्र समानसारम् ॥ ९१॥ गर्भेषु निर्भरनिपीडनखिन्नदेहः क्षोदीयसोऽतिमहतोऽप्यखिलस्य जन्तोः । जन्मान्तराण्यनुविचिन्त्य परस्सहस्रा- ण्यत्राहमप्रतिविधिर्निहतश्चरामि ॥ ९२॥ भूयश्च जन्मसमयेषु सुदुर्वचानि दुःखानि दुःखमतिरिच्य किमप्यजानन् । मूढोऽनुभूय पुनरेव तु बालभावं दुःखोत्तरं निजचरित्रममुत्र सेवे ॥ ९३॥ भूयांसि भूय उपयन्विविधानि दुःखा- न्यन्यच्च दुःखमनुभूय सुखभ्रमेण । दुःखानुबन्धमपि दुःखविमिश्रमल्पं क्षुद्रं जुगुप्सितसुखं सुखमित्युपासे ॥ ९४॥ लोलद्भिरिन्द्रियहयैरपथेषु नीतो दुप्प्रापदुर्भगमनोरथमथ्यमानः । विद्याधनाभिजनजन्ममदेन काम- क्रोधादिभिश्च हतधीर्न शमं प्रयामि ॥ ९५॥ लभ्येषु दुर्लभतरेष्वपि वाञ्छितेषु जाते सहस्रगुणतः प्रतिलम्भनेऽपि । विघ्नैर्हतेऽप्यपि च तेषुसमूलघातं वर्धिष्णुरेव न तु शाम्यति हन्त तृष्णा ॥ ९६॥ त्वत्कीर्तनस्तुतिनमस्कृतिबेदनेषु श्रद्धा न भक्तिरपि शक्तिरथो न चेच्छा । नैवानुतापमतिरेष्वकृतेषु किन्नु भूयानहो परिकरः प्रतिकूलपक्षे ॥ ९७॥ एतेन वै सुविदितं बत मामकीन- दौरात्म्यमप्रतिविधेयमपारमीश । सम्मूर्च्छतोऽप्यपदमस्मि यतस्त्वदीय निस्सीमभूम करुणामृतवीचिवायोः ॥ ९८॥ ऐश्वर्यवीर्यकरुणागरिमक्षमाद्याः स्वामिन्नकारणसुहृत्त्वमथो विशेषात् । सर्वे गुणास्सविषयास्तव मामपार- घोराघपूर्णमगतिं निहतं समेत्य ॥ ९९॥ त्वत्पादसंश्रयणहेतुषु साधिकारा- नुद्युञ्जतश्चरितकृत्स्नविधींश्च तांस्तान् । त्वं रक्षसीति महिमा तव नालमेषा मां चेदनीदृशमनन्यगतिं न रक्षे ॥ १००॥ या कर्मणामधिकृतिर्य इहोद्यमस्ते एष्वप्यनुष्टितिरशेषमिदं हि पुंसाम् । त्वामन्तरेण न कथञ्चन शक्यमाप्तुं एवं तु तेषु मयि चास्ति न ते विशेषः ॥ १०१॥ निर्बन्ध एष यदि ते यदशेषवैध संसेविनो वरद रक्षसि नेतरांस्त्वम् । तर्हि त्वमेव मयि शक्त्यधिकारवाञ्छाः प्रत्यूहशान्तिमितरच्च विधेहि विश्वम् ॥ १०२॥ व्यक्तीकुर्वन्निगमशिरसामर्थमन्तर्निगूढं श्रीवैकुण्ठस्तुतिमकृत यश्श्रेयसे सज्जनानाम् । कूराधीशं गुरुतरदया दुग्धसिन्धुं तमीडे श्रीवत्साङ्गं श्रुतिमतगुरुच्छात्रशीलैकधाम ॥ १०३॥ इति वैकुण्ठस्तवः सम्पूर्णः ।