अक्षर आकार:

वह्निसूनुस्तवः

vahnisUnustavaH

वह्निसूनुस्तवः

यः कृष्णसेवार्थमगाधबोधं जगाद शास्त्रं भगवत्प्रणीतम् । निश्चित्य तद्भावमनन्यभावं तं वह्निसूनुं शरणं प्रपद्ये ॥ १॥ यः प्रार्थितो भक्तजनैः समस्तं करोति कार्यं करुणाकटाक्षः । क्षणं विना कृष्णकथां न चास्ति तं तह्निसूनुं शरणं प्रपद्ये ॥ २॥ यो गोकुलं गोपपतिर्यथा पुरा पुराणपुंसं प्रियमेत्य सादरम् । चकार वासं कमलानिवासं तं वह्निसूनुं शरणं प्रपद्ये ॥ ३॥ यो रासलीलाकुमुदौषधीशो भक्तार्थमाविष्कृतगोकुलेशः । तिरस्कृतानेकमहासुरेशस्तं वह्निसूनुं शरणं प्रपद्ये ॥ ४॥ यः संस्मृतः क्लेशमशेषमस्तं करोति सुस्थं निजभृत्यवर्गम् । तद्दुःखविध्वंसकृतोद्यमः सदा तं वह्निसूनुं शरणं प्रपद्ये ॥ ५॥ यः सर्वदाऽऽस्ते हरिदासवर्ये गोगोपगोपीजनराजिराजिते । श‍ृण्वन् सुगीतानि यशोयुतानि तं वह्निसूनुं शरणं प्रपद्ये ॥ ६॥ यो धर्मरक्षार्थमतिप्रबुद्धैर्यज्ञैः समीजे जनकं कृशानुम् । भक्त्यैककामः श्रुतितन्त्रविज्ञस्तं वह्निसूनुं शरणं प्रपद्ये ॥ ७॥ यो रासलीलामृतसिन्धुवृद्धिं करोति पूर्णेन्दुगणैस्तु पूर्णः । भक्तेङ्गितज्ञः शुभवाञ्छितप्रदस्तं वह्निसूनुं शरणं प्रपद्ये ॥ ८॥ इमं स्तवं यः प्रपठेत्त्वदङ्घ्रिध्यानैकनिष्ठः शरणप्रलिप्सुः । तं भावय श्रेष्ठतमं स्वभक्तं प्रार्थ्य त्विदं त्वद्रघुनायकस्य ॥ ९॥ इति श्रीरघुनाथजीकृतो वह्निसूनुस्तवः समाप्तः ।