अक्षर आकार:

स्वस्वामियुगलाष्टकम्

svasvAmiyugalAShTakam

स्वस्वामियुगलाष्टकम्

आसातामेकशरणे विहिताकरणे हृदि । स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ १॥ कृपां प्रकुरुतां दीने स्वत एक कृपाकरौ । स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ २॥ प्रसीदेतां मयि श्रीमद्व्रजेशचरणाश्रये । स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ ३॥ दास्यं प्रयच्छतां मह्यं समस्तफलमूर्धगम् । स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ ४॥ कदाऽपि मामनन्यं मा त्यजेतां निजसेवकम् । स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ ५॥ प्रमेयबलमात्रेण गृह्णीतां मत्करं दृढम् । स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ ६॥ आर्तिं निवारयेतां मे मस्तके हस्तधारणैः । स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ ७॥ मन्मूर्धनि विराजेतां प्रभू लोकविलक्षणौ । स्वामिनौ वल्लभाधीशाविठ्ठलेशाभिधौ मम ॥ ८॥ इति श्रीमद्धरिदासोदितं स्वस्वामियुगलाष्टकं सम्पूर्णम् ।