अक्षर आकार:

अदितिकृता वासुदेवस्तुतिः

aditikRRitA vAsudevastutiH

अदितिकृता वासुदेवस्तुतिः

अदितिरुवाच - नमः सर्वार्तिनाशाय नमः पुष्करमालिने । नमः परमकल्याणकल्याणायादिवेधसे ॥ १॥ नमः पङ्कजनेत्राय नमः पङ्कजनाभये । श्रियः कान्ताय दान्ताय दान्तदृश्याय चक्रिणे ॥ २॥ नमः पङ्कजसम्भूतिसम्भवायात्मयोनये । नमः शङ्खासिहस्ताय नमः कनकरेतसे ॥ ३॥ तथात्मज्ञानविज्ञान योगिचिन्त्यात्मयोगिने । निर्गुणायाविशेषाय हरये ब्रह्मरूपिणे ॥ ४॥ जगत्प्रतिष्ठितं यत्र जगता यो न दृश्यते । नमः स्थूलातिसूक्ष्माय तस्मै देवाय शङ्खिने ॥ ५॥ यं न पश्यन्ति पश्यन्तो जगदप्यखिलं नराः । अपश्यद्भिर्जगत्यत्र न देवो हृदि संस्थितः ॥ ६॥ यस्मिन्नेव विनश्येत यस्यैतदखिलं जगत् । तस्मै समस्तजगतामाधाराय नमो नमः ॥ ७॥ आद्यः प्रजापतिपतिर्यः प्रभूणां पतिः परः । पतिः सुराणां यस्तस्मै नमः कृष्णाय वेधसे ॥ ८॥ यः प्रवृत्तौ निवृत्तौ च इज्यते कर्मभिः स्वकैः । स्वर्गापवर्गफलदो नमस्तस्मै गदाभृते ॥ ९॥ यश्चिन्त्यमानो मनसा सद्यः पापं व्यपोहति । नमस्तस्मै विशुद्धाय पराय हरिवेधसे ॥ १०॥ यं बुद्ध्वा सर्वभूतानि देवदेवेशमव्ययम् । न पुनर्जन्ममरणे प्राप्नुवन्ति नमामि तम् ॥ ११॥ यो यज्ञे यज्ञपरमैरिज्यते यज्ञसंज्ञितः । तं यज्ञपुरुषं विष्णुं नमामि प्रभुमीश्वरम् ॥ १२॥ गीयते सर्वदेवेषु वेदविद्भिर्विदां पतिः । यस्तस्मै वेदवेद्याय विष्णवे जिष्णवे नमः ॥ १३॥ यतो विश्वं समुत्पन्नं यस्मिंश्च लयमेष्यति । विश्वागम प्रतिष्ठाय नमस्तस्मै महात्मने ॥ १४॥ ब्रह्मादि स्तम्बपर्यन्तं येन विश्वमिदं ततम् । मायाजालं समुत्तर्तुं तमुपेन्द्रं नमाम्यहम् ॥ १५॥ यस्तु तोयस्वरूपस्थो बिभर्त्यखिलमीश्वरः । विश्वं विश्वपतिं विष्णुं तं नमामि प्रजापतिम् ॥ १६॥ यमाराध्य विशुद्धेन मनसा कर्मणा गिरा । तरन्त्यविद्यामखिलां तमुपेन्द्रं नमाम्यहम् ॥ १७॥ विषादतोषरोषाद्यैःर्योऽजस्रं सुखदुःखजैः । नृत्यत्यखिलभूतस्थस्तमुपेन्द्रं नमाम्यहम् ॥ १८॥ मूर्तं तमोऽसुरमयं तद्वधाद्विनिहन्ति यः । रात्रिजं सूर्यरूपीव तमुपेन्द्रं नमाम्यहम् ॥ १९॥ कपिलादिस्वरूपस्थो यश्चाज्ञानमयं तमः । हन्ति ज्ञानप्रदानेन तमुपेन्द्रं नमाम्यहम् ॥ २०॥ यस्याक्षिणी चन्द्रसूर्यौ सर्वलोकशुभाशुभम् । पश्यतः कर्म सततमुपेन्द्रं तं नमाम्यहम् ॥ २१॥ यस्मिन् सर्वेश्वरे सर्वं सत्यमेतन्मयोदितम् । नानृतं तमजं विष्णुं नमामि प्रभवाप्ययम् ॥ २२॥ यच्च तत्सत्यमुक्तं मे भूयांश्चातो जनार्दनः । सत्येन तेन सकलाः पूर्यन्तां मे मनोरथाः ॥ २३॥ एवं स्तुतः स भगवान् वासुदेव उवाच ताम् । अदृश्यः सर्वभूतानां तस्याः सन्दर्शने स्थितः ॥ २४॥ मनोरथां स्त्वमदिते यानिच्छस्यभिवाङ्छितान् । तांस्त्वं प्राप्स्यसि धर्मज्ञे मत्प्रसादान्न संशयः ॥ २५॥ श‍ृणुष्व सुमहाभागे वरो यस्ते हृदि स्थितः । तमाशु व्रियतां कामं श्रेयस्ते सम्भविष्यति । मद्दर्शनं हि विफलं न कदाचिद्भविष्यति ॥ २६॥ इति अदितिकृता वासुदेवस्तुतिः समाप्ता । matsyapurANa adhyAya 244 shlokAH 12-37