अक्षर आकार:

श्रीसुदर्शनचक्रस्तोत्रम् अथवा सुदर्शनपूजाविधिः

Shri Sudarshana Chakra Stotram

श्रीसुदर्शनचक्रस्तोत्रम् अथवा सुदर्शनपूजाविधिः

रुद्र उवाच । सुदर्शनस्य पूजां मे वद शङ्खगदाधर । ग्रहरोगादिकं सर्वं यत्कृत्वा नाशमेति वै ॥ १॥ हरिरुवाच । सुदर्शनस्य चक्रस्य श‍ृणु पूजां वृषध्वज । स्नानमादौ प्रकुर्वीत पूजयेच्च हरिं ततः ॥ २॥ मूलमन्त्रेण वै न्यासं मूलमन्त्रं श‍ृणुष्व च । सहस्रारं हुं फट् नमो मन्त्रः प्रणवपूर्वकः ॥ ३॥ कथितः सर्वदुष्टानां नाशको मन्त्रभेदकः । ध्यायेत्सुदर्शनं देवं हृदि पद्मेऽमले शुभे ॥ ४॥ शङ्खचक्रगदापद्मधरं सौम्यं किरीटिनम् । आवाह्य मण्डले देवं पूर्वोक्तविधिना हर ॥ ५॥ पूजयेद्गन्धपुष्पाद्यैरुपचारैर्महेश्वर । पूजयित्वा जपेन्मन्त्रं शतमष्टोत्तरं नरः ॥ ६॥ एवं यः कुरुते रुद्र चक्रस्यार्चनमुत्तमम् । सर्वरोगविनिर्मुक्तो विष्णुलोकं समाप्नुयात् ॥ ७॥ एतत्स्तोत्रं जपेत्पश्चात्सर्वव्याधिविनाशनम् । अथ स्तोत्रम् । नमः सुदर्शनायैव सहस्रादित्यवर्चसे ॥ ८॥ ज्वालामालाप्रदीप्ताय सहस्राराय चक्षुषे । सर्वदुष्टविनाशाय सर्वपातकमर्दिने ॥ ९॥ सुचक्राय विचक्राय सर्वमन्त्रविभेदिने । प्रसवित्रे जगद्धात्रे जगद्विध्वंसिने नमः ॥ १०॥ पालनार्थाय लोकानां दुष्टासुरविनाशिने । उग्राय चैव सौम्याय चण्डाय च नमो नमः ॥ ११॥ नमश्चक्षुःस्वरूपाय संसारभयभेदिने । मायापञ्जरभेत्रे च शिवाय च नमो नमः ॥ १२॥ ग्रहातिग्रहरूपाय ग्रहाणां पतेय नमः । कालाय मृत्यवे चैव भीमाय च नमो नमः ॥ १३॥ भक्तानुग्रहदात्रे च भक्तगोप्त्रे नमो नमः । विष्णुरूपाय शान्ताय चायुधानां धराय च ॥ १४॥ विष्णुशस्त्राय चक्राय नमो भूयो नमो नमः । इति स्तोत्रं महापुण्यं चक्रस्य तव कीर्तितम् ॥ १५॥ यः पठेत्परया भक्त्या विष्णुलोकं स गच्छति । चक्रपूजाविधिं यश्च पठेद्रुद्र जितोन्द्रियः । स पापं भस्मसात्कृत्वा विष्णुलोकाय कल्पते ॥ १६॥ इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सुदर्शनपूजाविधिर्नाम त्रयस्त्रिंशोऽध्यायः सम्पूर्णः । Garudapurana, AchArakANda, adhyAya 33