अक्षर आकार:

श्रीतात्पर्यबोधः

shrItAtparyabodhaH

श्रीतात्पर्यबोधः

(श्रीतात्पर्यबोधग्रन्धांशः) श्रीमच्छ्रीवरगोकुलायतिविलोलाक्षीकदम्बाम्बुज- श्रेणीसन्मकरन्दपानकुशल श्रीषट्पदालीश्वरः । स्वीयानां हि सतामनन्यमनसां सम्पूरयन् कामनाः । सोऽयं श्रीवरगोकुले विजयते श्रीगोकुलेशः सदा ॥ १॥ नत्वा वै चरणाम्बुजं सुसुखदं ध्येयं सतां सर्वदा पद्मागारधरेन्दिराभृङ्गभवानीनाद्यगम्यं वरम् । श्रीश्रीगोकुलनायकस्य विमलं तात्पर्यबोधं करो- तीमं वल्लभपादपद्मसुमनास्तस्याज्ञया माहवः ॥ २॥ एकस्मिन् समये स्थितौ शुभमती कौचिञ्जनौ गोकुले- शाङ्घ्र्यम्बूद्भवयुग्मसक्तमनसौ श्रीवल्लभातिप्रियौ । श्रेष्ठो वल्लभदास एव च तयोर्वै कृष्णदासोऽपरः पप्रच्छाथ विचार्य प्रश्नममल तं श्रेष्ठभक्तं सुधीः ॥ ३॥ कृष्णदास उवाच- श्रेष्ठस्त्वं भक्तवर्येषु हरेर्वल्लभदास हि । दयासिन्धो ज्ञानसिन्धो कृपां कुरु मयि प्रिय ॥ ४॥ श्रीवल्लभाङ्गचिह्नानि दृश्यमानानि सर्वतः । पृच्छाम्याशुद्धभावेन कथयस्व सुबुद्धिमन् ॥ ५॥ द्विजरूपधरः साक्षाद्वल्लभः पुरुषोत्तमः । जयत्यतिशयं भूमौ स्वीयानां मुदमावहन् ॥ ६॥ तुलसीकाष्ठसम्भूतां कण्ठे मालां धरत्यसौ । तिलकं सान्तरालं च रदानम्बुदसन्निभान् ॥ ७॥ उदरे चिह्नमानीलं वामभागे सुवर्तुलम् । बहूपवीतकं कण्ठे सव्यभागे तु सूत्रयम् ॥ ८॥ श्रोत्रप्रवरयोरङ्गीकारस्तत्र सुलक्ष्म हि । मकराकारमारक्तं तत्र किं कारणं प्रिय ॥ ९॥ वेदादिग्रहणं कस्मात् सन्ध्यायास्तु विशेषतः । चक्रादिग्रहणं कस्मात् कुण्डले चक्रसन्निभे ॥ १०॥ कृष्णः श्यामस्त्वयं गौरस्तत्र किं कारणं प्रिय । पुराणपुरुषः साक्षाद्वल्लभो द्विजरूपभाक् ॥ ११॥ विभुर्मानवरूपी न तत्र किं कारणं सखे । शयनं दिवसे भूमावाचाराचरणं महत् ॥ १२॥ अतदन्यच्च सर्वं मे पृच्छते कृपया सखे । कथनीयं त्वया स्वस्थबुद्धितः श्रोतुमिच्छते ॥ १३॥ त्वं श्रीवल्लभपादाब्जासक्तोऽसि हरिवल्लभः । त्वत्पादाब्जाश्रितं मां हि कथयस्व कृपानिधे ॥ १४॥ इति तस्योदितं श्रुत्वा वल्लभङ्घ्रिसरोरुहम् । ध्यात्वा चोवाच वचनं तं श्रीवल्लभसेवकः ॥ १५॥ इति श्रीमाधवदासविरचितः श्रीतात्पर्यार्थबोधः ग्रन्थः सम्पूर्णः ।