अक्षर आकार:

त्रिमूर्तिस्तुतिः

Trimurtistutih

त्रिमूर्तिस्तुतिः

नमस्त्रिमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने । गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ॥ १॥ नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते । अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधास्थितात्मने ॥ २॥ रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये तमःस्पृशे । अजाय सर्गस्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मने नमः ॥ ३॥ श्यामश्वेतारुणाङ्गा जलधरणिधरोत्फुल्लपङ्केरुहस्था सोमासावित्र्युपेता रथचरणपिनाकोग्रहुङ्कारशस्त्राः । देवा द्वित्र्यष्टनेत्रा जगदवनसमुच्छेदनोत्पत्तिदीक्षाः प्रीता वः पान्तु नित्यं हरिहरविधयस्तार्क्ष्र्यगोहंसपत्राः ॥ ४॥ इति त्रिमूर्तिस्तुतिः समाप्ता ।