अक्षर आकार:

श्रीस्मरणाष्टकम्

shrIsmaraNAShTakam

श्रीस्मरणाष्टकम्

यदीयसौभाग्यभरेण गोकुल- स्त्रियो न योग्यानि वचांसि सत्पतेः । न मानयामासुरुदारमानसा- स्तदङ्घ्रिसेवासमयं स्मरामि ॥ १॥ यद्रूपसौन्दर्यवशीकृताशया मृगीगणाः पूजनमादधुर्मुदा । हित्वा समीपस्थितभर्तृभीतिं तदङ्घिसेवासमयं स्मरामि ॥ २॥ यद्वेणुनादश्रवणैकजात- भावाङ्कुरा देववधूसमूहाः । प्रवृद्धभावा मुमुहुः सभर्तृका- स्तदङ्घ्रिसेवासमयं स्मरामि ॥ ३॥ यत्पादसञ्चारणजातकाम- भावा यदङ्केन नयत्यतल्पाम् । शान्तिं विचित्रा व्रजभूमिरेषा तदङ्घ्रिसेवासमयं स्मरामि ॥ ४॥ यद्बाललीलाकृतचौर्यजात- सन्तोषभावा व्रजगोपवध्वः । उपालभन्ते समयं यमर्भकं तदङ्घ्रिसेवासमयं स्मरामि ॥ ५॥ यं गोपनारीगणदर्शनीय- लीलं मुदा गोसुतपुच्छकर्षुकम् । प्रेक्षन्त्य एवोज्झितगेहकृत्याः तङ्घ्रिसेवासमयं स्मरामि ॥ ६॥ यद्वाहुसंस्पर्शनजातभाव- रसालवावर्तुलभूतविग्रहः । गोवर्धनो वेद न वृष्टिपातं तदङ्घ्रिसेवासमयं स्मरामि ॥ ७॥ यदधरसङ्गतवेणुनिनादं विहितविषयसुखभरनिर्वादम् । श्रुतवत्यो मुखभक्ष्या गावः किं न हि कुरुते तद्गतभावः ॥ ८॥ इति श्रीहरिदासोदितं स्मरणाष्टकं समाप्तम् ।