अक्षर आकार:

श्रीसुदर्शननामस्तोत्रम्

shrIsudarshananAmastotram

श्रीसुदर्शननामस्तोत्रम्

(सहस्रनामस्तोत्रमिति व्यासनारदसंवादे । परं ५७५ नामान्येव सन्ति ।) प्रणम्य शिरसा देवं नारायणमशेषगम् । रमावक्षोजकस्तूरीपङ्कमुद्रितवक्षसम् ॥ १॥ सर्वशास्त्रार्थतत्त्वज्ञः पाराशर्यस्तपोधनः । हिताय सर्वजगतां नारदं मुनिमब्रवीत् ॥ २॥ ज्ञानविद्याविशेषज्ञं कर्पूरधवलाकृतिम् । वीणावादनसन्तुष्टमानसं मरुतां परम् ॥ ३॥ हिरण्यगर्भसम्भूतं हिरण्याक्षादिसेवितम् । पुण्यराशिं पुराणज्ञं पावनीकृतदिक्तटम् ॥ ४॥ व्यास उवाच- देवर्षे नारद श्रीमन्साक्षाद्ब्रह्माङ्गसम्भव । भवानशेषविद्यानां पारगस्तपसां निधिः ॥ ५॥ वेदान्तपारगः सर्वशास्त्रार्थप्रतिभोज्ज्वलः । परब्रह्मणि निष्णातः सच्चिदानन्दविग्रहः ॥ ६॥ जगद्धिताय जनितः साक्षादेव चतुर्मुखात् । हन्यन्ते भवता दैत्या दैत्यारिभुजविक्रमैः ॥ ७॥ कालोऽनुग्रहकर्ता त्वं त्रैलोक्यं त्वद्वशेऽनघ । मनुष्या ऋषयो देवास्त्वया जीवन्ति सत्तम ॥ ८॥ कर्तृत्वे लोककार्याणां वरत्वे परिनिष्ठित । पृच्छामि त्वामशेषज्ञं निदानं सर्वसम्पदाम् ॥ ९॥ सर्वसंसारनिर्मुक्तं चिद्घनं शान्तमानसम् । यः सर्वलोकहितकृद्यं प्रशंसन्ति योगिनः ॥ १०॥ इदं चराचरं विश्वं धृतं येन महामुने । स्पृहयन्ति च यत्प्रीत्या यस्मै ब्रह्मादिदेवताः ॥ ११॥ निर्माणस्थितिसंहारा यतो विश्वस्य सत्तम । यस्य प्रसादाद्ब्रह्माद्या लभन्ते वाञ्छितं फलम् ॥ १२॥ दारिद्र्यनाशो जायेत यस्मिन् श्रुतिपथं गते । विवक्षितार्थनिर्वाहा मुखान् सरतीह गीः ॥ १३॥ नृपाणां राज्यहीनानां येन राज्यं भविष्यति । अपुत्रः पुत्रवान्येन वन्ध्या पुत्रवती भवेत् ॥ १४॥ शत्रूणामचिरान्नाशो ज्ञानं ज्ञानैषिणामपि । चतुर्वर्गफलं यस्य क्षणाद्भवति सुव्रत ॥ १५॥ भूतप्रेतपिशाचाद्या यक्षराक्षसपन्नगाः । भूतज्वरादिरोगाश्च यस्य स्मरणमात्रतः ॥ १६॥ मुच्यन्ते मुनिशार्दूल येनाखिलजगद्धृतम् । तदेतदिति निश्चित्य सर्वशास्त्रविशारद ॥ १७॥ सर्वलोकहितार्थाय ब्रूहि मे सकलं गुरो । इत्युक्तस्तेन मुनिना व्यासेनामिततेजसा ॥ १८॥ बद्धाञ्जलिपुटो भूत्वा सादरं नारदो मुनिः । नमस्कृत्य जगन्मूलं लक्ष्मीकान्तं परात्परम् ॥ १९॥ उवाच परमप्रीतः करुणामृतधारया । आप्याययन्मुनीन्सर्वान् व्यासावादीन् ब्रह्मतत्परान् ॥ २०॥ नारदः - बहिरन्तस्तमच्छेदि ज्योतिर्वन्दे सुदर्शनम् । येनाव्याहतसङ्कल्पं वस्तु लक्ष्मीधरं विदुः ॥ २१॥ ॐ अस्य श्रीसुदर्शनरसहस्रनामस्तोत्रमहामन्त्रस्य अहिर्बुध्न्यो भगवानृषिः अनुष्टुप् छन्दः श्रीसुदर्शन- महाविष्णुर्देवता रं बीजम्, हुं शक्तिः, फटञ्चकलिकम्, रां रीं रूं रैं रौं रः इति मन्त्रः, श्रीसुदर्शनप्रसादसिद्ध्यर्थे जपे विनियोगः । ॐ रां अङ्गुष्ठाभ्यां नमः, ॐ रीं तर्जनीभ्यां नमः, ॐ रूं मध्यमाभ्यां नमः, ॐ रैं अनामिकाभ्यां नमः, ॐ रौं कनिष्ठिकाभ्यां नमः, ॐ रः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः - ॐ रां ज्ञानाय हृदयाय नमः ॐ रीं ऐश्वर्याय शिरसे स्वाहा, ॐ रूं शक्त्यै शिखायै वषट् ॐ रैं बलाय कवचाय हुं, ॐ रौं वीर्यायास्त्राय फट्, ॐ रः तेजसे नेत्राभ्यां वौषट् इति वा । अथ दिग्बन्धः - ॐ ठण्ठं पूर्वां दिशं चक्रेण बध्नामि नमश्चक्राय हुं फट् स्वाहा, ॐ ठण्ठं आग्नेयीं दिशं, ॐ ठण्ठं याम्यां दिशं, ॐ ठण्ठं नैरृत्यां दिशं, ॐ ठण्ठं वारुणीं दिशं, ॐ ठण्ठं वायवीं दिशं, ॐ ठण्ठं कौबेरीं दिशं, ॐ ठण्ठं ऐशानीं दिशं, ॐ ठण्ठं ऊर्ध्वां दिशं, ॐ ठण्ठं अधरां दिशं, ॐ ठण्ठं सर्वा दिशः चक्रेण बध्नामि नमश्चक्राय हुं फट् स्वाहा । इति दिग्बन्धः । ध्यानम्- कल्पान्तार्कप्रकाशं त्रिभुवनमखिलं तेजसा पूरयन्तं रक्ताक्षं पिङ्गकेशं रिपुकुलभयदं भीमदंष्ट्राट्टहासम् । शङ्खं चक्रं गदाब्जं पृथुतरमुसलं चापपाशाङ्कुशादीन् बिभ्राणं दोर्भिराद्यं मनसि मुररिपोर्भावये चक्रराजम् ॥ शङ्खं चक्रं गदाब्जं शरमसिमिषुधिं चापपाशाङ्कुशादीन् बिभ्राणं वज्रखेटं हलमुसललसकुन्तमत्युग्रदंष्ट्रम् । ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं ध्यायेत्षट्कोणसंस्थं सकलरिपुजनप्राणसंहारचक्रम् ॥ कल्याणगुणसम्पन्नः कल्याणवसनोज्ज्वलः । कल्याणाचलगम्भीरः कल्याणजनरञ्जकः ॥ १॥ कल्याणदोषनाशश्च कल्याणरुचिराङ्गकः । कल्याणाङ्गदसम्पन्नः कल्याणाकारसन्निभः ॥ २॥ करालवदनोऽत्रासी करालाङ्गोऽभयङ्करः । करालतनुजोद्दामः करालतनुभेदकः ॥ ३॥ करञ्जवनमध्यस्थः करञ्जदधिभोजनः । करञ्जासुरसंहर्ता करञ्जमधुराङ्गकः ॥ ४॥ खञ्जनानन्दजनकः खञ्जनाहारजूषितः । खञ्जनायुधभृद्दिव्यखञ्जनाखण्डगर्वहृत् ॥ ५॥ खरान्तकः खररुचिः खरदुःखैरसेवितः । खरान्तकः खरोदारः खरासुरविभञ्जनः ॥ ६॥ गोपालो गोपतिर्गोप्ता गोपस्त्रीनाथरञ्जकः । गोजारुणतनुर्गोजो गोजारतिकृतोत्सवः ॥ ७॥ गम्भीरनाभिर्गम्भीरो गम्भीरार्थसमन्वितः । गम्भीरवैद्यमरुतो गम्भीरगुणभूषितः ॥ ८॥ घनरावो घनरुचिर्घनगम्भीरनिःस्वनः । घनाधनौघनाशी च घनसन्तानदायकः ॥ ९॥ घनरोचिर्धनचरो घनचन्दनचर्चितः । घनहेतिर्घनभुजो घनोऽखिलसुरार्चितः ॥ १०॥ ङकारावधिविभवो ङकारो मुनिसम्मतः । ङकारवीतसहितो ङकाराकारभूषितः ॥ ११॥ चक्रराजश्चक्रपतिश्चक्राधीशः सुचक्रभूः । चक्रसेव्यश्चक्रधरश्चक्रभूषणभूषितः ॥ १२॥ चक्रराजरुचिश्चक्रश्चक्रपालनतत्परः । चक्रधृच्चक्रवरदश्चक्रभूषणभूषितः ॥ १३॥ सुचक्रधीः सुचक्राख्यः सुचक्रगुणभूषितः । विचक्रश्चक्रनिरतश्चक्रसम्पन्नवैभवः ॥ १४॥ चक्रदोश्चक्रदश्चक्रश्चक्रराजपराक्रमः । चक्रनादश्चक्रचरश्चक्रगश्चक्रपाशकृत् ॥ १५॥ चक्रव्यापी चक्रगुरुश्चक्रहारी विचक्रभृत् । चक्राङ्गश्चक्रमहितश्चक्रवाकगुणाकरः ॥ १६॥ आचक्रश्चक्रधर्मज्ञश्चक्रकश्चक्रमर्दनः । आचक्रनियमश्चक्रः सर्वपापविधूननः ॥ १७॥ चक्रज्वालश्चक्रधरश्चक्रपालितविग्रहः । चक्रवर्ती चक्रदायी चक्रकारी मदापहः ॥ १८॥ चक्रकोटिमहानादश्चक्रकोटिसमप्रभः । चक्रराजावनचरश्चक्रराजान्तरोज्ज्वलः ॥ १९॥ चश्चलारातिदमनश्चञ्चलस्वान्तरोमकृत् । चश्चलो मानसोल्लासी चञ्चलाचलभासुरः ॥ २०॥ चञ्चलारातिनिरतश्चञ्चलाधिकचञ्चलः । छाययाखिलतापध्नश्छायामदविभञ्जनः ॥ २१॥ छायाप्रियोऽधिकरुचिच्छायावृक्षसमाश्रयः । छायान्वितश्छाययार्च्यश्छायाधिकसुखप्रदः ॥ २२॥ छायाम्बरपरीधानश्छायात्मजनमुञ्चितः । जलजाक्षीप्रियकरो जलजानन्ददायकः ॥ २३॥ जलजासिद्धिरुचिरो जलजालसमो भरः । जलजालापसंस्तुत्यो जलजाताय मोदकृत् ॥ २४॥ जलजाहारचतुरो जलजाराधनोत्सुकः । जनकस्तुतिसन्तुष्टो जनकाराधिताधिकः ॥ २५॥ जनकामोदनपरो जनकानन्ददायकः । जनकाध्यानसन्तुष्टहृदयो जनकार्चितः ॥ २६॥ जनकानन्दजननो जनकृद्धृदयाम्बुजः । झञ्झामारुतवेगाढ्यो झञ्झामारुतसङ्गरः ॥ २७॥ झञ्झामारुतसरावो झञ्झामारुतविक्रमः । ञकाराम्बुजमध्यस्थो ञकारकृतसन्निधिः ॥ २८॥ टङ्कधारी टङ्कवपुष्टङ्कसंहारकारकः । टङ्कच्छिन्नसुवर्णाभष्टङ्कारधनुरुज्ज्वलः ॥ २९॥ टङ्काराग्निसमाकारष्टङ्काररवमेदुरः । टङ्कारकीर्तिभरितष्टङ्कारानन्दवर्धनः ॥ ३०॥ डम्भसंहतिसंहर्ता डम्भसन्ततिवर्धनः । डम्भधृग्डम्भहृदयो डम्भदण्डनतत्परः ॥ ३१॥ डिम्भधृग्डिम्भकृड्डिम्भो डिम्भसूदनतत्परः । डिम्भपापहरो डिम्भसम्भावितपदाम्बुजः ॥ ३२॥ डिम्भरोद्यत्कटम्बाजो डमरुध्यानतत्परः । डमरूद्भवसंहर्ता डमरूद्भवनन्दनः ॥ ३३॥ डाडिमीवनमध्यस्थो डाडिमीकुसुमप्रियः । डाडिमीफलसन्तुष्टो डाडिमीफलवर्जितः ॥ ३४॥ ढक्कामनोहरवपुर्ढक्कारवविराजितः । ढक्कावाद्येषु निरतो ढकाधारणतत्परः ॥ ३५॥ ढकारबीज्जसम्पन्नो ढकाराक्षरमेदुरः । ढकारमध्यसदनो ढकारविहितान्त्रकः ॥ ३६॥ णकारबीजवसतिर्णकारवसनोज्ज्वलः । णकारातिगभीराङ्गो णकाराराधनप्रियः ॥ ३७॥ तरलाक्षीमहाहर्ता तारकासुरहृत्तरिः । तरलोज्ज्वलहाराढ्यस्तरलस्वान्तरञ्जकः ॥ ३८॥ तारकासुरसंसेव्यस्तारकासुरमानितः । तुरङ्गवदनस्तोत्रसन्तुष्टहृदयाभ्युजः ॥ ३९॥ तुरङ्गवदनः श्रीमांस्तुरङ्गवदनस्तुतः । तमःपटलसञ्छन्नस्तमःसन्ततिमर्दनः ॥ ४०॥ तमोनुदो जलशयस्तमःसंवर्धनो हरः । थवर्णमध्यसंवासी थवर्णवरभूषितः ॥ ४१॥ थवर्णबीजसम्पन्नस्थवर्णरुचिरालयः । दरभृद्दरसाराक्षो दरहृद्दरवञ्चकः ॥ ४२॥ दरफुल्लाम्बुजरुचिर्दरचक्रविराजितः । दधिसङ्ग्रहणव्यग्रो दधिपाण्डरकीर्तिभृत् ॥ ४३॥ दध्यन्नपूजनरतो दधिवामनमोदकृत् । धन्वी धनप्रियो धन्यो धनाधिपसमञ्चितः ॥ ४४॥ धरो धरावनरतो धनधान्यसमृद्धिदः । धनन्वयो धनाध्यक्षो धनदो धनवर्जितः ॥ ४५॥ धनग्रहणसम्पन्नो धनसम्मतमानसः । धनराजवनासक्तो धनराजयशोभरः ॥ ४६॥ धनराजमदाहर्ता धनराजसमीडितः । धर्मकृद्धर्मभृद्धर्मी धर्मनन्दनसन्नुतः ॥ ४७॥ धर्मराजो धनासक्तो धर्मज्ञाकल्पितस्तुतिः । नरराजावनायत्तो नरराजाय निर्भरः ॥ ४८॥ नरराजस्तुतगुणो नरराजसमुज्ज्वलः । नवतामरसोदारो नवतामरसेक्षणः ॥ ४९॥ नवतामरसाहारो नवतामरसारुणः । नवसौवर्णवसनो नवनाथदयापरः ॥ ५०॥ नवनाथस्तुतनदो नवनाथसमाकृतिः । नालिकानेत्रमहितो नालिकावलिराजितः ॥ ५१॥ नालिकागतिमध्यस्थो नालिकासनसेवितः पुण्डरीकाक्षरुचिरः पुण्डरीकमदापहः ॥ ५२॥ पुण्डरकिमुनिस्तुत्यः पुण्डरीकसुहृद्युतिः । पुण्डरीकप्रभारम्यः पुण्डरीकनिभाननः ॥ ५३॥ पुण्डरीकाक्षसन्मानः पुण्डरीकदयापरः । परः परागतिवपुः परानन्दः परात्परः ॥ ५४॥ परमानन्दजनकः परमान्नाधिकप्रियः । पुष्कराक्षकरोदारः पुष्कराक्षः शिवङ्करः ॥ ५५॥ पुष्करव्रातसहितः पुष्करारवसंयुतः । फट्कारतः स्तूयमानः फट्काराक्षरमध्यगः ॥ ५६॥ फट्कारध्वस्तदनुजः फट्कारासनसङ्गतः । फलाहारः स्तुतफलः फलपूजाकृतोत्सवः ॥ ५७॥ फलदानरतोऽत्यन्तफलसम्पूर्णमानसः । बलस्तुतिर्बलाधारो बलभद्रप्रियङ्करः ॥ ५८॥ बलवान्बलहारी च बलयुग्वैरिभञ्जनः । बलदाता बलधरो बलराजितविग्रहः ॥ ५९॥ बलाद्वलो बलकरो बलासुरनिषूदनः । बलरक्षणनिष्णातो बलसम्मोददायकः ॥ ६०॥ बलसम्पूर्पाहृदयो बलसंहारदीक्षितः । भवस्तुतो भवपतिर्भवसन्तानदायकः ॥ ६१॥ भवध्वंसी भवहरो भवस्तम्भनतत्परः । भवरक्षणनिष्णातो भवसन्तोषकारकः ॥ ६२॥ भवसागरसञ्छेत्ता भवसिन्धुसुखप्रदः । भद्रदो भद्रहदयो भद्रकार्यसमाश्रितः ॥ ६३॥ भद्रश्रीचर्चिततनुर्भद्रश्रीदानदीक्षितः । भद्रपादप्रियो भद्रो ह्यभद्रवनभञ्जनः ॥ ६४॥ भद्रश्रीगानसरसो भद्रमण्डलमण्डितः । भरद्वाजस्तुतपदो भरद्वाजसमाश्रितः ॥ ६५॥ भरद्वाजाश्रमरतो भरद्वाजदयाकरः । मसारनीलरुचिरो मसारचरणोज्ज्वलः ॥ ६६॥ मसारसारसत्कार्यो मसारांशुकभूषितः । माकन्दवनसञ्चारी माकन्दजनरञ्जकः ॥ ६७॥ माकन्दानन्दमन्दारो माकन्दानन्दबन्धुरः । मण्डलो मण्डलाधीशो मण्डलात्मा सुमण्डलः ॥ ६८॥ मण्डलेशो मण्डलान्तर्मण्डलार्चितमण्डलः । मण्डलावननिष्णातो मण्डलावरणी घनः ॥ ६९॥ मण्डलस्थो मण्डलाग्र्यो मण्डलाभरणाङ्कितः । मधुदानवसंहर्ता मधुमञ्जुलवाग्भरः ॥ ७०॥ मधुदानाधिकरतो मधुमङ्गलवैभवः । मधुजेता मधुकरो मधुरो मधुराधिपः ॥ ७१॥ मधुवारणसंहर्ता मधुसन्तानकारकः । मधुमासातिरुचिरो मधुमासविराजितः ॥ ७२॥ मधुपुष्टो मधुतनुर्मधुगो मधुसंवरः । मधुरो मधुराकारो मधुराम्बरभूषितः ॥ ७३॥ मधुरानगरीनाथो मधुरासुरभञ्जनः । मधुराहारनिरतो मधुराह्लाददक्षिणः ॥ ७४॥ मधुराम्भोजनयनो मधुराधिपसङ्गतः । मधुरानन्दचतुरो मधुरारातिसङ्गतः ॥ ७५॥ मधुराभरणोल्लासी मधुराङ्गदभूषितः । मृगराजवनीसक्तो मृगमण्डलमण्डितः ॥ ७६॥ मूगादरो मृगपतिर्मृगारातिविदारणः । यज्ञप्रियो यशवपुर्यशसम्प्रीतमानसः ॥ ७७॥ यज्ञसन्ताननिरतो यज्ञसम्भारसम्भ्रमः । यज्ञयज्ञो यज्ञपदो यज्ञसम्पादनोत्सुकः ॥ ७८॥ यज्ञशालाकृतावासो यज्ञसम्भावितान्नकः । रसेन्द्रो रससम्पन्नो रसराजो रसोत्सुकः ॥ ७९॥ रसान्वितो रसधरो रसचेलो रसाकरः । रसजेता रसश्रेष्ठो रसराजाभिरञ्जितः ॥ ८०॥ रसतत्त्वसमासक्तो रसदारपराक्रमः । रसराजो रसधरो रसेशो रसवल्लभः ॥ ८१॥ रसनेता रसावासो रसोत्करविराजितः । लवङ्गपुष्पसन्तुष्टो लवङ्गकुसुमोचितः ॥ ८२॥ लवङ्गवनमध्यस्थो लवङ्गकुसुमोत्सुकः । लतावलिसमायुक्तो लतारससमर्चितः ॥ ८३॥ लताभिरामतनुभृल्लतातिलकभूषितः । वीरस्तुतपदाम्भोजो विराजगमनोत्सुकः ॥ ८४॥ विराजपत्रमध्यस्थो विराजरससेवितः । वरदो वरसम्पन्नो वरो वरसमुन्नतः ॥ ८५॥ वरस्तुतिर्वर्धमानो वरधृद्वरसम्भवः । वरदानरतो वर्यो वरदानसमुत्सुकः ॥ ८६॥ वरदानार्द्रहृदयो वरवारणसंयुतः । शारदास्तुतपादाब्जः शारदाम्भोजकीर्तिभृत् ॥ ८७॥ शारदाम्भोज्जनयनः शारदाध्यक्षसेवितः । शारदापीठवसतिः शारदाधिपसन्नुतः ॥ ८८॥ शारदावासदमनः शारदावासभासुरः । शतक्रतुस्तूयमानः शतक्रतुपराक्रमः ॥ ८९॥ शतक्रतुसमैश्वर्यः शतक्रतुमदापहः । शरचापधरः श्रीमान् शरसम्भववैभवः ॥ ९०॥ शरपाण्डरकीर्तिश्रीः शरत्सारसलोचनः । शरसङ्गमसम्पन्नः शरमण्डलमण्डितः ॥ ९१॥ शरातिगः शरधरः शरलालनलालसः । शरोद्भवसमाकारः शरयुद्धविशारदः ॥ ९२॥ शरवृन्दावनरतिः शरसम्मतविक्रमः । षट्पदः षट्पदाकारः षट्पदावलिसेवितः ॥ ९३॥ षट्पदाकारमधुरः षट्पदी षट्पदोद्धतः । षडङ्गवेदविनुतः षडङ्गपदमेदुरः ॥ ९४॥ षट्पद्मकवितावासः षड्बिन्दुरचितद्युतिः । षड्बिन्दुमध्यवसतिः षड्बिन्दुविशदीकृतः ॥ ९५॥ षडाम्नायस्तूयमानः षडाम्नायान्तरस्थितः । षट्छक्तिमङ्गलवृतः षट्चक्रकृतशेखरः ॥ ९६॥ सारसारसरक्ताङ्गः सारसारसलोचनः । सारदीप्तिः सारतनुः सारसाक्षकरप्रियः ॥ ९७॥ सारदीपी सारकृपः सारसावनकृज्ज्वलः । सारङ्गसारदमनः सारकल्पितकुण्डलः ॥ ९८॥ सारसारण्यवसतिः सारसारवमेदुरः । सार(साम)गानप्रियः सारः सारसारसुपण्डितः ॥ ९९॥ सद्रक्षकः सदामोदी सदानन्दनदेशिकः । सद्वैद्यवन्द्यचरणः सद्वैद्योज्ज्वलमानसः ॥ १००॥ हरिजेता हरिरथो हरिसेवापरायणः । हरिवर्णो हरिचरो हरिगो हरिवत्सलः ॥ १०१॥ हरिद्रो हरिसंस्तोता हरिध्यानपरायणः । हरिकल्पान्तसंहर्ताहरिसारसमुज्ज्वलः ॥ १०२॥ हरिचन्दनलिप्ताङ्गो हरिमानससम्मतः । हरिकारुण्यनिरतो हंसमोचनलालसः ॥ १०३ हरिपुत्राभयकरो हरिपुत्रसमञ्चितः । हरिधारणसान्निध्यो हरिसम्मोददायकः ॥ १०४ हेतिराजो हेतिधरो हेतिनायकसंस्तुतः । हेतिर्हरिर्हेतिवपुर्हेतिहा हेतिवर्धनः ॥ १०५ हेतिहन्ता हेतियुद्धकरो हेतिविभूषणः । हेतिदाता हेतिपरो हेतिमार्गप्रवर्तकः ॥ १०६॥ हेतिसन्ततिसम्पूर्णो हेतिमण्डलमण्डितः । हेतिदानपरः सर्वहेत्युग्रपरिभूषितः ॥ १०७ हंसरूपीहंसगतिर्हंससन्नुतवैभवः । हंसमार्गरतो हंसरक्षको हंसनायकः ॥ १०८॥ हसदृग्गोचरतनुर्हंससङ्गीततोषितः । हंसजेता हंसपतिर्हंसगो हंसवाहनः ॥ १०९॥ हंसजो हंसगमनो हंसराजसुपूजितः । हंसवेगो हंसधरो हंससुन्दरविग्रहः ॥ ११०॥ हंसवत्सुन्दरतनुर्हंससङ्गतमानसः । हंसस्वरूपसारज्ञो हंससन्नतमानसः ॥ १११॥ हंससंस्तुतसामर्थ्यो हरिरक्षणतत्परः । हससंस्तुमाहात्ख्यो हरपुत्रपराक्रमः ॥ ११२॥ क्षीरार्णवसमुद्भूतः क्षीरसम्भवभावितः । क्षीराब्धिनाथसंयुक्तः क्षीरकीर्तिविभासुरः ॥ ११३॥ क्षणदारवसंहर्ता क्षणदारवसम्मतः । क्षणदाधीशसंयुक्तः क्षणदानकृतोत्सवः ॥ ११४॥ क्षीराभिषेकसन्तुष्टः क्षीरपानाभिलाषुकः । क्षीराज्यभोजनासक्तः क्षीरसम्भववर्णकः ॥ ११५॥ इत्येतत्कथितं दिव्यं सर्वपापप्रणाशनम् । सर्वशत्रुक्षयकरं सर्वसम्पत्प्रदायकम् ॥ ११६॥ सर्वसौभाग्यजनकं सर्वमङ्गलकारकम् । सर्वदारिद्र्यशमनं सर्वोपद्रवनाशनम् ॥ ११७॥ सर्वशान्तिकरं गुह्यं सर्वरोगनिवारणम् । अतिबन्धग्रहहरं सर्वदुःखनिवारकम् ॥ ११८॥ नाम्नां सहस्रं दिव्यानां चक्रराजस्य सत्पतेः । नामानि हेतिराजस्य ये पठन्तीह मानवाः । तेषां भवन्ति सकलाः सम्पदो नात्रसंशयः ॥ ११९॥ इति अहिर्बुध्न्यसंहितान्तर्गतं सुदर्शननामस्तोत्रं सम्पूर्णम् ।