अक्षर आकार:

श्रीश्रीनिवासस्तोत्रम्

shrIshrInivAsastotram

श्रीश्रीनिवासस्तोत्रम्

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ श्रीनिवासाय विद्महे । लक्ष्मीवराय धीमहि । तन्नो विष्णुः प्रचोदयात् ॥ श्रीनिवासं सलक्ष्मीकं वेङ्कटाद्रिशुभालयम् । सप्ताचलप्रभासन्तं लक्ष्मीकान्तं नमाम्यहम् ॥ १॥ आनन्दनिलयावासं परमानन्दसँल्लयम् । अचलानन्दसंवर्धं लक्ष्मीकान्तं नमाम्यहम् ॥ २॥ पतिताश्रयपादाब्जं शरणार्थिकृपाकरम् । कराभयप्रदं वन्दे लक्ष्मीकान्तं नमाम्यहम् ॥ ३॥ मुखतेजोजितार्कं तं कारुण्यमयवीक्षितम् । स्मिताननमनोहारं लक्ष्मीकान्तं नमाम्यहम् ॥ ४॥ पद्मावतीपतिं श्रीदं मनःपद्मसुवासनम् । पद्मनेत्रविमोक्तारं लक्ष्मीकान्तं नमाम्यहम् ॥ ५॥ सर्वाभीष्टवराप्तं तं सर्वव्यापिपरार्थकम् । सर्वपापविनाशं च लक्ष्मीकान्तं नमाम्यहम् ॥ ६॥ षट्शत्रुसूदनं मालं दहरात्मलयावहम् । कलिप्रत्यक्षदैवं तं लक्ष्मीकान्तं नमाम्यहम् ॥ ७॥ वसुदं वासुदेवं तं लक्ष्मीकटाक्षकारकम् । आयुरारोग्यसम्पत्तिं लक्ष्मीकान्तं नमाम्यहम् ॥ ८॥ रोगहं वरदं शान्तं वरसप्तगिरीश्वरम् । वेङ्कटेशसुनामानं लक्ष्मीकान्तं नमाम्यहम् ॥ ९॥ नागाचलप्रभावं तं वररागलयस्थितम् । स्वररागसुधामिष्टं लक्ष्मीकान्तं नमाम्यहम् ॥ १०॥ सप्तस्वरप्रियारामं सङ्गीतस्वरपूजितम् । त्यागब्रह्मसुसङ्गीतं लक्ष्मीकान्तं नमाम्यहम् ॥ ११॥ मङ्गलं श्रीनिवासाय लक्ष्मीपाय सुमङ्गलम् । त्यागब्रह्मसुगेयाय पुष्पार्चिताय मङ्गलम् ॥ १२॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं श्रीश्रीनिवासस्तोत्रम् गुरौ समर्पितम् । ॐ शुभमस्तु । Copyright Pushpa Srivatsan