अक्षर आकार:

श्रीश्यामदेवस्तवः

shrIshyAmadevastavaH

श्रीश्यामदेवस्तवः

ॐ अस्य श्रीश्यामदेवस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः । अत्यष्टिः (शिखरिणी) छन्दः । श्रीश्यामो देवता । सकलमनोरथसिद्ध्यर्थे श्रीश्यामदेवताप्रीत्यर्थे च जपे विनियोगः । शिवब्रह्मेन्द्राद्यैरखिलसुरवर्यैरिह सदा मुनीन्द्रैः सिद्धेन्द्रैर्भृगुकपिलमुख्यैः स्तुतपदम् । दयायुक्तं नाथं नरकपतितोद्धारणपरं भजेऽहं श्रीश्यामं भवभयहरं भक्तवरदम् ॥ १॥ महोत्साहं विष्णुं शुभशशिमुखं पद्मनयनं किरीटाढ्यं कान्त्यावृततनुमनन्तं गुणनिधिम् । विना प्राक्पुण्योघैर्दुरधिगमनिःसीमविभवं भजेऽहं श्रीश्यामं भवभयहरं भक्तवरदम् ॥ २॥ सदा वंशीवाद्यं सजलजलदाभं सुचरितं मुदा गोपीगोपाद्यभयवरदं दुष्टदमनम् । बकीनाशं कृष्णं ह्यघवकतृणावर्तकरिपुं भजेऽहं श्रीश्यामं भवभयहरं भक्तवरदम् ॥ ३॥ मनोज्ञं कंसारिं करिकुवलयापीडदमनं हरिं रङ्गे यान्तं कठिनतरचाणूप्रशमनम् । स्वपित्रोरानन्दं ददतमधिकं प्रीतिजनकं भजेऽहं श्रीश्यामं भवभयहरं भक्तवरदम् ॥ ४॥ मुदाभिर्नारीभिर्मदितनटनाट्यैकनिपुणं क्वणत्काञ्चीकान्तिक्वणितसुखसङ्गीतकवरम् । शुभं तं कौशेयाम्बरधरमुदारं वनगतं भजेऽहं श्रीश्यामं भवभयहरं भक्तवरदम् ॥ ५॥ सुकालिन्दीकूले घनतरतरौ स्वच्छरजसि स्फुटज्जातीपद्मे सुरभिणि सदा कुञ्जनिलये । लसन्तं गोपीभिः शरदि सुरनारीभिरमलं भजेऽहं श्रीश्यामं भवभयहरं भक्तवरदम् ॥ ६॥ पिबन्तं दावाग्निं शमनमखिलानां च विपदां पदं तत्सौख्यानां प्रचुरतरकालीयदमनम् । हरन्तं सन्तापं व्रजजनवराणां सुतपसां भजेऽहं श्रीश्यामं भवभयहरं भक्तवरदम् ॥ ७॥ सुशैलेन्द्रं हस्ते दधतमनिशं सप्तदिवसं जनानां स्वीयानां विविधविपदां सङ्क्षयकरम् । गवां त्राणार्थं वै गिरिवरधरं नन्दतनयं भजेऽहं श्रीश्यामं भवभयहरं भक्तवरदम् ॥ ८॥ सुरेशं गोविन्दं मणिकनकहाराङ्गदधरं सुपिच्छापीडं कौस्तुभरुचिरवक्षःपरिसरम् । रमेशं लोकानां हितकरमलं विश्वजनकं भजेऽहं श्रीश्यामं भवभयहरं भक्तवरदम् ॥ ९॥ चिदानन्दाकारं मुनिवरहृदि प्राप्तनिलयं यजुःसामाथर्वप्रभृतिषु तथा ऋक्षु विदितम् । अचिन्त्यं दुर्बोधं प्रकृतिगुणयुक्तैश्च पुरुषै- र्भजेऽहं श्रीश्यामं भवभयहरं भक्तवरदम् ॥ १०॥ स्तवः श्यामदेवस्य विष्णोर्मयाऽयं कृतो दिङ्मितैः शुद्धभावेन पद्यैः । सुरामप्रसादाभिधानेन यायात् पठेद्यो नरः श्यामदेवप्रसादम् ॥ ११॥ ॥ इति श्रीश्यामदेवस्तवः सम्पूर्णः ॥