अक्षर आकार:

उडुपि श्रीकृष्ण सुप्रभातम्

uDupi shrIkRiShNa suprabhAtam

उडुपि श्रीकृष्ण सुप्रभातम्

उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥॥ नारायणाखिल शरण्य रथाङ्ग पाणे । प्राणायमान विजयागणित प्रभाव । गीर्वाणवैरि कदलीवन वारणेन्द्र । मध्वेश कृष्ण भगवन् तव सुप्रभातं ॥ १॥ उत्तिष्ठ दीन पतितार्तजनानुकम्पिन् । उत्तिष्ठ विश्व रचना चतुरैक शिल्पिन् । उत्तिष्ठ वैष्णव मतोद्भव धामवासिन् । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २॥ उत्तिष्ठ पातय कृपामसृणान् कटाक्षान् । उत्तिष्ठ दर्शय सुमङ्गल विग्रहन्ते । उत्तिष्ठ पालय जनान् शरणं प्रपन्नान् । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ३॥ उत्तिष्ठ यादव मुकुन्द हरे मुरारे । उत्तिष्ठ कौरवकुलान्तक विश्वबन्धो । उत्तिष्ठ योगिजन मानस राजहंस । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ४॥ उत्तिष्ठ पद्मनिलयाप्रिय पद्मनाभ । पद्मोद्भवस्य जनकाच्युत पद्मनेत्र । उत्तिष्ठ पद्मसख मण्डल मध्यवर्तिन् । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ५॥ मध्वाख्यया रजतपीठपुरेवतीर्णः । त्वत्कार्य साधनपटुः पवमान देवः । मूर्तेश्चकार तव लोकगुरोः प्रतिष्ठां । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ६॥ सन्यास योगनिरताश्रवणादिभिस्त्वां । भक्तेर्गुणैर्नवभिरात्म निवेदनान्तैः । अष्टौयजन्ति यतिनो जगतामधीशं । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ७॥ या द्वारकापुरि पुरातव दिव्यमूर्तिः । सम्पूजिताष्ट महिषीभिरनन्य भक्त्या । अद्यार्चयन्ति यतयोष्टमठाधिपास्तां । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ८॥ वामेकरे मथनदण्डमसव्य हस्ते । गृह्णंश्च पाशमुपदेष्टु मना इवासि । गोपालनं सुखकरं कुरुतेति लोकान् । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ९॥ सम्मोहिताखिल चराचररूप विश्व । श्रोत्राभिराममुरली मधुरारवेण । आधायवादयकरेण पुनश्चवेणुं । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १०॥ गीतोष्णरश्मिरुदयन्वहनोदयाद्रौ । यस्याहरत्सकललोकहृदान्धकारं । सत्वं स्थितो रजतपीठपुरे विभासी । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ११॥ कृष्णेति मङ्गलपदं कृकवाकुवृन्दं । वक्तुं प्रयत्य विफलं बहुशः कुकूकुः । त्वां सम्प्रबोधयितुमुच्चरतीतिमन्ये । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १२॥ भृङ्गापिपासव इमे मधु पद्मषन्दे । कृष्णार्पणं सुमरसो स्वितिहर्षभाजः । झङ्कार राव मिषतः कथयन्ति मन्ये । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १३॥ निर्यान्ति शावक वियोगयुता विहङ्गाः । प्रीत्यार्भकेशु च पुनः प्रविशन्ति नीडं । धावन्ति सस्य कणिकानुपचेतु मारात् । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १४॥ भूत्वातिथिः सुमनसामनिलः सुगन्धं । सङ्गृह्यवाति जनयन् प्रमदं जनानां । विश्वात्मनोर्चनधियातव मुञ्च निद्रां । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १५॥ तारालि मौक्तिक विभूषण मण्डिताङ्गी । प्राचीदुकूल मरुणं रुचिरं दधान । खेसौखसुप्तिक वधूरिव दृश्यतेद्य । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १६॥ आलोक्य देह सुषमां तव तारकालिः । ह्रीणाक्रमेण समुपेत्य विवर्णभावं । अन्तर्हितेवनचिरात्यज शेषशय्यां । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १७॥ साध्वीकराब्जवलयध्वनिनासमेतो । गानध्वनिः सुदधि मन्थन घोष पुष्टः । संश्रूयते प्रतिग्रहं रजनी विनष्टा । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १८॥ भास्वानुदेश्यति हिमांशुर भूद्गतश्रीः । पूर्वान्दिशामरुणयन् समुपैत्यनूरुः । आशाः प्रसाद सुभगाश्च गतत्रियामा । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ १९॥ आदित्य चन्द्र धरणी सुत रौहिणेय । जीवोशनः शनिविधुं तुदकेतवस्ते । दासानुदास परिचारक भृत्य भृत्य । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २०॥ इन्द्राग्नि दण्डधर निर्रिति पाशिवायु । वित्तेश भूत पतयो हरितामधीशाः । आराधयन्ति पदवी च्युति शङ्कया त्वाम् । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २१॥ वीणां सती कमलजस्य करे दधाना । तन्त्र्यागलस्य चरवे कलयन्त्य भेदं । विश्वं निमज्जयति गानसुधारसाब्धौ । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २२॥ देवर्षिरंबर तलादवनीं प्रपन्नः । त्वत्सन्निधौ मधुरवादित चारु वीणा । नामानिगायति नत स्फुरितोत्तमाङ्गो । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २३॥ वातात्मजः प्रणत कल्प तरुर्हनूमान् । द्वारे कृताञ्जलि पुटस्तवदर्शनार्थी । तिष्ठत्यमुं कुरुकृतार्थमपेत निद्रं । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २४॥ सर्वोत्तमो हरिरिति श्रुतिवाक्य वृन्दैः । चन्द्रेश्वर द्विरदवक्त्र षडाननाद्याः । उद्घोशयन्त्य निमिषा रजनी प्रभात । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २५॥ मध्वाभिदे सरसि पुण्यजले प्रभाते । गङ्गेंभ सर्वमघमाशु हरेति जप्त्वा । मज्जन्ति वैदिक शिखामणयो यथावन् । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २६॥ द्वारे मिलन्ति निगमान्त विदस्त्रयीज्ञाः । मीमांसकाः पदविदोनयदर्शनज्ञाः । गान्धर्ववेद कुशलाश्च तवेक्षणार्थं । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २७॥ श्री मध्वयोगि वरवन्दित पादपद्म । भैष्मी मुखांभोरुह भास्कर विश्ववन्द्य । दासाग्रगण्य कनकादिनुत प्रभाव । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २८॥ पर्याय पीठ मधिरुह्य मठाधिपास्त्वां । अष्टौ भजन्ति विधिवत् सततं यतीन्द्राः । श्री वादिराजनियमान् परिपालयन्तो । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ २९॥ श्रीमन्ननन्त शयनोडुपिवास शौरे । पूर्णप्रबोध हृदयांबर शीत रश्मे । लक्ष्मीनिवास पुरुषोत्तम पूर्णकाम । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ३०॥ श्री प्राणनाथ करुणा वरुणालयार्त । सन्त्राण शौन्द रमणीय गुणप्रपूर्ण । सङ्कर्षणानुज फणीन्द्र फणा वितान । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ३१॥ आनन्दतुन्दिल पुरन्दर पूर्वदास । वृन्दाभिवन्दित पदांबुजनन्द सूनो । गोविन्द मन्दरगिरीन्द्र धरांबुदाभ । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ३२॥ मीनाकृते कमठरूप वराहमूर्ते । स्वामिन् नृसिंह बलिसूदन जामदग्न्यः । श्री राघवेन्द्र यदुपुङ्गव बुद्ध कल्किन् । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ३३॥ गोपाल गोप ललनाकुलरासलीला । लोलाभ्रनील कमलेश कृपालवाल । कालीयमौलि विलसन्मणिरञ्जिताङ्घ्रे । मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥ ३४॥ कृष्णस्य मङ्गल निधेर्भुवि सुप्रभातं । येहर्मुखे प्रतिदिनं मनुजाः पठन्ति । विन्दन्ति ते सकल वाञ्छित सिद्धिमाशु । ज्ञानञ्च मुक्ति सुलभं परमं लभन्ते ॥ ३५॥ ॥ श्रीकृष्णार्पणमस्तु ॥ Edited by Ambarish Srivastava j\_ambarish@yahoo.com