श्रीनिवासस्तोत्रम्
ॐ
दर्शनात्तव गोविन्द नाधिकं वर्धते हरे ।
त्वां भजन्ति सुराध्यक्षं वेदवेद्यं पुरातनम् ॥ १॥
मुनयो मनुजश्रेष्ठाः तच्छ्रुत्वाहमिहागतः ।
स्वामिन्नच्युत गोविन्द पुराणपुरुषोत्तम ॥ २॥
अपाकृतशरीरोऽसि लीलामानुषविग्रहः ।
त्वामेव सृष्टिकरणे पालने हरणे हरे ॥ ३॥
कारणं प्रकृतिर्योनीं वदन्ति च मनीषिणः ।
जगदेकार्णवं कृत्वा भवानेकत्वमाप्य च ॥ ४॥
जीवकोटिधनं देव जठरे परिपूरयन् ।
क्रीडते रमया सार्धं रमणीयाङ्गविक्रमः ॥ ५॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
त्वन्मुखात् विप्रनिचयो बाहुभ्यां क्षत्रमण्डलम् ॥ ६॥
ऊरुभ्यामभवन्वैश्याः पद्भ्यां शुद्राः प्रकीर्तिताः ।
प्रभुत्वं सर्वलोकानां देवानामपि योगिनां ॥ ७॥
अन्तर्दृष्टितरस्त्वं हि बहिर्दृष्टिकरो भवान् ।
नमः श्रीवेङ्कटेशाय नमो ब्रह्मोदराय च ॥ ८॥
नमो नाथाय कान्ताय रमायाः पुण्यमूर्तये ।
नमः शान्ताय कृष्णाय नमस्तेऽद्भुतकर्मणे ॥ ९॥
अपाकृतशरीराय श्रीनिवासाय ते नमः ।
अनन्तमूर्तये नित्यमनन्तशिरसे नमः ॥ १०॥
अनन्तबाहवे श्रीमन् अनन्ताय नमो नमः ।
सरीसृपगिरीशाय परबह्म नमो नमः ॥ ११॥
पन्नगाचलवासाय परबह्म नमो नमः ।
इति स्तुत्वा श्रीनिवासं कमनीयकलेवरम् ॥ १२॥
स्तोत्रेणानेन सुप्रीतः तोण्डमानकृतेन च ।
सन्तुष्टः प्राह गोविन्दः श्रीमन्तं दाससत्तमम् ॥ १३॥
श्रीनिवास उवाच -
राजन्मे मङ्गलस्तोत्रं कृतं परमपावनम् ।
अनेन स्तवराजेन मामर्चयन्ति ये जनाः ॥ १४॥
तेषां तु मम सालोक्यं भविष्यति न संशयः ।
इति तोण्डामनविरचितं श्रीनिवासस्तोत्रं सम्पूर्णम् ।
सोशल मीडिया पर शेयर करें:
सहेजें एवं डाउनलोड करें (Save & Export):