अक्षर आकार:

श्रीवेङ्कटेश्वरनवरत्नमालिकास्तुतिः

Shri Venkateshvaranavaratnamalikastutih

श्रीवेङ्कटेश्वरनवरत्नमालिकास्तुतिः

श्रीमानम्भोधिकन्याविहरणभवनीभूतवक्षःप्रदेशः भास्वद्भोगीन्द्रभूमीधरवरशिखरप्रान्तकेलीरसज्ञः । शश्वद्ब्रह्मेन्द्रवह्निप्रमुखसुरवराराध्यमानाङ्घ्रिपद्मः पायान्मां वेङ्कटेशः प्रणतजनमनःकामनाकल्पशाखी ॥ १॥ यस्मिन् विश्वं समस्तं चरमचरमिदं दृश्यते वृद्धिमेति भ्रश्यत्यन्ते च तादृग्विभवविलसितस्सोऽयमानन्दमूर्तिः । पद्मावासामुखाम्भोरुहमद धु मधुविद्विभ्रमोन्निद्रचेताः शश्वद्भूयाद्विनम्राखिलमुनिनिवहो भूयसे श्रेयसे मे ॥ २॥ वन्दे देवं महान्तं दरहसितलसद्वक्त्रचन्द्राभिरामं नव्योन्निद्रावदाताम्बुजरुचिरविशालेक्षणद्वन्द्वरम्यम् । राजन्मार्ताण्डतेजःप्रसितशुभमहाकौस्तुभोद्भास्युरस्कं शान्तं श्रीशङ्खचक्राद्यमलकरयुतं भव्यपीताम्बराढ्यम् ॥ ३॥ पायाद्विश्वस्य साक्षी प्रभुरखिलजगत्कारणं शाश्वतोऽयं पादप्रह्वाघराशिप्रशमननिभृताम्भोधरप्राभवो माम् । ब्यक्ताव्यक्तस्वरूपो दुरधिगमपदः प्राक्तनीनां च वाचां ध्येयो योगीन्द्रचेतस्सरसिजनियतानन्ददीक्षाविहारः ॥ ४॥ आद्यं तेजोविशेषैरुपगतदशदिङ्मण्डलाभ्यन्तरालं सूक्ष्मं सूक्ष्मातिरिक्तं भवभयहरणं दिव्यभव्यस्वरूपम् । लक्ष्मीकान्तं खगेन्द्रध्वजमघशमनं कामितार्थैकहेतुं वन्दे गोविन्दमिन्दीवरनवजलदश्यामलं चारुहासम् ॥ ५॥ राकाचन्द्रोपमास्यं ललितकुवलयश्याममम्भोजनेत्रं ध्यायाम्याजानुबाहुं हलनलिनगदाशार्ङ्गरेखाञ्चिताङ्घ्रिम् । कारुण्याञ्चत्कटाक्षं कलशजलधिजापीनवक्षोजकोशा- श्लेषावाताङ्गरागोच्छ्यललितनवाङ्कोरुवक्षस्स्थलाढ्यम् ॥ ६॥ श्रीमन्संपूर्णशीतद्युतिहसनमुखं रम्यबिम्बाधरोष्ठं ग्रीवाप्रालम्बिवक्षस्स्थलसततनटद्वैजयन्तीविलासम् । आदर्शौपम्यगण्डप्रतिफलितलसत्कुण्डलश्रोत्रयुग्मं स्तौमि त्वां द्योतमानोत्तममणिरुचिरानल्पकोटीरकान्तम् ॥ ७॥ सप्रेमौत्सुक्यलक्ष्मीदरहसितमुखाम्भोरुहामोदलुभ्यन्- मत्तद्वैरेफविक्रीडितनिजहृदयो देवदेवो मुकुन्दः । स्वस्ति श्रीवत्सवक्षाः श्रितजनशुभदः शाश्वतं मे विदध्यात् न्यस्तप्रत्यग्रकस्तूर्यनुपमतिलकप्रोल्लसत्फालभागः ॥ ८॥ श्रीमान् शेषाद्रिनाथो मुनिजनहृदयाम्भोजसद्राजहंसः । सेवासक्तामरेन्द्रप्रमुखसुरकिरीटर्चितात्माङ्घ्रिपीठः । लोकस्यालोकमात्राद्विहरति रचयन् यो दिवारात्रलीलां सोऽयं मां वेङ्कटेशप्रभुरधिककृपावारिधिः पातु शश्वत् ॥ ९॥ श्रीशेषशर्माभिनवोपवलृप्ता प्रियेण भक्त्या च समर्पितेयम् । श्रीवेङ्कटेशप्रभुकण्ठभूषा विराजतां श्रीनवर्त्नमाला ॥ १०० । ॥ इति श्रीवेङ्कटेश्वरनवरत्नमालिकास्तुतिः समाप्ता॥ From a telugu book veNkaTeshakAvyakalApa