अक्षर आकार:

श्रीसुदर्शनषट्कमं

shrI sudarshanaShaTkamaM

श्रीसुदर्शनषट्कमं

सर्वकार्यसिद्ध्यर्थे श्रीसुदर्शनषट्कं ॥ सहस्रादित्यसंकाशं सहस्रवदनं प्रभुम् । परम् सहस्रदं सहस्रारं प्रपद्येऽहं सुदर्शनम् ॥ १॥ हसंतम् हारकेयुर मुकुटाङ्गद भूषणैः । शोभनैर्भूषिततनुं प्रपद्येऽहं सुदर्शनम् ॥ २॥ स्राकार सहितं मंत्रं वदतां शत्रु निग्रहम् । सर्वरोग प्रशमनं प्रपद्येऽहं सुदर्शनम् ॥ ३॥ रणत्किङ्किणि जालेन राक्षसघ्नं महात्भुतम् । व्याप्तकेशं विरूपाक्षं प्रपद्येऽहं सुदर्शनम् ॥ ४॥ हूँकार भैरवं भीमं प्रणतार्ति हरं प्रभुम् । सर्वदुष्ट प्रशमनं प्रपद्येऽहं सुदर्शनम् ॥ ५॥ फट्शारान्तमनिर्देश्यं दिव्यमंत्रेण संयुतम् । शुभं प्रसन्नवदनं प्रपद्येऽहं सुदर्शनम् ॥ ६॥ एतैष्षड्भिः स्तुतो देवः प्रसन्नः श्रीसुदर्शनः । रक्षां करोतु सर्वात्मा सर्वत्र विजयीभवेत् ॥ ७॥