अक्षर आकार:

स्वप्रभुस्वरूपनिरूपणाष्टकम्

svaprabhusvarUpanirUpaNAShTakam

स्वप्रभुस्वरूपनिरूपणाष्टकम्

स्वामिनीभावगौरस्य स्वस्वरूपं प्रपश्यतः । कटाक्षैर्विठ्ठलेशस्य श्यामताचित्रितं वपुः ॥ १॥ स्वास्मिन्नभयभावेन स्वेषामुभयरूपताम् । स्पष्टं बोधयितुं गौरश्यामः श्रीविठ्ठलेश्वरः ॥ २॥ निजाचार्योदितस्वीयमार्गसेव्यस्वरूपताम् । बोधयन्नभयात्माऽयं गौरश्यामो विराजते ॥ ३॥ रसस्य द्विविधस्यापि स्वरूपे बोधयन् स्थितिम् । ऐक्यं विरुद्धधर्मत्वाद्गौरश्यामः कृपानिधिः ॥ ४॥ स्त्रीभावभगवद्भावोभयात्मेति विबोधितुम् । स्वस्वरूपं हरिर्गौरश्यामः श्रीविठ्ठलेश्वरः ॥ ५॥ भावात्मकत्वतो दृष्टिर्हासलीलाकृतिस्तथा । अतो विलोक्यते गौरश्यामः श्रीविठ्ठलेश्वरः ॥ ६॥ निजानन्दप्रदानेन व्यवधाने दिवानिशम् । न करोति व्रजस्थानमिति श्रीमत्प्रभुस्तथा ॥ ७॥ सर्वात्मकामभावात्मस्वरूपं बोधयन्प्रभुः । श्रीविठ्ठलेश्वरोऽस्माकं गौरश्यामो विराजते ॥ ८॥ इति श्रीहरिदासोदितं स्वप्रभुस्वरूपनिरूयणाष्टकं सम्पूर्णम् ।