अक्षर आकार:

स्फुरत्कृष्णप्रेमामृतस्तोत्रम्

sphuratkRRiShNapremAmRRitastotram

स्फुरत्कृष्णप्रेमामृतस्तोत्रम्

स्फुरत्कृष्णप्रेमामृतरसभरेणातिभरिता विहारात्कुर्वाणा व्रजपतिविहाराब्धिषु सदा । प्रिया गोपीभर्तुः स्फुरतु सततं वल्लभ इति प्रधावत्यस्माकं हृदि सुभगमूर्तिः सकरुणा ॥ १॥ श्रीभागवतप्रतिपदमणिवरभावांशुभूषिता मूर्तिः । श्रीवल्लभाभिधानस्तनोति निजदास्यसौभाग्यम् ॥ २॥ मायावादतमो निरस्य मधुभित्सेवाख्यवर्त्माद्भुतं श्रीमद्गोकुलनाथसङ्गमसुधासम्प्रापकं तत्क्षणात् । दुष्प्रापं प्रकटीचकार करुणारागादिसम्मोहनः स श्रीवल्लभभानुरुल्लसति यः श्रीवल्लवीशान्तरः ॥ ३॥ क्वचित्पाण्डित्यं चेन्न निगमगतिः सापि यदि न क्रिया सा सापि स्याद्यदि न हरिमार्गे परिचयः । यदि स्यात्सोऽपि श्रीव्रजपतिरतिर्नेति निखिलै- र्गुणैरन्यः को वा विलससि विना वल्लभवरम् ॥ ४॥ मायावादिकरीन्द्रदर्पदलनेनास्येन्दुराजोद्गत- श्रीमद्भागवताख्यदुर्लभसुधावर्षेण वेदोक्तिभिः । राधावल्लभसेवया तदुचितप्रेम्णोपदेशैरपि श्रीमद्वल्लभनामधेयसदृशो भावी न भूतोऽस्त्यपि ॥ ५॥ यदङ्घ्रिनखमण्डलप्रसृतवारिपीयूषयुग्- वराङ्गहृदयैः कलिस्तृणमिवेह तुच्छीकृतः । व्रजाधिपतिरिन्दिराप्रभृतिमृग्यपादाम्बुजः क्षणेन परितोषितस्तदनुगत्वमेवास्तु मे ॥ ६॥ अघौघतमसाऽऽवृतं कलिभुजङ्गमासादितं जगद्विषयसागरे पतितमस्वधर्मे रतम् । यदीक्षणसुधानिधिः समुदितोऽनुकम्पामृता- दमृत्युमकरोत्क्षणादरणमस्तु मे तत्पदम् ॥ ७॥ इति श्रीविठ्ठलेश्वरविरचितं स्फुरत्कृष्णप्रेमामृतस्तोत्रं सम्पूर्णम् ।