अक्षर आकार:

सुदर्शनषट्कम् २

Sudarshanashatkam 2

सुदर्शनषट्कम् २

सहस्रादित्यसङ्काशं सहस्रवदनं परम् । सहस्रदोस्सहस्रारं प्रपद्येऽहं सुदर्शनम् ॥ १॥ रणत्कङ्किणिजालेन राक्षसघ्नं महाद्भुतम् । व्याप्तकेशं विरूपाक्षं प्रपद्येऽहं सुदर्शनम् ॥ २॥ प्राकारसहितं मन्त्रं वदन्तं शत्रुनिग्रहम् । भूषणैर्भूषितकरं प्रपद्येऽहं सुदर्शनम् ॥ ३॥ पुष्करस्थमनिर्देश्यं महामन्त्रेण संयुतम् । शिवं प्रसन्नवदनं प्रपद्येऽहं सुदर्शनम् ॥ ४॥ हुङ्कारभैरवं भीमं प्रपन्नार्तिहरं प्रियम् । सर्वपापप्रशमनं प्रपद्येऽहं सुदर्शनम् ॥ ५॥ अनन्तहारकेयूरमुकुटादिविभूषितम् । सर्वपापप्रशमनं प्रपद्येऽहं सुदर्शनम् ॥ ६॥ एतैष्षड्भिस्तुतो देवो भगवाञ्च्छ्रीसुदर्शनः । रक्षां करोति सर्वत्र सर्वत्र विजयी भवेत् ॥ ७॥ इति सुदर्शनषट्कं २ सम्पूर्णम् ।