अक्षर आकार:

श्रीश्यामदेवाष्टोत्तरशतनामस्तोत्रम्

shrIshyAmadevAShTottarashatanAmastotram

श्रीश्यामदेवाष्टोत्तरशतनामस्तोत्रम्

अनाद्यन्तो ह्यनन्तश्रीराकाशग इहागमः । ईतित्राता चोग्रदण्ड ऊतिकृदृणशोधनः ॥ १॥ एकराडैतिहासिक्यमृग्य ओषधिवीर्यदः । औपनिषदोंऽशुमान् केशप्रियः कल्याणवृत्तिदः ॥ २॥ कलिकालेऽद्भुताचिन्त्यशक्तिशाली कृतिप्रियः । खाटूग्रामकृतस्थानः खाटूयात्राजनप्रियः ॥ ३॥ गुणाढ्यो गुणिसंरक्षी ग्रहभीतिविनाशकः । घटनाप्रियश्चन्द्ररम्यः छत्रधारी जयप्रदः ॥ ४॥ झटित्याश्चर्यकारी च टुप्क्रोधी ठाकुरप्रभुः । डाकिनीत्रासनिर्हारी ढुण्ढारिक्षेत्रमध्यगः ॥ ५॥ णकारैवदुर्लक्ष्यपदस्तेजस्तपोनिधिः । तपनीयाभूषणाढ्यो थूत्कारापहतासुरः ॥ ६॥ दृढव्रतो दृढप्रेमी दाता दानविधिप्रियः । धीरो धीरप्रियो धीमान् धीदाता धान्यवर्धनः ॥ ७॥ धात्रीप्रियो धैर्यदाता न्यायकारो नतिप्रियः । पामराणामपि त्राता पापहारी पशुप्रदः ॥ ८॥ फाल्गुनेऽफल्गुदाता च बहुबाहुर्भयापहः । भक्तप्रियो भक्तसखो भक्तभावप्रपोषकः ॥ ९॥ भक्तिदो भक्तवचसां श्रोता च भजनप्रियः । मितभाषी मृषाद्वेषी यज्ञप्रेमी यमप्रियः ॥ १०॥ रम्यमन्दिरमध्यस्थो लीलया बहुरूपधृक् । विशालभालतिलकः शरणागतवत्सलः ॥ ११॥ षट्कर्मविद्यः सन्तानदाता तु हवनप्रियः । श्रीश्यामदेवो ब्रह्मण्यो बालकेशार्पणप्रियः ॥ १२॥ दाम्पत्यक्षेमकर्ता च शुभोष्णीषी सदर्थकृत् । उशीरवासितजलप्रियः केतकिगन्धभूत् ॥ १३॥ कौसुम्भवर्णवस्त्राढ्यः केसरालेपनप्रियः । अआयताक्षः सुदीप्ताक्षः सुनासा विततश्रवाः ॥ १४॥ श‍ृङ्गारहृद्यो लोकेशो वर्वराकारकेशवान् । दर्शनीयतमः श्यामः सुललाटः सुविक्रमः ॥ १५॥ किरीटी मणिरत्नाढ्यो मकराकृतिकुण्डली । श्वेतध्वजः स्मितमुखो भक्तानामभयङ्करः ॥ १६॥ भक्तानां पालनार्थाय नानावेषधरोऽनघः । सत्यप्रियः प्राणदाता सत्यसख्यः सदावसुः ॥ १७॥ द्वादशीतिथिसंसेव्यः साज्यचूर्णेलिमप्रियः । श्रीमद्भागवतास्वादरसिको भूतिवर्धनः ॥ १८॥ ॥ फलश्रुतिः ॥ अष्टोत्तरशतं नाम्ना प्रभोः श्यामस्य सेव्यताम् । क्षेमः शिवं रोगदोषनिवृत्तिरनुभूयताम् ॥ १९॥ श्रीश्यामकृपया ह्येतन्नाम्नामष्टोत्तरं शतम् । गोपालचन्द्रमिश्रस्तु लोके प्राचीकशच्छुभम् ॥ २०॥ ॥ इति श्रीश्यामदेवाष्टोत्तरशतनामस्तोत्रम् ॥