अक्षर आकार:

वृत्रचतुःश्लोकीकारिकाः

vRRitrachatuHshlokIkArikAH

वृत्रचतुःश्लोकीकारिकाः

पूर्वमिन्द्रं प्रति प्राह ततो भक्त्याऽग्रतो हरिम् । दृष्टवा तत्प्रार्थयामास पुष्टिर्दृष्टफला यतः ॥ १॥ आद्ये तु पुष्टिमार्गीयो धर्मः स्मरणकीर्तने । सेवा चेति त्रयं तेन प्रार्थितः स निरूप्यते ॥ २॥ आत्मनश्चाधिकारित्वमुत्तमं दीनभावतः । प्रार्थनीयतया तस्य साधनं च कृपोच्यते ॥ ३॥ (१) लौकिको वैदिकश्चार्थस्त्रिविधः प्राकृतैर्गुणैः । क्रमेण ते भगवतो गुणैः षड्भिर्निराकृतः ॥ १॥ स्वर्गभूमिरसैश्वर्यं सात्त्विकादि तु लौकिकम् । मोक्षश्च पारमेष्ठ्यं च सिद्धयश्चेति वैदिकम् ॥ २॥ प्रवृत्तिधर्मसाध्यत्वात्सामान्यं तत्तु लौकिकम् । निवृत्तिधर्मसाध्यत्वाद्विशेषाद्वैदिकं परम् ॥ ३॥ प्रत्येकमेव ते चार्था न तु सम्भूय कुत्रचित् । भावयत्यखिलात्मत्वाद्भवन्त्येव तथा हि ते ॥ ४॥ अतोऽर्थो भगवानेव पुष्टिमार्गेऽङ्गमन्यतः । सर्वतो नैरपेक्ष्यं च तथाऽत्रापि निरूप्यते ॥ ५॥ (२) पुष्टिमार्गे हरे रूपदिदृक्षा मनसो हृदि । कामो निरूप्यते तत्र दृष्टान्तत्रितयं यथा ॥ १॥ द्वितीयं लौकिकं प्रोक्तमेकं शास्त्रीयमुत्तमम् । लौकिकस्त्रिगुणीभूय दृष्टान्तः स्यादलौकिके ॥ २॥ अन्यथैकतरेणापि सिद्धेऽर्थे त्रितयेन किम् । क्षुद्रूपो लौकिकः कामो रसरीत्या तु शास्त्रतः ॥ ३॥ प्रभोस्तु रसरूपत्वात् स्वस्यैकत्वेन चोत्तमः । अयमेव हि दृष्टान्तस्तेनान्ते चैकतोदितः ॥ ४॥ (३) इति श्रीविठ्ठलदीक्षितविरचितवृत्रचतुःश्लोकीस्थाद्य- श्लोकत्रयटीकाकारिकाः समाप्ताः ॥ पुष्टिमार्गे हरेर्दास्यं धर्मोऽर्थो हरिरेव हि । कामो हरेर्दिदृक्षैव मोक्षः कृष्णस्य चेद्ध्रुवम् ॥ १॥ (४) इति श्रीमद्वल्लभाचार्यविरचिता वृत्रचतुःश्लोकीस्थान्तिमश्लोकटीकाकारिका समाप्ता । (एवं वृत्रचतुःश्लोकीटीकास्थाः कारिकाः सन्ति । स्वतन्त्रतया श्रीमद्विठ्ठलेश्वरविरचिता वृत्रचतुःश्लोकी नास्त्येवेति विज्ञेयं स्वमार्गीयग्रन्थविद्भिर्विद्वद्भिः ।) Commentary on vRRitrachatuHshlokI by viThThaladIkShita