अक्षर आकार:

श्रीस्थाणुस्तवः

Shri Sthanustavah

श्रीस्थाणुस्तवः

अथवा त्रिमूर्तिस्तुतिः २ (शुचीन्द्रे) अम्भोरुहस्थाय चतुर्मुखाय हंसाधिरूढाय हकारधाम्ने । हंसादिदेवाय हरीश्वराय अकाररूपाय नमो विधात्रे ॥ १॥ जाग्रत्स्वरूपाय जगज्जनित्रे जटाधरोद्भूतिललाटधाम्ने । जानाति कस्त्वन्महिमानमुक्तं जाकाररूपाय नमो विधात्रे ॥ २॥ यवान्न नैवेद्यमहाप्रियाय यज्ञप्रभोक्त्रे यजमानधाम्ने । यानादिरूपामलवागधीश यकाररूपाय नामे विधात्रे ॥ ३॥ ज्ञानात्परज्ञेयपरात्पराय नाथाय नाभीजलजोद्भवाय । ज्ञानामृतायाम्बुजधामधात्रे नकाररूपाय नमो विधात्रे ॥ ४॥ मायाजगत्सृष्टिकुतूहलाय मान्याय मार्तण्डकलाधराय । मनोमयाय प्रथमाय कर्त्रे मकाररूपाय नमो विधात्रे ॥ ५॥ (अजाय नम इति ब्रह्ममन्त्रगर्भाः पञ्चश्लोकाः ।) दिव्याय पद्मासनमाधवेशरूपाय देवैरनिशं स्तुताय । दयार्द्रचित्ताय दिगन्तगाय नमो विरिञ्चाय जगज्जनित्रे ॥ ६॥ सूत्रात्मने सोमकलाभिपूर्णदेवाय सर्वाध्वरसत्फलाय । प्रकुर्वते पालनमेव नित्यं ओङ्काररूपाय नमः परस्मै ॥ ७॥ नन्दात्मजायावनतत्पराय नाकादिलोके नमतां जनानाम् । नागारिवाहाय फलप्रदाय नकाररूपाय नमः परस्मै ॥ ८॥ मुरान्तकायामरुमोहनाय मोक्षप्रदायात्मविदां जनानाम् । मोहप्रदायाखिलगोपिकानां मोकारूपाय नमः परस्मै ॥ ९॥ नारायणायाखिलनायकाय नगन्धरायाम्बुजलोचनाय । नागाङ्कतल्पाय नवाम्बुदाय नाकाररूपाय नमः परस्मै ॥ १०॥ रामाय राजीवविलोचनाय राधाभुजङ्गाय रतीशपित्रे । रात्रिञ्चराधीश्वरमर्दनाय राकाररूपाय नमः परस्मै ॥ ११॥ यमादियोगाङ्गजनप्रियाय यज्ञस्वरूपाय यतीश्वराय । यदूत्तमानामधिनायकाय यकाररूपाय नमः परस्मै ॥ १२॥ नन्दाय नन्दव्रजनायकाय नाभीपुटोद्भूतविधीडिताय । नादान्तरूपाय नृसिंहधाम्ने णाकाररूपाय नमः परस्मै ॥ १३॥ यज्ञाय यज्ञावनतत्पराय यज्ञैः समाराधितपादुकाय । यथार्थधाम्ने यजुषाम्प्रियाय यकार रूपाय नमः परस्मै ॥ १४॥ (ओं नमो नारायणायेति विष्णुमन्त्रगर्भाः ७-१४ श्लोकाः) त्रिमूर्तये राजमहीरुहाय त्रिधामरूपाय सुधामयाय । तृणाद्यजान्तं परिपूर्णधाम्ने तीर्थस्वरूपाय नमः परस्मै ॥ १५॥ नादान्तरूपाय नभःस्थिताय ज्ञानामृतायागमवल्लभाय । नागेन्द्रभूषाय नगेन्द्रनित्यनकाररूपाय नमः परस्मै ॥ १६॥ माया तमोध्वंसनभास्कराय मारान्तकायामरवन्दिताय । मत्तेभचर्माम्बरवेष्टिताय नमो मकाराय नमः शिवाय ॥ १७॥ शिलादसूनोर्हृदि भाविताय श्रीशार्ङ्गिबाणाय पुरान्तकाय । शीतांशुकोटीरविराजिताय नमः शिकाराय नमः शिवाय ॥ १८॥ वामाय सद्धामकलेबराय वरप्रदायात्मविदां विशेषात् । वटुस्वरूपाय वटालयाय नमो वकाराय नमः शिवाय ॥ १९॥ यज्ञाय यज्ञेशसखाय यज्ञैरिज्याय पूर्णाय यमान्तकाय । यज्ञप्रहर्त्रेऽखिलयज्ञभोक्त्रे नमो यकाराय नमः शिवाय ॥ २०॥ (नमः शिवायेति पञ्चाक्षरशिवमन्त्रगर्भाः १६-२० श्लोकाः ।) नमोऽस्तु वागीशहरीश्वराय नगेन्द्रचापाय नदीधराय । नाम्ना शुचीन्द्रेश इति स्तुताय ज्ञानाटवीशाय नमः शिवाय ॥ २१॥ एवमात्मविदां श्रेष्ठः स्तुत्वाऽऽनन्दपरोऽभवत् । सर्वज्ञः शङ्कराचार्यः स्थाणुक्षेत्रे महास्थले ॥ २२॥ इति श्रीस्थाणुस्तवः त्रिमूर्तिस्तुतिश्च सम्पूर्णः ।