अक्षर आकार:

श्रीसुदर्शनस्तोत्रम्

shrIsudarshanastotram

श्रीसुदर्शनस्तोत्रम्

सुदर्शन महाज्वाल प्रसीद जगदः पते । तेजोराशे प्रसीद त्वं कोटिसूर्यमितप्रभ ॥ १॥ अज्ञानतिमिरध्वंसिन् प्रसीद परमाद्भुत । सुदर्शन नमस्तेऽस्तु देवानां त्वं सुदर्शन ॥ २॥ असुराणां सुदुर्दर्श पिशाचानां भयङ्कर । भञ्जकाय नमस्तेऽस्तु सर्वेषामपि तेजसाम् ॥ ३॥ शान्तानामपि शान्ताय घोराय च दुरात्मनाम् । चक्राय चक्ररूपाय परचक्राय मायिने ॥ ४॥ हतये हेतिरूपाय हेतीनां पतये नमः । कालाय कालरूपाय कालचक्राय ते नमः ॥ ५॥ उग्राय चोग्ररूपाय क्रुद्धोल्काय नमो नमः । सहस्राराय शूराय सहस्राक्षाय ते नमः ॥ ६॥ सहस्राक्षादि पूज्याय सहस्रारशिरसे नमः । ज्योतिर्मण्डलरूपाय जगत्त्रितय धारिणे ॥ ७॥ त्रिनेत्राय त्रयी धाम्ने नमस्तेऽस्तु त्रिरूपिणे । त्वं यज्ञस्त्वं वषट्कारः त्वं ब्रह्मा त्वं प्रजापतिः ॥ ८॥ त्वमेव वह्निस्तवं सूर्यः त्वं वायुस्त्वं विशाम्पतिः । आदिमध्यान्त शून्याय नाभिचक्राय ते नमः ॥ ९॥ ज्ञानविज्ञानरूपाय ध्यान ध्येयस्वरूपिणे । चिदानन्दस्वरूपाय प्रकृतेः पृथगात्मने ॥ १०॥ चराचराणां भूतानां सृष्टिस्थित्यन्तकारिणे । सर्वेषामपि भूतानां त्वमेव परमागतिः ॥ ११॥ त्वयैव सर्वं सर्वेश भासते सकलं जगत् । त्वदीयेन प्रसादेन भास्करोऽस्मि सुदर्शन ॥ १२॥ त्वत्तेजसां प्रभावेन ममतेजो हतं प्रभो । भूयस्संहर तेजस्त्वं अविषह्यं सुरासुरैः ॥ १३॥ त्वत्प्रसादादहं भूयः भविष्यामि प्रभान्वितः । क्षमस्व ते नमस्तेऽस्तु अपराधं कृतं मया । भक्तवत्सल सर्वेश प्रणमामि पुनः पुनः ॥ १४॥ इति स्तुतो भानुमता सुदर्शनः हतप्रभेणाद्भुत धाम वैभवः । शशाम धाम्नातिशयेन धाम्नां सहस्रभानौ कृपया प्रसन्नः ॥ १५॥ ॥ इति श्रीकुम्भकोणमाहात्म्ये श्रीसूर्यकृत श्रीसुदर्शनस्तोत्रम् सम्पूर्णम् ॥ From page 924, Part II of Sri Jayamangala Stotram, 2nd Edition 2004 [Publishers Ms. N. Subhadra and Co., 1 Second Cross, Maravaneri, Salem 636 007 (Ph: 0427-2415873); Sri Anantarama Dikshithar Athishtanam Trust