अक्षर आकार:

वामनस्तोत्रम् पद्मपुराणान्तर्गतम्

vAmanastotram from Padmapurana

वामनस्तोत्रम् पद्मपुराणान्तर्गतम्

श्रीगणेशाय नमः । अदितिरुवाच । नमस्ते देवदेवेश सर्वव्यापिन् जनार्दन । सत्त्वादिगुणभेदेन लोकव्यापारकारिणे ॥ १॥ नमस्ते बहुरूपाय अरूपाय नमो नमः । सर्वैकाद्भुतरूपाय निर्गुणाय गुणात्मने ॥ २॥ नमस्ते लोकनाथाय परमज्ञानरूपिणे । सद्भक्तजनवात्सल्यशीलिने मङ्गलात्मने ॥ ३॥ यस्यावताररूपाणि ह्यर्जयन्ति मुनीश्वराः । तमादिपुरुषं देवं नमामीष्टार्थसिद्धये ॥ ४॥ यं न जानन्ति श्रुतयो यं न जानन्ति सूरयः । तं नमामि जगद्धेतुं मायिनं तममायिनम् ॥ ५॥ यस्यावलोकनं चित्रं मायोपद्रववारणम् । जगद्रूपं जगत्पालं तं वन्दे पद्मजाधवम् ॥ ६॥ यो देवस्त्यक्तसङ्गानां शान्तानां करुणार्णवः । करोति ह्यात्मना सङ्गं तं वन्दे सङ्गवर्जितम् ॥ ७॥ यत्पादाब्जजलक्लिन्नसेवारञ्जितमस्तकाः । अवापुः परमां सिद्धिं तं वन्दे सर्ववन्दितम् ॥ ८॥ यज्ञेश्वरं यज्ञभुजं यज्ञकर्मसु निष्ठितम् । नमामि यज्ञफलदं यज्ञकर्मप्रबोधकम् ॥ ९॥ अजामिलोऽपि पापात्मा यन्नामोच्चारणादनु । प्राप्तवान्परमं धाम तं वन्दे लोकसाक्षिणम् ॥ १०॥ ब्रह्माद्या अपि ये देवा यन्मायापाशयन्त्रिताः । न जानन्ति परं भावं तं वन्दे सर्वनायकम् ॥ ११॥ हृत्पद्मनिलयोऽज्ञानां दूरस्थ इव भाति यः । प्रमाणातीतसद्भावं तं वन्दे ज्ञानसाक्षिणम् ॥ १२॥ यन्मुखाद्ब्राह्मणो जातो बाहुभ्यः क्षत्रियोऽजनि । तथैव ऊरुतो वैश्यः पद्भ्यां शूद्रो अजायत ॥ १३॥ मनसश्चन्द्रमा जातो जातः सूर्यश्च चक्षुषः । मुखादिन्द्रस्तथाग्निश्च प्राणाद्वायुरजायत ॥ १४॥ त्वमिन्द्रः पवनः सोमस्त्वमीशानस्त्वमन्तकः । त्वमग्निर्निरृतिश्चैव वरुणस्त्वं दिवाकरः ॥ १५॥ देवाश्च स्थावराश्चैव पिशाचाश्चैव राक्षसाः । गिरयः सिद्धगन्धर्वा नद्यो भूमिश्च सागराः ॥ १६॥ त्वमेव जगतामीशो पुन्नामास्ति परात्परः । var यन्नामास्ति त्वद्रूपमखिलं तस्मात्पुत्रान्मे पाहि श्रीहरे ॥ १७॥ इति स्तुत्वा देवधात्री देवं मत्वा पुनः पुनः । var नत्वा उवाच प्राञ्जलिर्भूत्वा हर्षाश्रुक्षालितस्तनी ॥ १८॥ अनुग्राह्याऽस्मि देवेश हरे सर्वादिकारण । अकण्टकश्रियं देहि मत्सुतानां दिवौकसाम् ॥ १९॥ अन्तर्यामिन् जगद्रूप सर्वभूतपरेश्वर । तवाज्ञातं किमस्तीह किं मां मोहयसि प्रभो ॥ २०॥ तथापि तव वक्ष्यामि यन्मे मनसि वर्तते । वृथापुत्रास्मिदेवेश रक्षोभिः परिपीडिता ॥ २१॥ एतान्न हन्तुमिच्छामि मत्सुता दितिजातयः । var दितिजा यतः तानहत्वा श्रियं देहि मत्सुतानामुवाच सा ॥ २२॥ इत्युक्तो देवदेवस्तु पुनः प्रीतिमुपागतः । उवाच हर्षयन्साध्वीं कृपयाऽभिपरिप्लुतः ॥ २३॥ श्रीभगवानुवाच । प्रीतोऽस्मि देवि भद्रं ते भविष्यामि सुतस्तव । यतः सपत्नीतनयेष्वपि वात्सल्यशालिनी ॥ २४॥ त्वया च मे कृतं स्तोत्रं पठन्ति भुवि मानवाः । तेषां पुत्रा धनं सम्पन्न हीयन्ते कदाचन ॥ २५॥ अन्ते मत्पदमाप्नोति यद्विष्णोः परमं शुभम् ॥ २६॥ इति श्रीपद्मपुराणान्तर्गतं वामनस्तोत्रं समाप्तम् ।