अक्षर आकार:

श्रीवेङ्कटेशतूणकम्

Shri Venkateshatunakam

श्रीवेङ्कटेशतूणकम्

वज्रशङ्ख बाणचापचिह्नि ताङ्घ्रिपङ्कजं नर्तितायुतारुणाग्य्निस्सरत्प्रभाकुलम् । वज्रपाणिमुख्यलेखवन्दितं परात्परं सज्जनार्चितं वृषाद्रिसार्वभौममाश्रये ॥ १॥ पञ्चबाणमोहनं विरिञ्चिजन्मकारणं काञ्चनाम्बरोज्ज्वलं सचञ्चलाम्बुदप्रभम् । चञ्चरीकसञ्चयाभचञ्चलालकावृतं किञ्चिदुद्धतभ्रुवं च वञ्चकं हरिं भजे ॥ २॥ ma~NgalAdhidaivataM भुजङ्गमाङ्गशायिनं सङ्गरारिभङ्गशौण्डमङ्गदाधिकोज्ज्वलम् । अङ्गसङ्गिदेहिनामभङ्गुरार्थदायिनं तुङ्गशेषशैलभव्यश‍ृङ्ग सङ्गिनं भजे ॥ ३॥ कम्बुकण्ठमम्बुजातडम्बराम्बकद्वयं शम्बरारितातमेनमम्बुराशितल्पगम् । बम्भरार्भकालिभव्यलम्बमानमौलिकं शङ्खकुन्ददन्तवन्तमुत्तमं भजामहे ॥ ४॥ पङ्कजासनार्चतं शशाङ्कशोभिताननं कङ्कणादिदिव्यभूषणाङ्कितं वरप्रदम् । कुङ्कुमाङ्कितोरसं सशङ्खचक्रनन्दकं वेङ्कटेशमिन्दिरापदाङ्कितं भजामहे ॥ ५॥ ॥ इति श्रीवेङ्कटेशतूणकम् ॥ From a telugu book veNkaTeshakAvyakalApa