अक्षर आकार:

श्रीसुदर्शनसहस्रनामस्तोत्रम्

shrI sudarshana sahasranAma stotram

श्रीसुदर्शनसहस्रनामस्तोत्रम्

श्री गणेशाय नमः ॥ श्रीसुदर्शन परब्रह्मणे नमः ॥ अथ श्रीसुदर्शन सहस्रनाम स्तोत्रम् ॥ कैलासशिखरे रम्ये मुक्तामाणिक्य मण्डपे । रक्तसिंहासनासीनं प्रमथैः परिवारितम् ॥ १॥ बद्धाञ्जलिपुटा भूत्वा पप्रच्छ विनयान्विता । भर्तारं सर्वधर्मज्ञं पार्वती परमेश्वरम् ॥ २॥ पार्वती -- यत् त्वयोक्तं जगन्नाथ सुभ्रुशं क्षेममिच्छताम् । सौदर्शनं रुते शास्त्रं नास्तिचान्यदिति प्रभो ॥ ३॥ तत्र काचित् विवक्षास्थि तमर्थं प्रति मे प्रभो । एवमुक्तस्त्वहिर्बुद्ध्न्यः पार्वतीं प्रत्युवाच ताम् ॥ ४॥ अहिर्बुद्ध्न्य -- संशयो यदि ते तत्र तं ब्रूहि त्वं वरानने । इत्येवमुक्ता गिरिजा गिरिशेन महात्मना ॥ ५॥ पुनः प्रोवाच सर्वज्ञं ज्ञानमुद्राधरं पतिम् ॥ पार्वत्युवाच -- लोके सौदर्शनं मन्त्रं यन्त्रन्तत्तत् प्रयोगवत् ॥ ६॥ सर्वं विज्ञातुमभ्यत्र यथावत् समनुष्ठितुम् । अतिवेलमशक्तानां तं मार्गं भृशमीछ्ताम् ॥ ७॥ को मार्गः का कथिस्तेषाम् कार्यसिद्धिः कथं भवेत् । एतन्मे ब्रूहि लोकेश त्वदन्यः को वदेतमुम् ॥ ८॥ ईश्वर उवाच -- अहं ते कथयिश्यामि सर्व सिद्धिकरं शुभम् । अनायासेन यज्जप्त्वा नरस्सिद्धिमवाप्नुयात् ॥ ९॥ तश्च सौदर्शनं दिव्यं गुह्यं नामसहस्रकम् । नियमात् पठतां नॄणां चिन्तितार्थ प्रदायकम् ॥ १०॥ तस्य नामसहस्रस्य सोऽहमेव ऋषिः स्मृतः । छन्दोनुष्टुप् देवता तु परमात्मा सुदर्शनः ॥ ११॥ श्रीं बीजं ह्रीं तु शक्तिस्सा क्लीं कीलकमुदाहृतम् । समस्ताभीष्ट सिध्यर्थे विनियोग उदाहृतः ॥ १२॥ शङ्खं चक्रं च चापादि ध्यानमस्य समीरितम् ॥ ध्यानं -- शङ्खं चक्रं च चापं परशुमसिमिशुं शूल पाशाङ्कुशाब्जम् बिभ्राणं वज्रखेटौ हल मुसल गदा कुन्दमत्युग्र दंष्ट्रम् । ज्वाला केशं त्रिनेत्रं ज्वल दलननिभं हार केयूर भूषम् ध्यायेत् षट्कोण संस्थं सकल रिपुजन प्राण संहारि चक्रम् ॥ ॥ हरिः Oम् ॥ श्रीचक्रः श्रीकरः श्रीशः श्रीविष्णुः श्रीविभावनः । श्रीमदान्त्य हरः श्रीमान् श्रीवत्सकृत लक्षणः ॥ १॥ श्रीनिधिः श्रीवरः स्रग्वी श्रीलक्ष्मी करपूजितः । श्रीरतः श्रीविभुः सिन्धुकन्यापतिः अधोक्षजः ॥ २॥ अच्युतश्चाम्बुजग्रीवः सहस्रारः सनातनः । समर्चितो वेदमूर्तिः समतीत सुराग्रजः ॥ ३॥ षट्कोण मध्यगो वीरः सर्वगोऽष्टभुजः प्रभुः । चण्डवेगो भीमरवः शिपिविष्टार्चितो हरिः ॥ ४॥ शाश्वतः सकलः श्यामः श्यामलः शकटार्थनः । दैत्यारिः शारदस्कन्धः सकटाक्षः शिरीषगः ॥ ५॥ शरपारिर्भक्तवश्यः शशाङ्को वामनोव्ययः । वरूथीवारिजः कञ्जलोचनो वसुधादिपः ॥ ६॥ वरेण्यो वाहनोऽनन्तः चक्रपाणिर्गदाग्रजः । गभीरो गोलकाधीशो गदापणिस्सुलोचनः ॥ ७॥ सहस्राक्षः चतुर्बाहुः शङ्खचक्र गदाधरः । भीषणो भीतिदो भद्रो भीमाभीष्ट फलप्रदः ॥ ८॥ भीमार्चितो भीमसेनो भानुवंश प्रकाशकः । प्रह्लादवरदः बाललोचनो लोकपूजितः ॥ ९॥ उत्तरामानदो मानी मानवाभीष्ट सिद्धिदः । भक्तपालः पापहारी बलदो दहनध्वजः ॥ १०॥ करीशः कनको दाता कामपाल पुरातनः । अक्रूरः क्रूरजनकः क्रूरदंष्ट्रः कुलादिपः ॥ ११॥ क्रूरकर्मा क्रूररूपि क्रूरहारी कुशेशयः । मन्दरो मानिनीकान्तो मधुहा माधवप्रियः ॥ १२॥ सुप्रतप्त स्वर्णरूपी बाणासुर भुजान्तकृत् । धराधरो दानवारिर्दनुजेन्द्रारि पूजितः ॥ १३॥ भाग्यप्रदो महासत्त्वो विश्वात्मा विगतज्वरः । सुराचार्यार्चितो वश्यो वासुदेवो वसुप्रदः ॥ १४॥ प्रणतार्तिहरः श्रेष्टः शरण्यः पापनाशनः । पावको वारणाद्रीशो वैकुण्ठो विगतकल्मषः ॥ १५॥ वज्रदंष्ट्रो वज्रनखो वायुरूपी निराश्रयः । निरीहो निस्पृहो नित्यो नीतिज्ञो नीतिपावनः ॥ १६॥ नीरूपो नारदनुतो नकुलाचल वासकृत् । नित्यानन्दो बृहद्भानुः बृहदीशः पुरातनः ॥ १७॥ निधिनामधिपोऽनन्दो नरकार्णव तारकः । अगाधोऽविरलो मर्त्यो ज्वालाकेशः ककार्च्चितः ॥ १८॥ तरुणस्तनुकृत् भक्तः परमः चित्तसम्भवः । चिन्त्यस्सत्वनिधिः साग्रस्चिदानन्दः शिवप्रियः ॥ १९॥ शिन्शुमारश्शतमखः शातकुम्भ निभप्रभः । भोक्तारुणेशो बलवान् बालग्रह निवारकः ॥ २०॥ सर्वारिष्ट प्रशमनो महाभय निवारकः । बन्धुः सुबन्धुः सुप्रीतस्सन्तुष्टस्सुरसन्नुतः ॥ २१॥ बीजकेश्यो बको भानुः अमितार्चिर्पाम्पतिः । सुयज्ञो ज्योतिषश्शान्तो विरूपाक्षः सुरेश्वरः ॥ २२॥ वह्निप्राकार संवीतो रक्तगर्भः प्रभाकरः । सुशीलः सुभगः स्वक्षः सुमुखः सुखदः सुखी ॥ २३॥ महासुरः शिरच्छेता पाकशासन वन्दितः । शतमूर्ति सहस्रारो हिरण्य ज्योतिरव्ययः ॥ २४॥ मण्डली मण्डलाकारः चन्द्रसूर्याग्नि लोचनः । प्रभञ्जनः तीक्ष्णधारः प्रशान्तः शारदप्रियः ॥ २५॥ भक्तप्रियो बलिहरो लावण्योलक्षणप्रियः । विमलो दुर्लभस्सोम्यस्सुलभो भीमविक्रमः ॥ २६॥ जितमन्युः जितारातिः महाक्षो भृगुपूजितः । तत्त्वरूपः तत्त्ववेदिः सर्वतत्व प्रतिष्ठितः ॥२७॥ भावज्ञो बन्धुजनको दीनबन्धुः पुराणवित् । शस्त्रेशो निर्मतो नेता नरो नानासुरप्रियः ॥ २८॥ नाभिचक्रो नतामित्रो नधीश करपूजितः । दमनः कालिकः कर्मी कान्तः कालार्थनः कविः ॥ २९॥ वसुन्धरो वायुवेगो वराहो वरुणालयः । कमनीयकृतिः कालः कमलासन सेवितः । कृपालुः कपिलः कामी कामितार्थ प्रदायकः ॥ ३०॥ धर्मसेतुर्धर्मपालो धर्मी धर्ममयः परः । ज्वालाजिम्हः शिखामौळीः सुरकार्य प्रवर्तकः ॥ ३१॥ कलाधरः सुरारिघ्नः कोपहा कालरूपदृक् । दाताऽऽनन्दमयो दिव्यो ब्रह्मरूपी प्रकाशकृत् ॥ ३२ । सर्वयज्ञमयो यज्ञो यज्ञभुक् यज्ञभावनः । वह्निध्वजो वह्निसखो वञ्जुळद्रुम मूलकः ॥ ३३॥ दक्षहा दानकारी च नरो नारायणप्रियः । दैत्यदण्डधरो दान्तः शुभ्राङ्गः शुभदायकः ॥ ३४॥ लोहिताक्षो महारौद्रौ मायारूपधरः खगः । उन्नतो भानुजः साङ्गो महाचक्रः पराक्रमी ॥ ३५॥ अग्नीशोऽग्निमयः द्वग्निलोचनोग्नि समप्रभः । अग्निमानग्निरसनो युद्धसेवी रविप्रियः ॥ ३६॥ आश्रित घौघ विध्वंसी नित्यानन्द प्रदायकः । असुरघ्नो महाबाहूर्भीमकर्मा शुभप्रदः ॥ ३७॥ शशाङ्क प्रणवाधारः समस्थाशी विषापहः । तर्को वितर्को विमलो बिलको बादरायणः ॥ ३८॥ बदिरग्नस्चक्रवाळः षट्कोणान्तर्गतस्शिखीः । दृतधन्वा शोडषाक्षो दीर्घबाहूर्दरीमुखः ॥ ३९॥ प्रसन्नो वामजनको निम्नो नीतिकरः शुचिः । नरभेदि सिंहरूपी पुराधीशः पुरन्दरः ॥ ४०॥ रविस्तुतो यूतपालो युतपारिस्सताङ्गतिः । हृषिकेशो द्वित्रमूर्तिः द्विरष्टायुदभृत् वरः ॥ ४१॥ दिवाकरो निशानाथो दिलीपार्चित विग्रहः । धन्वन्तरिस्श्यामळारिर्भक्तशोक विनाशकः ॥ ४२॥ रिपुप्राण हरो जेता शूरस्चातुर्य विग्रहः । विधाता सच्चिदानन्दस्सर्वदुष्ट निवारकः ॥ ४३॥ उल्को महोल्को रक्तोल्कस्सहस्रोल्कस्शतार्चिषः । बुद्धो बौद्धहरो बौद्ध जनमोहो बुधाश्रयः ॥ ४४ ॥ पूर्णबोधः पूर्णरूपः पूर्णकामो महाद्युतिः । पूर्णमन्त्रः पूर्णगात्रः पूर्णषाड्गुण्य विग्रहः ॥ ४५॥ पूर्णनेमिः पूर्ननाभिः पूर्णाशी पूर्णमानसः । पूर्णसारः पूर्णशक्तिः रङ्गसेवि रणप्रियः ॥ ४६॥ पूरिताशोऽरिष्टदाति पूर्णार्थः पूर्णभूषणः । पद्मगर्भः पारिजातः परमित्रस्शराकृतिः ॥ ४७॥ भूबृत्वपुः पुण्यमूर्ति भूभृतां पतिराशुकः । भाग्योदयो भक्तवश्यो गिरिजावल्लभप्रियः ॥ ४८॥ गविष्टो गजमानीशो गमनागमन प्रियः । ब्रह्मचारि बन्धुमानी सुप्रतीकस्सुविक्रमः ॥ ४९॥ शङ्कराभीष्टदो भव्यः साचिव्यस्सव्यलक्षणः । महाहंसस्सुखकरो नाभाग तनयार्चितः ॥ ५०॥ कोटिसूर्यप्रभो दीप्तो विद्युत्कोटि समप्रभः । वज्रकल्पो वज्रसखो वज्रनिर्घात निस्वनः ॥ ५१॥ गिरीशो मानदो मान्यो नारायण करालयः । अनिरुद्धः परामर्षी उपेन्द्रः पूर्णविग्रहः ॥ ५२॥ आयुधेशस्शतारिघ्नः शमनः शतसैनिकः । सर्वासुर वधोद्युक्तः सूर्य दुर्मान भेदकः ॥ ५३॥ राहुविप्लोषकारी च काशीनगर दाहकः । पीयुषांशु परञ्ज्योतिः सम्पूर्ण क्रतुभुक् प्रभुः ॥ ५४॥ मान्धातृ वरदस्शुद्धो हरसेव्यस्शचीष्टदः । सहिष्णुर्बलभुक् वीरो लोकभृल्लोकनायकः ॥५५॥ दुर्वासोमुनि दर्पघ्नो जयतो विजयप्रियः । पुराधीशोऽसुरारातिः गोविन्द करभूषणः ॥ ५६॥ रथरूपी रथाधीशः कालचक्र कृपानिधिः । चक्ररूपधरो विष्णुः स्थूलसूक्ष्मश्शिखिप्रभः ॥ ५७॥ शरणागत सन्त्राता वेताळारिर्महाबलः । ज्ञानदो वाक्पतिर्मानी महावेगो महामणिः ॥ ५८॥ विद्युत् केशो विहारेशः पद्मयोनिः चतुर्भुजः । कामात्मा कामदः कामी कालनेमि शिरोहरः ॥ ५९॥ शुभ्रस्शुचीस्शुनासीरः शुक्रमित्रः शुभाननः । वृषकायो वृषारातिः वृषभेन्द्र सुपूजितः ॥ ६०॥ विश्वम्भरो वीतिहोत्रो वीर्यो विश्वजनप्रियः । विश्वकृत् विश्वभो विश्वहर्ता साहसकर्मकृत् ॥ ६१॥ बाणबाहूहरो ज्योतिः परात्मा शोकनाशनः । विमलादिपतिः पुण्यो ज्ञाता ज्ञेयः प्रकाशकः ॥ ६२॥ म्लेच्छ प्रहारी दुष्टघ्नः सूर्यमण्डलमध्यगः । दिगम्बरो वृशाद्रीशो विविधायुध रूपकः ॥ ६३॥ सत्ववान् सत्यवागीशः सत्यधर्म परायणः । रुद्रप्रीतिकरो रुद्र वरदो रुग्विभेदकः ॥ ६४॥ नारायणो नक्रभेदी गजेन्द्र परिमोक्षकः । धर्मप्रियः षडाधारो वेदात्मा गुणसागरः ॥ ६५॥ गदामित्रः पृथुभुजो रसातल विभेदकः । तमोवैरी महातेजाः महाराजो महातपाः ॥ ६६॥ समस्तारिहरः शान्त क्रूरो योगेश्वरेश्वरः । स्थविरस्स्वर्ण वर्णाङ्गः शत्रुसैन्य विनाशकृत् ॥ ६७॥ प्राज्ञो विश्वतनुत्राता श‍ृतिस्मृतिमयः कृति । व्यक्ताव्यक्त स्वरूपांसः कालचक्रः कलानिधिः ॥ ६८॥ महाध्युतिरमेयात्मा वज्रनेमिः प्रभानिधिः । महास्फुलिङ्ग धारार्चिः महायुद्ध कृतच्युतः ॥ ६९॥ कृतज्ञस्सहनो वाग्मी ज्वालामाला विभूषणः । चतुर्मुखनुतः श्रीमान् भ्राजिष्णुर्भक्तवत्सलः ॥ ७०॥ चातुर्यगमनश्चक्री चातुर्वर्ग प्रदायकः । विचित्रमाल्याभरणः तीक्ष्णधारः सुरार्चितः ॥ ७१॥ युगकृत् युगपालश्च युगसन्धिर्युगान्तकृत् । सुतीक्ष्णारगणो गम्यो बलिध्वंसी त्रिलोकपः ॥ ७२॥ त्रिनेत्रस्त्रिजगद्वन्ध्यः तृणीकृत महासुरः । त्रिकालज्ञस्त्रिलोकज्ञः त्रिनाभिः त्रिजगत्प्रियः ॥ ७३॥ सर्वयन्त्रमयो मन्त्रस्सर्वशत्रु निबर्हणः । सर्वगस्सर्ववित् सौम्यस्सर्वलोकहितङ्करः ॥७४॥ आदिमूलः सद्गुणाढ्यो वरेण्यस्त्रिगुणात्मकः । ध्यानगम्यः कल्मषघ्नः कलिगर्व प्रभेदकः ॥ ७५॥ कमनीय तनुत्राणः कुण्डली मण्डिताननः । सुकुण्ठीकृत चण्डेशः सुसन्त्रस्थ षडाननः ॥ ७६॥ विषाधीकृत विघ्नेशो विगतानन्द नन्दिकः । मथित प्रमथव्यूहः प्रणत प्रमदाधिपः ॥ ७७॥ प्राणभिक्षा प्रदोऽनन्तो लोकसाक्षी महास्वनः । मेधावी शाश्वथोऽक्रूरः क्रूरकर्माऽपराजितः ॥ ७८॥ अरी दृष्टोऽप्रमेयात्मा सुन्दरश्शत्रुतापनः । योग योगीश्वराधीशो भक्ताभीष्ट प्रपूरकः ॥ ७९॥ सर्वकामप्रदोऽचिन्त्यः शुभाङ्गः कुलवर्धनः । निर्विकारोऽन्तरूपो नरनारायणप्रियः ॥ ८०॥ मन्त्र यन्त्र स्वरूपात्मा परमन्त्र प्रभेदकः । भूतवेताळ विध्वंसी चण्ड कूष्माण्ड खण्डनः ॥ ८१॥ यक्ष रक्षोगण ध्वंसी महाकृत्या प्रदाहकः । सकलीकृत मारीचः भैरव ग्रह भेदकः ॥ ८२॥ चूर्णिकृत महाभूतः कबलीकृत दुर्ग्रहः । सुदुर्ग्रहो जम्भभेदी सूचीमुख निषूदनः ॥ ८३॥ वृकोदरबलोद्धर्त्ता पुरन्दर बलानुगः । अप्रमेय बलः स्वामी भक्तप्रीति विवर्धनः ॥ ८४॥ महाभूतेश्वरश्शूरो नित्यस्शारदविग्रहः । धर्माध्यक्षो विधर्मघ्नः सुधर्मस्थापकश्शिवः ॥ ८५॥ विधूमज्वलनो भानुर्भानुमान् भास्वताम् पतिः । जगन्मोहन पाटीरस्सर्वोपद्रव शोधकः ॥ ८६॥ कुलिशाभरणो ज्वालावृतस्सौभाग्य वर्धनः । ग्रहप्रध्वंसकः स्वात्मरक्षको धारणात्मकः ॥ ८७॥ सन्तापनो वज्रसारस्सुमेधाऽमृत सागरः । सन्तान पञ्जरो बाणताटङ्को वज्रमालिकः ॥ ८८॥ मेखालग्निशिखो वज्र पञ्जरस्ससुराङ्कुशः । सर्वरोग प्रशमनो गान्धर्व विशिखाकृतिः ॥ ८९॥ प्रमोह मण्डलो भूत ग्रह श‍ृङ्खल कर्मकृत् । कलावृतो महाशङ्खु धारणस्शल्य चन्द्रिकः ॥ ९०॥ छेदनो धारकस्शल्य क्षूत्रोन्मूलन तत्परः । बन्धनावरणस्शल्य कृन्तनो वज्रकीलकः ॥ ९१॥ प्रतीकबन्धनो ज्वाला मण्डलस्शस्त्रधारणः । इन्द्राक्षीमालिकः कृत्या दण्डस्चित्तप्रभेदकः ॥ ९२॥ ग्रह वागुरिकस्सर्व बन्धनो वज्रभेदकः । लघुसन्तान सङ्कल्पो बद्धग्रह विमोचनः ॥ ९३॥ मौलिकाञ्चन सन्धाता विपक्ष मतभेदकः । दिग्बन्धन करस्सूची मुखाग्निस्चित्तपातकः ॥ ९४॥ चोराग्नि मण्डलाकारः परकङ्काळ मर्दनः । तान्त्रीकस्शत्रुवंशघ्नो नानानिगळ मोचनः ॥ ९५॥ समस्थलोक सारङ्गः सुमहा विषदूषणः । सुमहा मेरुकोदण्डः सर्व वश्यकरेश्वरः ॥ ९६॥ निखिलाकर्षणपटुः सर्व सम्मोह कर्मकृत् । संस्थम्बन करः सर्व भूतोच्चाटन तत्परः ॥ ९७॥ अहितामय कारी च द्विषन्मारण कारकः । एकायन गदामित्र विद्वेषण परायणः ॥ ९८॥ सर्वार्थ सिद्धिदो दाता विधाता विश्वपालकः । विरूपाक्षो महावक्षाः वरिष्टो माधवप्रियः ॥ ९९॥ अमित्रकर्शन शान्तः प्रशान्तः प्रणतार्तिहा । रमणीयो रणोत्साहो रक्ताक्षो रणपण्डितः ॥ १००॥ रणान्तकृत् रताकारः रताङ्गो रविपूजितः । वीरहा विविधाकारः वरुणाराधितो वशीः । सर्व शत्रु वधाकाङ्क्षी शक्तिमान् भक्तमानदः ॥ १०१॥ सर्वलोकधरः पुण्यः पुरुषः पुरुषोत्तमः । पुराणः पुण्डरीकाक्षः परमर्म प्रभेदकः ॥ १०२॥ वीरासनगतो वर्मी सर्वाधारो निरङ्कुशः । जगत्रक्षो जगन्मूर्तिः जगदानन्द वर्धनः ॥ १०३॥ शारदः शकटारातिः शङ्करस्शकटाकृतिः । विरक्तो रक्तवर्णाढ्यो रामसायक रूपदृत् ॥ १०४॥ महावराह् दंष्ट्रात्मा नृसिंह नगरात्मकः । समदृङ्मोक्षदो वन्ध्यो विहारी वीतकल्मषः ॥ १०५॥ गम्भीरो गर्भगो गोप्ता गभस्तिर्गुह्यगोगुरुः । श्रीधरः श्रीरतस्श्रान्तः शत्रुघ्नस्श‍ृतिगोचरः ॥ १०६॥ पुराणो विततो वीरः पवित्रस्चरणाह्वयः । महाधीरो महावीर्यो महाबल पराक्रमः ॥ १०७॥ सुविग्रहो विग्रहघ्नः सुमानी मानदायकः । मायी मायापहो मन्त्री मान्यो मानविवर्धनः ॥ १०८॥ शत्रुसंहारकस्शूरः शुक्रारिश्शङ्करार्चितः । सर्वाधारः परञ्ज्योतिः प्राणः प्राणभृतच्युतः ॥ १०९॥ चन्द्रधामाऽप्रतिद्वन्दः परमात्मा सुदुर्गमः । विशुद्धात्मा महातेजाः पुण्यश्लोकः पुराणवित् ॥ ११०॥ समस्थ जगदाधारो विजेता विक्रमः क्रमः । आदिदेवो ध्रुवो दृश्यः सात्त्विकः प्रीतिवर्धनः ॥ १११॥ सर्वलोकाश्रयस्सेव्यः सर्वात्मा वंशवर्धनः । दुराधर्षः प्रकाशात्मा सर्वदृक् सर्ववित्समः ॥ ११२॥ सद्गतिस्सत्वसम्पन्नः नित्यसङ्कल्प कल्पकः । वर्णी वाचस्पतिर्वाग्मी महाशक्तिः कलानिधिः ॥ ११३॥ अन्तरिक्षगतिः कल्यः कलिकालुष्य मोचनः । सत्यधर्मः प्रसन्नात्मा प्रकृष्टो व्योमवाहनः ॥ ११४॥ शितधारस्शिखि रौद्रो भद्रो रुद्रसुपूजितः । दरिमुखाग्निजम्भघ्नो वीरहा वासवप्रियः ॥ ११५॥ दुस्तरस्सुदुरारोहो दुर्ज्ञेयो दुष्टनिग्रहः । भूतावासो भूतहन्ता भूतेशो भूतभावनः ॥ ११६॥ भावज्ञो भवरोगघ्नो मनोवेगी महाभुजः । सर्वदेवमयः कान्तः स्मृतिमान् सर्वपावनः ॥ ११७॥ नीतिमन् सर्वजित् सौम्यो महर्षीरपराजितः । रुद्राम्बरीष वरदो जितमायः पुरातनः ॥ ११८॥ अध्यात्म निलयो भोक्ता सम्पूर्णस्सर्वकामदः । सत्योऽक्षरो गभीरात्मा विश्वभर्ता मरीचिमान् ॥ ११९॥ निरञ्जनो जितभ्रांशुः अग्निगर्भोऽग्नि गोचरः । सर्वजित् सम्भवो विष्णुः पूज्यो मन्त्रवितक्रियः ॥ १२०॥ शतावर्त्तः कलानाथः कालः कालमयो हरिः । अरूपो रूपसम्पन्नो विश्वरूपो विरूपकृत् ॥ १२१॥ स्वाम्यात्मा समरश्लाघी सुव्रतो विजयांवितः । चण्ड्घ्नस्चण्डकिरणः चतुरस्चारणप्रियः ॥ १२२॥ पुण्यकीर्तिः परामर्षी नृसिंहो नाभिमध्यगः । यज्ञात्म यज्ञसङ्कल्पो यज्ञकेतुर्महेश्वरः ॥ १२३॥ जितारिर्यज्ञनिलयश्शरण्यश्शकटाकृतिः । उत्त्मोऽनुत्त्मोनङ्गस्साङ्गस्सर्वाङ्ग शोभनः ॥ १२४॥ कालाग्निः कालनेमिघ्नः कामि कारुण्यसागरः । रमानन्दकरो रामो रजनीशान्तरस्थितः ॥ १२५॥ संवर्धन समरांवेषी द्विषत्प्राण परिग्रहः । महाभिमानी सन्धाता सर्वाधीशो महागुरुः ॥ १२६ सिद्धः सर्वजगद्योनिः सिद्धार्थस्सर्वसिद्धिदः । चतुर्वेदमयश्शास्था सर्वशास्त्र विशारदः ॥ १२७ ॥ तिरस्कृतार्क तेजस्को भास्कराराधितश्शुभः । व्यापी विश्वम्भरो व्यग्रः स्वयञ्ज्योतिरनन्तकृत् ॥ १२८॥ जयशीलो जयाकाङ्क्षी जातवेदो जयप्रदः । कविः कल्याणदः काम्यो मोक्षदो मोहनाकृतिः ॥ १२९॥ कुङ्कुमारुण सर्वाङ्ग कमलाक्षः कवीश्वरः । सुविक्रमो निष्कळङ्को विश्वक्सेनो विहारकृत् ॥ १३०॥ कदम्बासुर विध्वंसी केतनग्रह दाहकः । जुगुप्साग्नस्तीक्ष्णधारो वैकुण्ठ भुजवासकृत् ॥ १३१॥ सारज्ञः करुणामूर्तिः वैष्णवो विष्णुभक्तिदः । सुक्रुतज्ञो महोदारो दुष्कृतघ्नस्सुविग्रहः ॥ १३२॥ सर्वाभीष्ट प्रदोऽन्तो नित्यानन्दो गुणाकरः । चक्री कुन्दधरः खड्गी परश्वत धरोऽग्निभृत् ॥ १३३॥ दृताङ्कुशो दण्डधरः शक्तिहस्थस्सुशङ्खभ्रुत् । धन्वी दृतमहापाशो हलि मुसलभूषणः ॥ १३४॥ गदायुधधरो वज्री महाशूल लसत्भुजः । समस्तायुध सम्पूर्णस्सुदर्शन महाप्रभुः ॥ १३५॥ ॥ फलश‍ृतिः ॥ इति सौदर्शनं दिव्यं गुह्यं नामसहस्रकम् । सर्वसिद्धिकरं सर्व यन्त्र मन्त्रात्मकं परम् ॥ १३६॥ एतन्नाम सहस्रं तु नित्यं यः पठेत् सुधीः । श‍ृणोति वा श्रावयति तस्य सिद्धिः करस्तिता ॥ १३७॥ दैत्यानां देवशत्रूणां दुर्जयानां महौजसाम् । विनाशार्थमिदं देवि हरो रासाधितं मया ॥ १३८॥ शत्रुसंहारकमिदं सर्वदा जयवर्धनम् । जल शैल महारण्य दुर्गमेषु महापति ॥ १३९॥ भयङ्करेषु शापत्सु सम्प्राप्तेषु महत्सुच । यस्सकृत् पठनं कुर्यात् तस्य नैव भवेत् भयम् ॥ १४०॥ ब्रह्मघ्नश्च पशुघ्नश्च मातापितॄ विनिन्दकः । देवानां दूषकश्चापि गुरुतल्पगतोऽपि वा ॥ १४१॥ जप्त्वा सकृतिदं स्तोत्रं मुच्यते सर्वकिल्बिषैः । तिष्ठन् गच्छन् स्वपन् भुञ्जन् जाग्रन्नपि हसन्नपि ॥ १४२॥ सुदर्शन नृसिंहेति यो वदेत्तु सकृन्नरः । स वै न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति ॥ १४३॥ आदयो व्यादयस्सर्वे रोगा रोगादिदेवताः । शीघ्रं नश्यन्ति ते सर्वे पठनात्तस्य वै नृणाम् ॥ १४४॥ बहूनात्र किमुक्तेन जप्त्वेदं मन्त्र पुष्कलम् । यत्र मर्त्यश्चरेत् तत्र रक्षति श्रीसुदर्शनः ॥ १४५॥ इति श्री विहगेश्वर उत्तरखण्डे उमामहेश्वरसंवादे मन्त्रविधाने श्री सुदर्शन सहस्रनाम स्तोत्रं नाम षोडश प्रकाशः ॥