अक्षर आकार:

श्रीरङ्गस्तोत्रम्

shrIra~Ngastotram

श्रीरङ्गस्तोत्रम्

पद्माधिराजे गरुडाधिराजे विरिञ्चराजे सुरराजराजे । त्रैलोक्यराजेऽखिलराजराजे श्रीरङ्गराजे रमतां मनो मे ॥ १॥ नीलाब्जवर्णे भुजपूर्णकर्णे कर्णान्तनेत्रे कमलाकलत्रे । श्रीमल्लरङ्गे जितमल्लरङ्गे श्रीरङ्गरङ्गे रमतां मनो मे ॥ २॥ लक्ष्मीनिवासे जगतां निवासे हृत्पद्मवासे रविबिम्बवासे । क्षीराब्धिवासे फणिभोगवासे श्रीरङ्गवासे रमतां मनो मे ॥ ३॥ कुबेरलीले जगदेकलीले मन्दारमालाङ्कितचारुफाले । दैत्यान्तकालेऽखिललोकमौले श्रीरङ्गलीले रमतां मनो मे ॥ ४॥ अमोघनिद्रे जगदेकनिद्रे विदेहनिद्रे च समुद्रनिद्रे । श्रीयोगनिद्रे सुखयोगनिद्रे श्रीरङ्गनिद्रे रमतां मनो मे ॥ ५॥ आनन्दरूपे निजबोधरूपे ब्रह्मस्वरूपे क्षितिमूर्तिरूपे । विचित्ररूपे रमणीयरूपे श्रीरङ्गरूपे रमतां मनो मे ॥ ६॥ भक्ताकृतार्थे मुररावणार्थे भक्तसमर्थे जगदेककीर्ते । अनेकमूर्ते रमणीयमूर्ते श्रीरङ्गमूर्ते रमतां मनो मे ॥ ७॥ कंसप्रमाथे नरकप्रमाथे दुष्टप्रमाथे जगतां निदाने । अनाथनाथे जगदेकनाथे श्रीरङ्गनाथे रमतां मनो मे ॥ ८॥ सुचित्रशायी जगदेकशायी नन्दाङ्कशायी कमलाङ्कशायी । अम्भोधिशायी वटपत्रशायी श्रीरङ्गशायी रमतां मनो मे ॥ ९॥ सकलदुरितहारी भूमिभारापहारी दशमुखकुलहारी दैत्यदर्पापहारी । सुललितकृतचारी पारिजातापहारी त्रिभुवनभयहारी प्रीयतां श्रीमुरारिः ॥ १०॥ रङ्गस्तोत्रमिदं पुण्यं प्रातःकाले पठेन्नरः । कोटिजन्मार्जितं पापं स्मरणेन विनश्यति ॥ इति श्रीरङ्गस्तोत्रम् सम्पूर्णम् ॥