अक्षर आकार:

श्रीवेङ्कटेशविजयार्यासप्तविभक्तिस्तोत्रम्

Shri Venkateshavijayaryasaptavibhaktistotram

श्रीवेङ्कटेशविजयार्यासप्तविभक्तिस्तोत्रम्

श्रीवेङ्कटाद्रिधामा भूमा भूमाप्रियः कृपासीमा । निरवधिकनित्यमहिमा भवतु जयी प्रणतदर्शितप्रेमा ॥ १॥ जय जनता विमळीकृतिसफलीकृतसकलमङ्गलाकार । विजयी भव विजयी भव विजयी भव वेङ्कटाचलाधीश ॥ २॥ कनीयमन्दहसितं कञ्चन कन्दर्पकोटिलावण्यम् । पश्येयमञ्जनाद्रौ पुंसां पूर्वतनपुण्यपरिपाकम् ॥ ३॥ मरतकमेचकरुचिना मदनाज्ञागन्धिमध्यहृदयेन । वृषशैलमौलिसुहृदा महसा केनापि वासितं ज्ञेयम् ॥ ४॥ पत्यै नमो वृषाद्रेः करयुगपरिकर्मशङ्खचक्राय । इतरकरकमलयुगलीदर्शितकटिबन्धदानमुद्राय ॥ ५॥ साम्राज्यपिशुनमकुटीसुघटललाटात् सुमङ्गला पाङ्गात् । स्मितरुचिफुल्लकपोलादपरो न परोऽस्ति वेङ्कटाद्रीशात् ॥ ६॥ सर्वाभरणविभूषितदिव्यावयवस्य वेङ्कटाद्रिपतेः । पल्लवपुष्पविभूषितकल्पतरोश्चापि का भिदा दृष्टा ॥ ७॥ लक्ष्मीललितपदाम्बुजलाक्षारसरञ्जितायतोरस्के । श्रीवेङ्कटाद्रिनाथे नाथे मम नित्यमर्पितो भारः ॥ ८॥ आर्यावृत्तसमेता सप्तविभक्तिर्वृषाद्रिनाथस्य । वादीन्द्रभीकृदाख्यैरार्यै रचिता जयत्वियं सततम् ॥ ९॥ ॥ इति श्रीवेङ्कटेशविजयार्यासप्तविभक्तिस्तोत्रं संपूर्णम् ॥ From a telugu book veNkaTeshakAvyakalApa