अक्षर आकार:

श्रीत्रिविक्रमस्तोत्रम्

shrItrivikramastotram

श्रीत्रिविक्रमस्तोत्रम्

श्रीगणेशाय नमः ॥ विदारितारिसङ्घातं पदाक्रान्तजगत्त्रयम् । गदाचक्रधरं धीरं सदा वन्दे त्रिविक्रमम् ॥ १॥ शङ्खाम्भोजकरद्वन्द्वहुङ्कारार्दितदानव । शङ्काऽऽतङ्कहराहं ते किङ्करोऽस्मि त्रिविक्रम ॥ २॥ क्षमाकरोल्लसच्चक्रं कृपाविपुललोचनम् । अपारसुगुणस्तोममुपासे तं त्रिविक्रमम् ॥ ३॥ रमाधराश्लिष्टपार्श्वं समस्तसुरसेवितम् । भ्रमादिदोषहरं तं नमामि त्रिविक्रमम् ॥ ४॥ योगादङ्गमजस्राक्षीद्गङ्गामङ्गुष्ठतोऽसृजत् । तुङ्गामरचया तुङ्गं तङ्गयामि त्रिविक्रमम् ॥ ५॥ नानालङ्कारभरितं पीनावयवमोहनम् । ज्ञानानन्दमयं वन्दे श्रीनाथं तं त्रिविक्रमम् ॥ ६॥ वृन्दारकेन्द्रवन्द्याङ्घ्रिं नन्दितीर्थमुनेः प्रियम् । कन्दर्पकोटिलावण्यं तं ध्यायामि त्रिविक्रमम् ॥ ७॥ सुधाकुन्देन्दुधवलमधःकृतचराचरम् । उदारमादरद्वन्द्वे त्रिधामानं त्रिविक्रमम् ॥ ८॥ वेदान्तवेदितगुणं बोधप्रदमहर्निशम् । आधारं नौमि जगतां श्रीधामानं त्रिविक्रमम् ॥ ९॥ अनुयागेन बलिना मनुना मननेन च । दिने दिनेऽर्चितं वन्दे मनसा तं त्रिविक्रमम् ॥ १०॥ सर्पिःपायसनैवेद्यैर्भक्ष्यैश्च विविधैः सदा । नृत्यवादित्रगीतैश्च तर्पयामि त्रिविक्रमम् ॥ ११॥ वादिराजेन्द्रवरदं सोदापुरनिवासिनम् । मोदप्रदं सदा वन्दे माधवं तं त्रिविक्रमम् ॥ १२॥ धूपैर्गन्धानुलेपैश्च दीपैरपि मनःप्रियैः । तापसैः पूजितं वन्दे श्रीपतिं तं त्रिविक्रमम् ॥ १३॥ योऽसौ धवलगङ्गायाः पार्श्वे तिष्ठति सर्वदा । देशे देशे च विख्यातमासेवे तं त्रिविक्रमम् ॥ १४॥ अग्रे निधाय श्रीदेवीं पृष्ठे पार्श्वे च सज्जनान् । स्वर्गिभिः परितः सेव्या मध्ये भाति त्रिविक्रमः ॥ १५॥ शिलामयै रम्यतमशालावलभिमण्डपैः । कलशैश्चोल्लसद्देवालये भाति त्रिविक्रमः ॥ १६॥ यावच्चद्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी । तावत्त्रिविक्रमः सोऽयं पूज्यस्तिष्ठतु सज्जनैः ॥ १७॥ इदं स्तोत्रं वादिराजो मुदे सज्जनसन्ततेः । व्यधत्त तेन प्रीतोऽस्तु सदा श्रीदस्त्रिविक्रमः ॥ १८॥ इति श्रीवादिराजकृतं त्रिविक्रमस्तोत्रं सम्पूर्णम् ।